न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 505, कुल 608 में से
संदर्भ में पढ़ेंचतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४७३ योगात्, किं लिङ्गग्रहणसहकारि स्यादिति । एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति । स्यादेतत् । विषयनिरूप्यं हि ज्ञानमिष्यते । न चातीन्द्रियस्य परमाण्वादेर्म- नसा वेदनमस्ति । न चागृहीतस्य विशेषणत्वम् । न च नित्यपरोक्षस्यापरोक्ष- विशिष्टबुद्धिविषयत्वं व्याघातादिति । न । बाह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्व- ज्ञानोपनीतस्यैव मनसा वेदनात् । अन्यथाऽतीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात् । इयांस्तु विशेषः—तस्मिन् सति तद्बलादेव, असति तु तज्जनितवासनावलात् । न चैवंसति स्मरणमेतत् । अगृहीतज्ञानगोचरत्वात् । न च विषयांशे तत्तथा प्रकाशः। निर्विकल्पकं, विषयांशे सविकल्पकमित्युभयरूपमेव, अंशभेदेनाविरोधात् । अनुमिनोमीत्यादौ तु न तथा, अनुव्यवसाये अनुमितित्वाभावात् । ग्रन्थस्तु ज्ञानान्तरस्य सामग्रीसत्त्वाद् यत्र सम्भवस्तत्परतया नेयः ॥ एतेनेति ॥ एकगकारादिनिष्ठतया गत्वादिनिर्विकल्पकेन गत्वादिविशिष्टज्ञानकाले एकगादि- व्यक्तेर्नशेऽपि गादिव्यक्त्यन्तरे गत्वादिविशिष्टज्ञानमित्यर्थः । ननु ज्ञानस्य विषयावच्छिन्नस्यैव मानसप्रत्यक्षत्वादतीन्द्रियार्थविषयज्ञानस्य न मानसत्वं, परमाण्वादेरतीन्द्रियत्वात्• अतस्तद्दृष्टान्ते- नैतज्ज्ञानस्याप्यमानसत्वमनुमेयम्, न चाप्रयोजकत्वम्, वाह्येन सह मनसः सन्निकर्षाभावलक्षण- प्रतिकूलतर्कस्य विपक्षबाधकत्वादिति शङ्कते स्यादेतदिति ॥ ज्ञानोपनीतविषयेण संयुक्तसमवेत- विशेषणताऽऽत्मकज्ञानरूपमनःप्रत्यासत्त्या मनसैव प्रत्यक्षाऽप्रत्यक्षविषयग्रहः, न चाऽतीन्द्रियत्व- व्याघातः, योगजधर्माजन्य-जन्यस्वविषयकसविकल्पकाजन्यजन्यप्रत्यक्षाऽविषयस्यातीन्द्रियत्वादिति परिहरति बाह्येति ॥ यदि च ज्ञानसंस्काराद्यपेक्षमपि मनो नातीन्द्रियार्थग्राहकं ततस्तत्करणिका स्मृतिरतीन्द्रिये न स्यादित्याह अन्यथेति ॥ ननु यदि ज्ञानादनुव्यवसायः स्मरणञ्च स्यात्, तदाऽनुव्यवसायः साक्षात्कारी, न तु स्मरणमिति कुतो नियम इत्यत आह इयांस्त्विति ॥ तस्मिन्निति ॥ ज्ञाने विद्यमाने तद्रूपप्रत्यासत्तेस्तदनुव्यवसायः साक्षात्कारी, ज्ञाने त्वऽसति संस्कार- रूपप्रत्यासत्तेस्तदन्यप्रत्यासत्त्यभावान्च्च स्मरणं परोक्षमेवेत्यर्थः । तथाप्यनुव्यवसायो व्यवसायगृहीत- गोचरत्वेन गृहीतग्राहित्वात् स्मृतिः स्यादित्यत आह न चैवमिति ॥ अगृहीतेति ॥ ज्ञानस्य व्यवसायाविषयस्यैवानुव्यवसायविषयत्वादित्यर्थः । अर्थांशे गृहीतग्राहित्वेऽपि न घटस्य विशेष्यता, प्रकाशिका। मिति न्यायेन नरसिंहाकारज्ञानोत्पत्त्यनन्तरमेव जानामीति प्रत्ययोत्पत्तेरिति भावः । अनुमिनो- मीति । आदिपदादुपमिनोमीत्यादिसंग्रहः । इदमुपलक्षणम्—पश्यामीत्यादावपि नेयं गतिरिति द्रष्टव्यम् । योगजेति । सामान्यलक्षणप्रत्यासत्त्यजन्येत्यपि विशेषणमत्र द्रष्टव्यम् । संयुक्त- विशेषणताया इति । इदमुपलक्षणम्—संस्कारातिरिक्तविशेष्यसन्निकर्षसत्त्वादित्यत्र तात्पर्यम् । मकरन्दः। सत्त्वादिति भावः । अत एवाह अनुमिनोमीत्यादाविति । योगजधर्माज्न्येति । अत्र सामान्यलक्षणप्रत्यासत्त्यजन्येत्यपि विशेषणं बोध्यम् । टिप्पणी निर्विकल्पके भासते इति यदुक्तं तत्राह वस्तुत इत्यादि । अनुमिनोमीत्यादाविति । तथा च व्यवसायात्तरक्षणे व्यवसायगृहीतविषयविशिष्टत्वेन ज्ञानविषयकतया सविकल्पकस्य ज्ञानत्वविष- ६० न्या० कु०