न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 506, कुल 608 में से
संदर्भ में पढ़ें४७४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यार्था स्येदिति युक्तम् । अवच्छेदकतया प्रागवस्थावदवभासनात् । न च प्रत्यभिज्ञान- मपि ग्रहणस्मरणोकारम् । विरोधात् । अथ ग्रहणस्मरणयोः कियती सामग्री ? अधिकोऽर्थसन्निकर्षो ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य । अथ ग्रहणत्वेऽपि कुत एतदपरोक्षाकारम् ? कारणान्तरनिरपेक्षेण संस्कारा- धिकसन्निकर्षवतेन्द्रियेण जनितत्वात् । अथ कः संनिकर्षः ? ज्ञानेन संयुक्त- समवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति । मनसो निरपेक्षस्य वहि- र्व्यापारेऽन्धवधिराद्यभावप्रसङ्ग इति चेत् । ज्ञानावच्छेदकं प्रति नायं दोषः । न च ज्ञानापेक्षया वहिरित्यस्ति । नापि तद्विषयापेक्षयां निरपेक्षत्वं, तस्यैव ज्ञानस्या- पेक्षणात् । अथापि ज्ञानं प्रत्यक्षमित्यत्र किं प्रमाणम् ? प्रत्यक्षमेव । यदसूत्रयत्- 'ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्' ( न्याय० ५. १. ३१ ) इति ॥ ४ ॥ प्रकाशः । किन्तु ज्ञाने विशेषणता तत्तावदित्याह अवच्छेदकतयेति ॥ यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया स्फुरणं, न स्मरणं, तथा व्यवसाय- सहकारिणा मनसा जनितेऽनुव्यवसाये संयुक्तसमवेतविशेषणतया विषयस्फुरणेऽपि न तस्य स्मरण- त्वमित्यर्थः । ननु प्रत्यभिज्ञानमपि तत्तांशे स्मरणमेव, इदन्त्वांशे त्वनुभव इत्यत आह न चेति ॥ स्मृतित्वानुभूतित्वजात्योर्व्याप्यवृत्तित्वेनांशाऽस्त्वेरित्यर्थः ॥ अथेति ॥ संस्कारजत्वाविशेषात् प्रत्य- भिज्ञानमनुभवो, न स्मृतिरिति कुतो नियम इत्यर्थः । अधिक इति ॥ संस्कारातिरिक्तायाः संयुक्त- विशेषणतायाः प्रत्यासत्तेः प्रत्यभिज्ञाने सत्त्वादित्यर्थः ॥ अथ संस्कारजन्यत्वेन स्मृतिवत्प्रत्यभिज्ञानं परोक्षमेव कुतो नेत्याशयेन पृच्छति अथेति ॥ उत्तरं- कारणान्तरेति ॥ लिङ्गाद्यनपेक्षेनेत्यर्थः । न च विनिगमकाभावः । प्रत्यभिज्ञाने अनुभवामीत्य- नुव्यवसायसाक्षिकत्वादनुभवत्वस्येति भावः । वस्तुतस्तत्तास्मृतिजन्यमेव प्रत्यभिज्ञानं, न संस्कार- जन्यम्, अन्यथा संस्कारद्वारा पूर्व्वानुभवस्य तत्करणतया ज्ञानकरणतया तस्य परोक्षतापत्तिः, तत्तास्मृतेश्च निर्व्यापारत्वेनाऽकरणत्वादिति तत्त्वम् ॥ ज्ञानेति ॥ इन्द्रियादिजनितव्यवसायापेक्षस्य मनसो वहिःप्रवृत्तेर्न स्वातन्त्र्येणेति नोक्तदोष इत्यर्थः । समाधानान्तरमाह न चेति ॥ साधकबाधकाभावात् संशयः स्यादित्याशयेन पृच्छति अथेति ॥ उत्तरं-प्रत्यक्षमेवेति ॥ जानामीति मानसप्रत्यक्षमेव ज्ञानप्रत्यक्षत्वे मानमित्यर्थः । तत्र सूत्रकारसम्मतिमाह यदिति ॥ ज्ञानविकल्पानां ज्ञानभेदानां प्रत्यक्षादीनां भावाभावौ, अस्ति प्रकाशिका । न तु तत्तयैव समं संयुक्तविशेषणतेत्यस्यार्थोऽतीतेन विषयेण सह लौकिकसन्निकर्षस्याजनकत्वात् । न च स्मृतिघटिता संयुक्तसमवेतविशेषणतेति तत्परोऽयं ग्रन्थ इति वाच्यम् । संस्कारजन्यत्वं प्रत्यभिज्ञानस्येति मतेनैतद्ग्रन्थावतार इति, अन्यथा स्वसंस्कारजन्यत्वेनेत्यग्रिमग्रन्थानुपथानात् । न च विनिगमकेति । इन्द्रियजन्यतया तत्प्रत्यक्षत्वे संस्कारजन्यतया च स्मृतित्व इत्यर्थः । ज्ञानावच्छेदकतयेत्यादिना समं नापि तद्विषयेत्यादिपौनरुक्त्यनिरासायाह समाधानान्तरं- मकरन्दः। न च विनिगमकेति । इन्द्रियजन्यतया प्रत्यक्षत्वं संस्कारजन्यतया स्मृतित्वं वेत्यत्र विनिगमकाभाव टिप्पणी यकत्वेन निर्विकल्पकस्यैव ज्ञानस्य जायमानस्योत्तरं विशेष्ये विशेषणमिति रीत्या ज्ञानांशे ज्ञानत्वाव-