न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 485, कुल 608 में से
संदर्भ में पढ़ेंचतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५३ कलाविशिष्टतया . तत्राप्यनधिगतार्थत्वमुपपादनीयम् । क्षणोपाधीनामनाकलनात् । न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम् , स्वरूपेण तज्जननेऽनागतादिविशिष्टानुभवविरोधात् । तज्ज्ञानेन तु तज्जनने सूर्यगत्यादी- नामज्ञाने तद्विशिष्टतानुत्पादात् । न चैतस्यां प्रमाणमस्ति । नन्वनुपकार्यानुपकार- कयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः ? । व्यवच्छित्तिप्रत्यायनेन व्यवच्छित्तौ स्वभावेन, अन्यथा तवाप्यनवस्थानादिति । प्रकाशः । बुद्धिधारायां विषयभेदानुपलम्भाज्ज्ञानायौगपद्यं स्वरूपसत्क्रमिकक्षणभेदमादायेति भावः । उपाधयो यदि स्वसत्तया विशिष्टतां जनयेयुः, तदाऽनधिगतधर्माणामविद्यमानतया तद्विशिष्टताऽनुभवो न स्यादित्याह स्वरूपेणेति । अथ स्वासत्त्वेऽपि ज्ञानसत्तया ते तां जनयन्ति, तत्राह तज्ज्ञानेनेति । नन्वसन्तस्ते सत्ता- मात्रेण, नासन्तश्च स्वज्ञानसत्तया तां जनयन्तीति नोक्तदोष इत्यत आह न चैतस्यामिति । एतस्यां विशिष्टतायाम् । विशेषणविशेष्यभावानुपपत्तिं तत्र मानमाह नन्विति । विशेषणेन विशेष्ये विशिष्टताख्यधर्मोत्पादनं विनैव स्वसम्बन्धादेव व्यावृत्तिबुद्धिजननेन तदुपपत्तिरित्याह व्यवच्छि- त्तीति । न च विशिष्टज्ञाने सा भासते, विशेषणविशेष्यसम्बन्धातिरिक्तायास्तस्या अननुभवात् । ननु चाभावविशिष्टबुद्धेर्विशिष्टज्ञानत्वात् संयोगादिबाधेन वैशिष्ट्यमेव सम्बन्धो विषयोऽस्तु । मैवम् । तद्धि प्रत्यभावव्यक्ति भिन्नमभिन्नं वा ? आद्ये तत्तत्स्वरूपरूपा विशेषणतैवास्तु, किमनन्त- वैशिष्ट्येन । अन्त्ये घटाभाववति पटवति घटाभावधीप्रसङ्गः । घटाभावपटाभाववैशिष्ट्ययोरभेदात् । तद्वैशिष्ट्यसत्त्वेऽपि तत्र पटाभावो नास्तीति चेन्न । पटाभावाभावस्य भावत्वे पटस्य प्रतिबन्धकतया तदभावस्य हेतुत्वात् । तस्य च वैशिष्ट्यसम्बन्धेन तत्र सत्त्वात् । अभावत्वे च तस्यापि वैशिष्ट्य- प्रकाशिका । आह ज्ञानायौगपद्यमिति । ननु चेति । यद्यप्यभावे वैशिष्ट्यसम्बन्धसिद्धावपि घटोऽयमित्यादि- धारावहनबुद्धावव्याप्तिर्न परिहृता, तथापि तद्दृष्टान्तेन ज्ञानकालानामपि वैशिष्ट्यं स्वीकरणीयं, तदेव चादायागृहीतग्राहित्वं धारावहनबुद्धेरुपपादनीयमित्यत्र तात्पर्यम् । घटाभाववतीति । इदञ्च वैशिष्ट्यनिराकरणाभिप्रायेण, प्रकृते त्वनुगतवैशिष्ट्यसिद्धावपि सङ्गतिः तदादायोऽप्यगृहीतग्राहि- त्वाभावादित्यवधेयम् । अभावत्वे चेति । पूर्वं घटाभावानुरोधेन पटाभाववैशिष्ट्यमस्वीकरणीयमि- त्युक्तमिदानीन्तु पटाभावाभावानुरोधेनापि तदङ्गीकारणीयमित्यत्र तात्पर्यम् । केचित्तु प्रतियोगिभावा- मकरन्दः । अभावत्वे चेति । अभावात्मनः पटाभावाभावस्य वैशिष्ट्यसम्बन्धेन सत्त्वं स्यात् , वैशि- ष्ट्यस्यैकत्वाभ्युपगमादित्यर्थः । अधिकं प्रत्यक्षप्रकाशे । टिप्पणी । धारणायानायेति, ज्ञानयौगपद्यनिषेधेन तस्यावश्यकत्वादिति ज्ञानानामयौगपद्यन्तरसिद्धान्तश्च । तृतीयज्ञानस्य द्वितीयज्ञानोत्पत्तिक्षणे दुर्वारसामग्रीसाम्राज्यात् अतोऽकामेन प्रमाणफलीभूतं सर्वमेव ज्ञानमतिरिक्तविषयकं वाच्यमित्यधिकमानार्थं सामग्रीभेदोऽपि वाच्यस्तथा च प्रथमक्षणे तृती- यसामग्र्यभावान्न यौगपद्यमतिरिक्तश्च विषयः कालोपाधिरेव तदन्यस्य सर्वस्यैव ग्राह्यस्य प्रथममपि विद्यमानतया सम्पन्नग्रहणसामग्रोकत्वादित्याशयः । तत्र पटाभावो नास्तीति चेदिति । पटां- त्मकप्रतिबन्धकसत्त्वादिति शेषः । प्रतिबन्धकतया तदभावस्य हेतुत्वादिति । प्रतिबन्धका- भावरूपकारणविघटकतयैव प्रतिबन्धकस्य प्रतिबध्यवारकत्वम् । तद् यदि प्रतिबन्धकसत्त्वेऽपि प्रति- बन्धकाभावस्य सत्त्वमुच्येत, प्रतिबन्धकसत्ता हि सम्बन्धसत्ताधीना वस्तुनः सम्बन्धश्चास्ति वैशिष्ट्यमिति स्यादेव प्रतिबन्धकाभावसत्त्वमिति भावः । अभावत्वे च तस्यापि वैशिष्ट्य-