न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 507, कुल 608 में से
संदर्भ में पढ़ेंचतुर्थस्तबके ] स्मृतेर्मितान्तरत्वखण्डनम् । ३७५ ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् । नापि प्रमाणम् । अकारकत्वात् । अत एव न तदाश्रयः प्रमातेति । उच्यते- मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता ॥ तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ ५ ॥ समीचीनोऽनुभवः प्रमेति व्यवस्थितम् । तथा च अनित्यत्वेन विशेषण- मनर्थकम् । नित्यानुभवसिद्धौ तद्व्यवच्छेदस्यानिष्टत्वादसिद्धौ च व्यवच्छेद्या- भावात् । नचेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात् । न तत्प्रमा- ॥ प्रकाशः ॥ मे प्रत्यक्षं ज्ञानं, नास्ति मे प्रत्यक्षं ज्ञानमित्याकारेणाधुना मनसा संवेद्येते इत्यर्थः । न्यायरुचिं प्रति आशुविनाश्यात्मविशेषगुणत्वेन सुखवत् प्रत्यक्षत्वमनुमेयमिति भावः ॥ नित्यत्वेनेति ॥ नित्यत्वेन फलानात्मकत्वादित्यर्थः । प्रमायाश्च क्रियात्वेन जन्यत्वादिति भावः ॥ नापीति ॥ निर्व्यापारत्वेनाकारक तया तद्विशेषकरणत्वस्याभाव इत्यर्थः ॥ अत एवेति ॥ समवायिकारणस्य प्रमातृत्वादित्यर्थः ॥ अनित्यत्वेनेति ॥ यथार्थानुभवत्वमेव प्रमात्वं नित्या- नित्यसाधारणम् । न च क्रियात्वविरोधः, धात्वर्थमात्रस्यैव नित्यानित्यसाधारणस्य सत्तादेरिव क्रियात्वात् । अनित्यत्वेन तद्विशेषणस्य गौरवेण व्यर्थत्वादित्यर्थः । दूषणान्तरमाह नित्येति ॥ न चेश्वरज्ञानं न प्रमा फलानात्मकत्वाद् गगनवदित्यनुमानमपि सम्भवतीत्याह न चेदमिति ॥ नापि प्रमाणमित्यत्र सिद्धसाधनत्वमेवेत्याह न तत्प्रमाकरणमिति ॥ स्वप्रमां प्रति तस्या- प्रकाशिका । मिति । आशुविनाशीति धर्मादौ व्यभिचारवारणाय विशेषणमिदम् । द्वित्वादौ व्यभिचार- इति विशेषेति । रूपा दौ व्यभिचार इत्यतिमेति । न चोभयत्र साध्यमेव स्वरूपयोग्यताया एव साध्यत्वात् , अन्यथा प्रत्यक्षविषयज्ञानव्यक्तौ व्यभिचारादिति वाच्यम् । मानसप्रत्यक्षविषयगुणत्व- व्याप्यजातिमत्त्वस्य साध्यत्वात् । चतुर्थक्षणवर्त्तिध्वंसप्रतियोगिताव्याप्यजातिमदात्मविशेषगुणत्वञ्च हे- तुरतो नाशुविनाशिसंस्कारव्यक्तौ व्यभिचारः । निर्व्यापारत्वेनेति । प्रमाऽनुकूलव्यापारशून्यतया प्रमां प्रत्यकारकतेत्यर्थः । न च क्रियात्वेति । तथा च न क्रियासम्बन्धनिमित्तकस्य कारण- पदस्य प्रयोग इति न प्रमातृपदप्रयोगः स्यादिति भावः । स्वप्रमामिति । स्वसमानाधिकरण- मकरन्दः । इत्यर्थः । आशुविनाशीति धर्मादौ व्यभिचारवारणार्थमिदम् । अन्त्यशब्दस्याप्रत्यक्षत्वप्रस्ते तत्र व्यभिचारादाह आत्मनीति । आत्ममनोद्वित्वे व्यभिचारादाह विशेषेति । न च निर्विकल्पकजीवन- योनियत्नयोर्व्यभिचारः, मानसप्रत्यक्षजातीयत्वस्य साध्यत्वात् । वस्तुतस्तु तदन्यत्वेन विशेषणान्न व्यभिचार इति । निर्व्यापारत्वेनेति । प्रमाऽनुकूलव्यापारशून्यतया तदाकारक तया इत्यर्थः । यद्यपि कूटलि- ङ्गादिस्थलेऽनुमितिप्रमाकरणत्वं तस्येष्यत एव, तथापि स्वप्रमां प्रति न तथात्वमिति भावः । न च क्रियात्वेति । क्रियासम्बन्धं विना कारकत्वाभावात्तद्विशेषप्रमातृत्वस्यासम्भव इत्यर्थः । स्वप्रमामिति । स्वसमानाधिकरणप्रमामित्यर्थः । टिप्पणी । गाहिज्ञानं जायते ज्ञानत्वविशिष्टवैशिष्ट्यावगाहिज्ञानस्य सम्भवात् पूर्वं ज्ञानत्वप्रकारकज्ञानस्य तत्का-