न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 488, कुल 608 में से
संदर्भ में पढ़ें४५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां एवं व्यवस्थित तर्क्यतेऽपि—यद्यिमनुभवैकविषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायाथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्यवस्थाप्य न यथार्थतया व्यवहर्तुं शक्यते इति। व्यवहारेऽपि पूर्वानुभव एव प्रमितिरनपेक्षत्वात्। न तु स्मृतिः, नित्यं तदपेक्षणात्। असमीचीने ह्यनुभवे स्मृतिरपि तथैव। नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात्। न, विषयभेदात्। प्रकाशः। अनपेक्षतयेति विवृणोति—तर्क्यतेऽपीति। अनुभवैकविषया, अनुभवमात्रविषयेत्यर्थः। तेनास्या विषयान्तरेऽपि न प्रमात्वमिति भावः। तद्यथार्थत्वेति। स्वजनकानुभवयथार्थत्वा- यथार्थत्वव्याप्ययथार्थत्वायाथार्थत्वेत्यर्थः। तत्प्रामाण्यमिति। स्वजनकानुभवप्रामाण्यमित्यर्थः। अव्यवस्थाप्य अनवधार्य। यद्यपि स्वजनकानुभवप्रामाण्यमनिश्चित्यापि प्रवृत्तिसंवादादिना अनुभवस्येव स्मृतेरपि प्रामाण्यग्रहः सम्भवत्येव, तथाऽपि यदि स्मृतिः प्रमा स्यात्, तदा स्वान्यूनानतिरिक्तविषय- कस्वजनकानुभवप्रामाण्यव्याप्तप्रामाण्या न स्यात्। व्यतिरेके इच्छादिर्दृष्टान्तः। धारावाहनबुद्धिषु पूर्वपूर्वबुद्धेर्विशेषणमात्रविषयतयोत्तरोत्तरबुद्धिरपेक्षत्वेऽपि, स्मृतौ त्वन्यूनतिरिक्तविषयतयेति न तत्र व्यभिचारः। धारावाहनबुद्ध्यन्यत्वेन वा विशेषणम्। शक्यते इतीत्यस्यानन्तरं, न स्मृतिः प्रमेति शेषः। तदपेक्षणमेवाह असमीचीने हीति। मूलेति। कारणव्याप्त्यादिप्रत्यक्षप्रामाण्यव्याप्यप्रामाण्यादित्यर्थः। विषयेति। व्याप्त्यादिप्रत्य- क्षस्य लिङ्गलिङ्गिविषयत्वादुमितौ च पक्षतावच्छेदकधर्मभाननैयत्येन तस्याऽधिकस्य भानादित्यर्थः। प्रकाशिका। यत इत्याद्याहारेण प्रत्यक्षरूपकरणलक्षणाभिधानादिति भावः। यदि स्मृतिरिति। इदञ्चाव्यव- धानेनैव विवृतप्रायम्। अत्रापादके प्रमापदं यथार्थानुभवपरम्, अत इच्छादौ तद्व्यतिरेकः। आपाद्ये चोभयत्र यथार्थत्वपरं प्रामाण्यपदं तेनापाद्यव्यतिरेकस्तत्र अत एवाह व्यतिरेक इति। धारावह- नेति। तथा चापाद्येऽनुभवस्य तथा जनकत्वं प्रविष्टमिति विशिष्टाभावोऽस्त्येव धारावाहनबुद्धाविति भावः। तथा च जनकत्वाविवक्षायामाह धारेति। यद्यपि अनुमित्यनन्तरोत्पन्नेन्द्रियसन्निकर्षेण जनितेऽ- नुमितिसमानविषयप्रत्यक्षे विशेषणज्ञानात्मकतदनुमितिजन्य एवमपि व्यभिचार एव, तथापि स्वान्यू- नविषयकज्ञानजन्यानुभवत्वमेव धारावहनत्वमिति भावः। विशेष्यस्येति। अतीतादिविशेष्यकपू- मकरन्दः। तदास्वाऽन्यूनारिक्तेति। एतच्च प्रागेव विवृतप्रायम्। नन्वापादकस्य प्रामाण्यस्य वैकल्या- दिच्छादिकं नान्वयदृष्टान्तः, व्यतिरेकदृष्टान्तोऽपि न स्यात्, तादृशानुभवव्याप्तप्रामाण्यवत्त्वस्या- पाद्यव्यतिरेकस्य व्याप्यत्वाभिमतवैकल्यादिति चेत्। मैवम्। आपाद्ये प्रामाण्यपदद्वयस्य यथार्थत्व- मात्रपरत्वात्, आपादके च यथार्थानुभवपरत्वात्। एवञ्चेच्छादेरापाद्यव्यतिरेकस्य व्याप्यस्यापाद्य- व्यतिरेकस्य व्यापकस्य च सत्त्वाद्व्यतिरेकदृष्टान्तत्वमिति। विशेष्यस्येति। अतीतादिविशेष्यकस्यातुभवस्येत्यर्थः। टिप्पणी अनुभवप्रामाण्यव्याप्तेति। आपाद्ये प्रामाण्यं यथार्थत्वमात्रम्, आपादके च यथार्थानुभवत्वं तथाचेच्छादेर्व्यतिरेकदृष्टान्तत्वसम्भवः। विषयतयोत्तरोत्तरबुद्धिरिति। स्वान्यूनानतिरिक्त- विषयकत्वावच्छिन्नजनकत्वस्य प्रवेशाद्योक्तापाद्यापादकव्याप्तौ व्यभिचारः, पूर्वज्ञानस्य विशेषणमात्र- विषयकत्वेन जनकत्वादिति भावः। तस्य तदुपादानज्ञानेति। तस्य ज्ञाततालक्षणस्योपका-