न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 501, कुल 608 में से
संदर्भ में पढ़ेंचतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम्। ४६६ नाम। अर्थनिरपेक्षप्रकाशनानुवृत्तमात्रेण तथात्वे भूतभाविषयस्यापि ज्ञानस्य तथाभावप्रसङ्गात्। अथ मा भूदयं दोष इति स्थूल एव वर्त्तमानः प्रकाशेनाश्रीयते इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति । ननु ज्ञानमैन्द्रियकं चेद् विषयसञ्चारो न स्यात्। संजातसम्बन्धत्वात्। न च जिज्ञासानियमन्नियमः। तस्याः संशयपूर्वकत्वात्। तस्य च धर्मिज्ञानपूर्वकत्वात्। धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षत्वे वा उभयथाऽप्यनवस्थानादिति । तन्न। ज्ञाततापक्षेऽपि तुल्यत्वात्, तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापाताज्जि- ज्ञासानियमस्य च तद्वदनुपपत्तेः। न च इन्द्रियसम्बन्धविच्छेदाद्विराम इति युक्तम्। आत्मप्रकाशाव्यापनात्। स्वभावत एव काचिदसावजिज्ञासितापि ज्ञायते, न प्रकाशः। न्नार्थविषयवर्त्तमानता तथात्वे वा अतीतादिविषयकमपि ज्ञानं वर्त्तमानभं स्यात्। एवञ्चाग्रिम क्षणे अतीतज्ञातताविषयकं ज्ञानं न वर्त्तमानामं स्यादित्यर्थः ॥ ननु यदि ज्ञानं मानसं स्यात्तदा विषयान्तरग्रहो न स्यात् , संयुक्तसमवायरूपाया मनःप्रत्यासत्तेः सदा सत्त्वेन ज्ञानपरम्पराया एव ज्ञेयत्वादित्याह— नन्विति ॥ ननु ज्ञानं योग्यं मनःप्रत्यासन्नमपि जिज्ञासाज्ञेयमिति तन्नियमान्नोक्तदोष इत्यत आह न चेति ॥ सामान्यतो ज्ञाते विशेषतश्चाज्ञाते जिज्ञासा जायते इति सामान्यतो ज्ञानानुभवो वाच्यः, तस्यापि यदि जिज्ञासावैरपेक्ष्येण सन्निकर्षमात्राद् ग्रहः, तदाऽस्य सदातनत्वाद् ग्रहण- परम्पराया अविच्छेदादनवस्था। अथ तद्ग्रहेऽपि सा नियामिका, तदा तस्या अपि सामान्यतो ज्ञानार्थं जिज्ञासा वाच्या । साऽपि सामान्यज्ञानपूर्विका, तदपि जिज्ञासाऽधीनजन्मेति पूर्वपूर्वज्ञाना- पेक्षायामनवस्थेत्युभयथानवस्थार्थः। अत्र किञ्चिज्ज्ञानमजिज्ञासितं ज्ञायते, किञ्चिज्जिज्ञासितं, किञ्चिन्न ज्ञायत एवेत्यनियमान्नोक्तदोष इत्यभिप्रेत्य समाधातुं प्रतिवन्दिमुखेनाह ज्ञाततापक्षेऽपीति ॥ ननु चक्षुरादिना सम्बन्धविच्छेदाज्ज्ञातताग्रहविच्छेदः स्यादित्यत आह न चेति ॥ बाह्ये तथा प्रकाशिका। तथात्वे वेति। ज्ञाततावर्तमानत्वमात्रेणैव ज्ञानस्य वर्त्तमानाभावत्व इत्यर्थः। अतीतेति । क्षणरूप- विशेषणतयादेवातीतत्वम्, एवञ्चैतत्प्रघट्टकस्य कुटिलिकान्याख्यां विना मूलप्रकाशयोर्न परस्परं मकरन्दः। कत्वं, तदा ज्ञानस्यापि न स्यादित्याकर एव स्फुटम् । तथात्वे वेति । यदि स्ववर्त्तमानतया वर्त्तमा- टिप्पणी। वभासत्वासम्भव इत्यर्थः । अतीतादावपि यदि ज्ञाततोत्पत्तिरभ्युपेयते तदाह तथात्वे 'वेति । अथवा स्वाविषयनिष्ठयापि यदि वर्त्तमानज्ञाततया ज्ञातताज्ञानस्य स्वविषयघटादिनिष्ठवर्त्तमानज्ञाततया वर्त्तमानाभासत्वं स्यात्तत्राह तथात्वे वेति । अतीतादिज्ञानस्थलेऽपि कदाचित् स्वाव्यवहितपूर्व- क्षणोत्पन्नवर्त्तमानविषयज्ञानजन्यज्ञाततायाः स्वोत्पत्तिकक्षण उत्पत्तिमम्भवेन तया वर्त्तमानया तस्यापि वर्त्तमानाभासत्वं स्यादित्यर्थः। एवञ्चेति। विषयवर्त्तमानतयैव वर्त्तमानाभत्वे चेत्यर्थः । ज्ञातता- ज्ञानस्थले ज्ञातताया कथमपि वर्त्तमानावभासत्वं नोपपादयितुं शक्यते इति ज्ञानविषयक्षणोपलक्षित- विषयकत्वेन ज्ञानस्य वर्त्तमानावभासता द्वितीयक्षणेऽप्युपपादयितुं शक्येति न ज्ञानस्य क्षणिकत्वं न वाऽप्रत्यक्षत्वम्, नापि च ज्ञानज्ञानोपपादनाय ज्ञाततत्वं स्वीकरणीयमिति तात्पर्यार्थः । ज्ञातता- याश्च क्षणिकत्वेन तज्ज्ञानकाल इति। इदमुपलक्षणम्—ज्ञाततावर्तमानतया वर्त्तमानावभासत्वे विनश्यदवस्थविषयक्षणोत्पन्नप्रत्यक्षस्य तथात्वं न स्यात् स्वोत्तरक्षणे विषयाभावेन ज्ञाततोत्पत्तेर-,