न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 496, कुल 608 में से
संदर्भ में पढ़ें४६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तस्यैवासिद्धेः । तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहे- तुना भवितव्यमिति चेत् । अस्तिवच्छा प्रत्यक्षसिद्धा, न तु ज्ञानम् । सैव कथं नियताधिकरणे उत्पद्यतामिति चेन्न । ज्ञानाभ्युपगमेऽपि तुल्यत्वात् । स्वहेतोः कुतश्चिदिति चेत् । तत एव इच्छा अस्तु, किं ज्ञानकल्पनयेति । स्यादेतत् । प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्था- यामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् । तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयं, यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो निवर्त्तते इति चेत् । हन्तैवं सुष्वापत्तिनिवृत्तिमनुभवसिद्धां प्रतिजानानेन ज्ञानमेवाप- रोक्षमिय्यते । अचेतयन्नेव हि सुषुप्त इत्युच्यते, अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञान- मिति । तथाच कालात्ययापदिष्टो हेतुः । एतेन क्षणिकत्वादिति निरस्तम् । अपि च किमिदं क्षणिकत्वं नाम ? यद्या- शुतरविनाशित्वं, तदाऽनैकान्तिकम् । अथैकक्षणावस्थाायित्वं, तदसिद्धं प्रमाणा- भावात् । ननु स्थायिविज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृश- मेव गृह्णाति, अन्यादृशं वा, न वा कमपीति । न प्रथमः । तस्य क्षणस्यातीत- प्रकाशः । वकारणादेव स्मरणोत्पत्तिरित्यन्यथासिद्धिरिति भावः । तदिति । व्यवहारनिमित्तमित्यर्थः । तस्यै- वेति । ज्ञानासिद्धा व्यवहारे तज्जन्यत्वानिश्चयादित्यर्थः । कर्तृधर्मप्रवृत्तेः कर्तृधर्मकार्यत्वात् कर्तृधर्मतया ज्ञानं सिद्ध्येदित्याह तथा पीति । इच्छा स्वविषयविषयकात्मधर्मजन्या नियतविषयकधर्मत्वात् प्रय- त्नवदित्यभिप्रेत्याह सैवेति । अनुमानं ज्ञान एवानैकान्तिकमित्यभिप्रेत्याह ज्ञानेति । न च ज्ञानहे- तोरननुगमाद् व्यभिचारेण कारणत्वासम्भवः, परेषा मेकशक्तिमत्त्वेनापि कारणत्वग्रहसम्भवादिति भावः । अनुभवसिद्धमिति । यद्यप्येकात्मन्येकदा आश्रुतरविनाशिगुणत्रयानवस्थानादिच्छा- ज्ञानयोः पौर्वापर्याऽनुभवो न सम्भवति, तथापि ज्ञानव्यतिरेकाऽव्यवहितोत्तरकाले इच्छाव्यतिरेक- नियमात् कार्यकारणभावग्रह इति भावः । एतेनेति । कालात्ययापदेशेनेत्यर्थः । तदानैकान्तिकमिति । इच्छादावित्यर्थः । यादृशं, वर्त्तमान- क्षणावच्छिन्नम् । अन्यादृशं द्वितीयक्षणावच्छिन्नम् । तस्येति । द्वितीये क्षणे इत्यनुषज्जयते । वर्त्त- प्रकाशिका । परेषामिति तथा च तद्रीत्या ज्ञानहेतुनान्यथासिद्धिः स्यादेवेति भावः । यद्यपीति । कार्यकारणभावग्रहमादाय एकत्रैत्युक्तं प्रत्यक्षे विषयस्य समसमयतया हेतुत्वमित्यभिमानेन चैतदुपपादनीयम् । तथापीति । व्यतिरेकपदं प्रागभावपरम् , अन्यथा ज्ञाननाशेऽपीच्छासत्त्वा- न्नियमभङ्गापत्तेः । वर्त्तमानतेति । मकरन्दः । परेषामिति । तथा च तन्मते ज्ञानहेतुना तदन्यथासिद्धिः स्यादेवेति भावः । तथापीति । अत्र व्यतिरेकपदं प्रागभावपरम् । अन्यथा ज्ञाननाशेऽपीच्छासत्त्वान्नियमभङ्गापत्तेः । टिप्पणी । तथापि तदनुपपत्त्या नानुभवकल्पनं युज्यते, अनुभवं विनाप्यनुभवकारणत्वेनाभिमतादेव संस्कारा-