न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 510, कुल 608 में से
संदर्भ में पढ़ें४७८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यानो साक्षात्कारिणि नित्ययोगिनि परद्वाराऽनपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताववस्तुक्रमः । लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः ॥६॥ इति चतुर्थः स्तवकः ॥४॥ प्रकाशः । स्तवक़ार्थं शिवस्तुतिव्याजेन सङ्कलयति साक्षात्कारिणीति ॥ भूतार्थानुभवे यथार्था- नुभवे ॥ साक्षात्कारिणि-प्रत्यक्षे ॥ निविष्टो विषयीभूतो निखिलः समस्तः प्रस्ताववस्तुनां नानापदार्थानां क्रमो यस्य, स तथा । अनुभवविषयसकलविश्व इत्यर्थः ॥ नित्ययोगिनि सदा सम्बद्धे । अत एव इन्द्रियादीनां द्वाराणामनपेक्षा स्थितिर्र्यस्य । लेशा अल्पा या अदृष्टिर्विशेषादर्शनं, तन्निमित्ता या दृष्टिः रागद्वेषाऽऽत्मिका, तद्विगमेन प्रभ्रष्टः शङ्कातुषो वेदप्रामाण्यशङ्कालेशो यस्मा- दित्यर्थः । यद्वा भूतार्थोऽनुभवो यस्य, तादृशि साक्षात्कारवति शिवे । निविष्टेत्यादि पूर्ववत् । स शिवः प्रमाणं, नाप्रमाणमिति न कण्ठतः परमतनिरासः । प्रमाणं साक्षी शरणमिति ध्वनितम् । दुष्टिमिति क्वचित् पाठः । तत्र भावे क्तः ॥६॥ इति श्रीमन्महामहोपाध्यायश्रीवर्द्धमानविरचिते कुसुमाञ्जलिप्रकाशे चतुर्थः स्तवकः ॥४॥ प्रकाशिका । 'साक्षात्कारवति' शिवे प्रत्यक्षज्ञानवति स्वस्मिन्नित्यर्थः । अत्र च 'नित्ययोगिनीति' मूलस्य सदास्थितज्ञान इत्यर्थः । परेति मूलस्य इन्द्रियाद्यनपेक्षा स्थितिर्ज्ञानं यस्य तस्मिन्नित्यर्थः ॥ ६ ॥ इति महामहोपाध्याय-ठक्कुर-श्री भगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां चतुर्थस्तबकः । मकरन्दः । साक्षात्कारवति शिवे प्रत्यक्षज्ञानवति स्वस्मिन् इत्यर्थः ॥ ६ ॥ इति महामहोपाध्यायदेवदत्तात्मज-श्रीरुचिदत्तोपाध्याय-विरचिते कुसुमाञ्जलिमकरन्दे चतुर्थः स्तवकः । टिप्पणी । नैमिति 'शाब्दयामीत्यादेः परिग्रहः । अन्यत्तु ज्ञानान्तरस्येति । प्रथमत एव तज्जातीयस्य ज्ञानान्त- रस्य विकल्पनादिति अन्वयः । इति श्रीधर्मदत्तोपाध्याय (प्रसिद्धबच्चाझा) कृतकुसुमाञ्जलिचतुर्थस्तबकटिप्पणी समाप्ता ।