न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 498, कुल 608 में से
संदर्भ में पढ़ें४६६ · व्याख्यातृत्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायो- मात् । एकक्षणावगाहिति च ज्ञाने तदन्यक्षणाऽऽश्रयज्ञातताफलत्वेन भ्रान्तत्वप्र- प्रकाशः । नादित्यर्थः । एकक्षणेति । अन्यविषयकज्ञानेनान्यत्र ज्ञातताजनने जनकज्ञानं भ्रमः स्यादित्यर्थः । प्रकाशिका । तत्सिद्धौ च तत्रैवानैकान्तिकत्वमिति भावः । अन्यविषयकेति । ज्ञातता चान्यवहिःपूर्वक्षण- मेवावच्छेदकतयावलम्बत इति प्रमायामप्येवंसति भ्रमत्वप्रसङ्ग इत्यवधेयम् । न च रजतज्ञा- नस्यापि शुक्तिविषयकत्वान्नान्यविषयकत्वमिति मूलस्थदृष्टान्तासङ्गतिरिति वाच्यम् । अन्यथा- ख्यात्यनभ्युपगन्तृमतेन मूलस्थदृष्टान्तोपपत्तेः, तथा च तन्मते यथा शुक्त्यविषयकरजतज्ञानस्य शुक्तिनिष्ठज्ञातताजनकत्या भ्रमव्यवहारास्पदत्वं तथात्रापि स्यादित्यर्थः । न च तद्विषयकत्वे कथं मकरन्दः । अन्यविषयकेति । न च रजतज्ञानस्यापि शुक्तिविषयत्वान्नान्यविषयकत्वमिति वाच्यम् । परमतेऽन्यथाख्यात्यनभ्युपगमेनातथात्वात् । तथा च शुक्त्यविषयकरजतस्मरणस्य शुक्तिनिष्ठज्ञातता- जनकत्वेन यथा भ्रान्तत्वं, तथा प्रकृतेऽपि स्यादिति भावः । न च ज्ञानस्य स्वविषयज्ञातताजननेऽ- तिप्रसङ्ग इति वाच्यम् । भेदाग्रहादेर्नियामकत्वादन्यथा व्यवहारजननेऽपि तदापत्तेरित्याशयः । टिप्पणी धानेन स्मरणोपपत्तेरिति भावः । अन्यविषयकज्ञानेनान्यत्र ज्ञातताजनन इति । अन्यधर्मा- वच्छिन्नविषयताकज्ञानेन अन्यधर्मावच्छिन्ने ज्ञातताजनन इत्यर्थः, तेन न रजतादीत्यादिमूलस्थ- दृष्टान्तासङ्गतिः, यथाश्रुते रजतज्ञानस्यापि शुक्तिविषयकत्वेनान्यत्र ज्ञाततेत्यादेरभावात् । केचित्तु अन्यथाख्यात्यनभ्युपगमपक्षे स्वाविषयनिष्ठज्ञातताजनकत्वमेव भ्रमत्वम् । इदं रजतमिति भ्रमाभिषिक्त- स्थले रजतप्रमया शुक्तौ ज्ञातताजननात्तत्र यथा भ्रमत्वं तथा प्रकृते वर्त्तमानक्षणावच्छिन्नविषयज्ञाने- नान्यत्रानागतक्षणावच्छिन्ने ज्ञाततापेक्षया वर्त्तमानावच्छिन्ने ज्ञातताजननाद् भ्रमत्वमित्याहुः । तच्चि- न्त्यम् । ज्ञाततावादिभट्टमते उत्तरकर्तृन्यायमते चान्यथाख्यात्यभ्युपगमात्; तदन्यतरमतावलम्बनेनैव कस्यचिदित्यर्थस्य वक्तुं युक्तत्वात् । किञ्चान्यथाख्यात्यनभ्युपगन्तृमते ज्ञातताया एवानभ्युपगमात् तस्या ज्ञानज्ञानार्थमभ्युपगमेन स्वप्रकाशतामतेऽन्यथैव तत्सिद्धेः, स्वविषयकेनेदंज्ञानेनैव च ज्ञाततोत्पत्तेः सम्भवे रजतज्ञानस्य तदुत्पादकत्वे मानाभावादतिप्रसङ्गाच्च । न च रजतज्ञानेदंज्ञानयोर्भेदग्रहाद् रजतार्थिनः पुरोवर्त्तिनि प्रवृत्त्यादिवत् पुरोवर्त्तिनि ज्ञाततामपि रजतज्ञानं जनयिष्यतीति वाच्यम् । शुक्तिज्ञानमात्रस्य रजतार्थिप्रवृत्तिजनकत्वाददर्शनाद्, रजतज्ञानभेदाग्रहापेक्षायामस्तु हि रजतज्ञानस्य प्रवृत्तावुपयोगः, शुक्तिज्ञानमात्रस्य तत्र ज्ञातताजनकत्वस्य क्लृप्ततया तत्र भेदाग्रहस्यापेक्षाकल्प- नस्यासम्भवात् । न च बाधोत्तरं रजतत्वेन शुक्तिरित्त्यनुभवाद्रजतत्वेन ज्ञाततोत्पत्तौ रजतज्ञाना- पेक्षा स्यादिति वाच्यम् । विषयत्वातिक्तिस्य ज्ञातत्वस्य रजतत्वावच्छिन्नत्वे मानाभावात् । भावे वा किमपराद्धं हि रजतत्वेन शुक्तिविषयतया तथासत्यन्यथाख्यात्यापत्तिः; प्रभाकरैश्च रजतत्वेन ज्ञातत्वस्य रजतत्वज्ञानभेदेनागृहीतशुक्तिज्ञानविषयत्वरूपत्वस्यैव स्वीकरणीयत्वात् । एव- न्दार्ष्टान्तिके घटस्यैव विषयत्वाज् ज्ञातताधारत्वाच्चान्यत्वभावाद् विशिष्टताम्पुरस्कृत्य भेदेऽन्यथापि सङ्गतेरुक्तत्वात् । न चान्यथाख्यातिपक्षे कथं सङ्गतिः, यस्य ज्ञातता तस्यैव विषयत्वे पूर्वक्षणादीनाम- विषयत्वेनान्यथाख्यात्यभावप्रसङ्गात्, विषयत्वस्य ज्ञाततानियतत्वे ज्ञातताधारस्याविषयत्वेन ज्ञान- स्यान्यथाख्यातित्वासम्भवादिति वाच्यम् । प्रकारविशेष्ययोरुभयोरेव ज्ञातताया विनिगमनाविरहे- णानुभवानुरोधेन च स्वीकरणीयत्वात् । प्रकारीभूतक्षणज्ञाततामादाय तस्यापि विषयत्वात् विशेष्ये ज्ञाततायाः क्षणान्तरसम्बन्धे स्वीकारे तस्य विषयत्वापत्त्याऽन्यथाख्यातेरापादनीयत्वात् । वस्तुतो