न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 489, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] स्मृतिर्मानान्तरत्वखण्डनम्। ४५७ आगमस्तर्हि न प्रमाणं, तद्विषयमानान्तरानुविधानात् । न । प्रमातृभेदात् । धारावाहिकबुद्धयस्तर्हि न प्रमाणम्, आद्यप्रमाणानुविधानात् । न । कारणविशुद्धि- मात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणभावात् , कारणबलायातं काक- तालीयं पौर्वापर्यमिति । यदि हि स्मृतिर्न प्रमितिः पूर्वानुभवे किं प्रमाणम् । स्मृत्यन्यथानुपपत्तिरिति चेत् । न । तया कारणमात्रसिद्धेः, न तु तेनानुभवेनैव भवितव्यमिति नियामक- मस्ति । अननुभूतेऽपि तर्हि स्मरणं स्यादिति चेत्, किं न स्यात् । न ह्यत्र प्रमा- णमस्ति । पूर्वानुभवाकारोल्लेखः स्मृतेर्दृश्यते, सोऽन्यथा न स्यादिति चेत् । तत् किं बौद्धवद्विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्तवार्थापिष्यते, तथाभूतं ज्ञानमेव वा तत्सिद्धिः ? । आद्ये तद्वदेवानैकान्तिकत्वम् । न हि यदाकारं ज्ञानं, तत्पूर्वकत्वं तस्येति नियमः, अनागतज्ञाने विभ्रमे च व्यभिचारात् । द्वितीये तु स्मृतिप्रामा- ण्यमवर्ज्जनीयम् । मा भूत् पूर्वानुभवसिद्धिः, किं नश्छिन्नमिति चेत् । न तर्हि प्रकाशः । तथापि श्रोतुर्वाक्यार्थप्रमाया वाक्यप्रयोगमूलतदर्थविषयकज्ञानप्रामाण्यापेक्षित्वात्र प्रमात्वं स्यादि- त्याह आगम इति । तथात्वेऽपि वक्तृश्रोतृरूपप्रमातृभेदोऽस्ति, स्मृतौ त्वेकस्यैव तथात्वमित्याह प्रमात्रिति । तर्हि विषयप्रमात्रोरभेदाद्धारावहनबुद्धयः पूर्वबुद्ध्यपेक्षाः प्रमा न स्युरित्याह धारेति । यद्यपि बुद्धिक्रमार्थ्यानुपपत्त्या पूर्वबुद्धेर्विशेषणज्ञानत्वेनोत्तरबुद्धिकारणत्वं, तथापि स्मृतिवदन्यूनविषयतया न कारणत्वं किन्तु विशेषणमात्रविषयत्वेनेत्युक्तम् । अन्यूनानतिरिक्तविषयत्वन्तु काकतालीयमित्याह कारणेति । नन्वतीतानुभववैशिष्ट्यरूप्रा तत्ता न मानसप्रत्यक्षवेद्या, अनुभवसत्त्वकाले तदतीतत्वाभावात् , तदत्ययकाले च विशेष्यासत्त्वादिति स्मृतिरेव तत्र मानमित्यगृहीतविषयतया सा प्रमा स्यादित्याह- यदीत्यादिना, न तर्हीत्यन्तेन । तत्किमिति । सौत्रान्तिकानां घटाद्याकारज्ञानकादाचित्कत्या- न्यथाऽनुपपत्त्या घटादिकल्पनवत् तत्ताऽऽकारान्यथाऽनुपपत्त्या पूर्वानुभवकल्पनमित्यर्थः । तथा- भूतम् । सौत्रान्तिकमते यथाऽनैकान्तिकत्वं, तथा तन्मतेऽपीत्यर्थः । तदेवाह न हीति । आकारेण ज्ञानस्यार्थजन्यत्वमनुमेयमर्थसत्त्वमात्रं वा ? आद्ये अनागतार्थस्य वर्तमानज्ञानाकारणत्वा- दनैकान्तिकम् । अन्त्ये अनागतस्य कादाचित्कत्वेऽपि शुक्तौ सर्वदा रजतत्वाकारत्वऽसत्त्वाद्रजत- त्वाकारभ्रमेऽनैकान्तिकमित्यर्थः । द्वितीये त्विति । तत्ताविषया स्मृतिरेव तत्तासिद्धिरिति सा प्रमा स्यादेवेत्यर्थः । तथा च स्मृत्यनुभवयोः कार्यकारणभावान्यथाऽनुपपत्तेः स्मृतिः प्रमेति भावः । प्रकाशिका । र्वानुभवस्येत्यर्थः । अतीतानुभववैशिष्ट्येति । यद्यप्येतावता पूर्वापरीभावसिद्धावपि न कार्य- कारणभावसिद्धिरन्यथा योऽहं घटमद्राक्षं सोऽहं घटं स्पृशामीत्यत्रापि तत्सिद्धापत्तेः, तथाप्येवमभ- योषस्थितौ ( स्मरणे ) अननुभूते स्मरणाभावादन्वयव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः । मकरन्दः । अतीतानुभववैशिष्ट्येति । यद्यप्येवं पौर्वापर्य्यमात्रं सिध्यति, न तु कार्यकारणभावः, अन्यथा योऽहं घटमद्राक्षं सोऽहं स्पृशामीत्यादावपि तथा स्यात् । तथाप्यननुभूते स्मरणाभावादन्व- यव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः । ५८ न्या० कु०