न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 497, कुल 608 में से
संदर्भ में पढ़ेंचतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६५ त्वात् । प्रत्यक्षज्ञानस्य च वर्त्तमानाभत्वात् । न चातीतमेव वर्त्तमानाभतयोल्लिखति, भ्रान्तत्वप्रसङ्गात् । न द्वितीयः, विरम्य व्यापारायोगात् । प्रथमोऽपि तथाभ्यु- पगमेऽनागतावेक्षणप्रसङ्गात् । न तृतीयः । ज्ञानत्वहानेरिति महाप्रतीयाः । तदसत् । ज्ञानं गृह्णातीत्यस्यैवार्थस्यानभ्युपगमात् । अपि तु तदेव ग्रहणमित्य- भ्युपगमः । तथा च ज्ञानं प्रथमे क्षणे यमर्थमालम्ब्य जातं, द्वितीयेऽपि क्षणे तदा- लम्बनमेव तन्न वेति प्रश्नार्थः । तत्र तदालम्बनमेव तदिति परमार्थः । न चैवं भ्रान्तत्वम् । विपरीतानवगाहनात् । तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः, तद- नुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत् । किमस्मिन्नुपपन्नम् । न हि ज्ञानमर्थश्चे- त्येकं तत्त्वमेकायुष्कं वेति । सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम् ? इत्थं यथो- च्यते— न स्वप्रकाशं, वस्तुत्वादितरवस्तुवत् । न च ज्ञानान्तरग्राह्यं, ज्ञानयौगपद्य- निषेधेन समानकालस्य तस्याभावात् । ग्राहककाले ग्राह्यस्यातीतत्वेन वर्त्तमाना- भत्वानुपपत्तेः । ग्राह्यकाले च ग्राहकस्यानागतत्वात्—इति चेत् । नन्वेवं ज्ञातताऽपि न प्रत्यक्षा स्यात्, क्षणिकत्वात् । कथम् ? इत्थम्—न स्वप्रकाशा वस्तुत्वात् । न जनकग्राह्या, अनागतत्वात्, विरम्य व्यापारायोगाच्च । न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् । न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वा- दिति । क्षणिकत्वमेव तस्याः कुत इति चेत् । त्वदुक्तयुक्तैरेव । तथाहि—यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयतेऽन्यं वा, न वा कमपीति । तत्र न प्रथमः । तस्य तदानीमसत्त्वात् । न द्वितीयः । अप्रतिसंक्र- प्रकाशः । मानाभत्वादिति । वर्त्तमानविषयत्वादित्यर्थः । विरम्येति । ज्ञानं हि यं विषयीकृत्य उत्पन्नं, न तं जहाति, नान्यं वा विषयीकरोतीति ज्ञानस्वभावादित्यर्थः । न च प्रथमत एव तद्विषयीकरणे हेतु- रस्ति, भावित्वेनार्थस्य तदानीमवर्त्तमानत्वादित्याह प्रथमोऽपीति । द्वितीयक्षणे पूर्वक्षणविषयी- भूतस्यार्थस्य वर्त्तमानता भासते, तथाच तत्क्षणनाशेऽपि तथाविधमर्थं विषयीकुर्व्वज्ज्ञानम्भ्रान्तमेवो- त्तरक्षणेऽवतिष्ठते इति नोक्तदोष इत्याह तत्रेति । किमस्मिन्निति । ज्ञानार्थयोर्यौगपद्ये इत्यर्थः । स्वप्रकाशमिति । स्वप्रकाशत्वाप्रसिद्धावपि इदं घटज्ञानं नैतस्य विषयो ज्ञानत्वादित्यर्थः । ग्राहकेति । ग्राहकज्ञानकाले ग्राह्यं ज्ञानं नास्ति, ग्राह्यज्ञानकाले च तद्ग्राहकं ज्ञानमनागतमित्यर्थः । ज्ञातताजनकं यज्ज्ञानं तदेव न तद्ग्राहकं, तत्काले ज्ञातताया अनागतत्वेन वर्त्तमानत्वाभावादित्याह न जनकेति । ननु ज्ञातताजनकमेव ज्ञानं ज्ञाततां जनयित्वा तां ग्रहीष्यतीत्यत आह ज्ञानजनकेति । ज्ञाततासमकालोत्पन्नज्ञानेन न तद्ग्रहः, ज्ञातताजननोत्तरकाले तदिन्द्रियसम्बन्धस्य प्राप्त्या तत्स- मकालं तदभावादित्यर्थः । अनुभवेति । भू प्राप्तावित्येतस्य रूपम् । अप्रतिसंक्रमादाश्रयान्तरागम- प्रकाशिका । प्रथमक्षणावच्छिन्नतेत्यर्थः । तत्तक्षणेति । प्रथमक्षणेत्यर्थः । तथाविधमिति । प्रथमक्षणावच्छि- न्नमित्यर्थः । तथा च पाकरक्ते श्यामप्रतीतिवत् प्रमात्वमिति भावः । स्वप्रकाशत्वाप्रसिद्धाविति । मकरन्दः । वर्त्तमानतेति । प्रथमक्षणावच्छिन्नता भासते इत्यर्थः । तत्तक्षणेति । प्रथमक्षणनाशेऽपीत्यर्थः । तथाविधं प्रथमक्षणावच्छिन्नमित्यर्थः । पाकरक्ते श्यामोऽयमितिधिवदिति भावः । स्वप्रकाशत्वाप्रसिद्धाविति । सिद्धौ वा तत्रैवानैकान्तिकमिति भावः । ५६न्या० कु०