भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

४७८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यानो साक्षात्कारिणि नित्ययोगिनि परद्वाराऽनपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताववस्तुक्रमः । लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः ॥६॥ इति चतुर्थः स्तवकः ॥४॥ प्रकाशः । स्तवक़ार्थं शिवस्तुतिव्याजेन सङ्कलयति साक्षात्कारिणीति ॥ भूतार्थानुभवे यथार्था- नुभवे ॥ साक्षात्कारिणि-प्रत्यक्षे ॥ निविष्टो विषयीभूतो निखिलः समस्तः प्रस्ताववस्तुनां नानापदार्थानां क्रमो यस्य, स तथा । अनुभवविषयसकलविश्व इत्यर्थः ॥ नित्ययोगिनि सदा सम्बद्धे । अत एव इन्द्रियादीनां द्वाराणामनपेक्षा स्थितिर्र्यस्य । लेशा अल्पा या अदृष्टिर्विशेषादर्शनं, तन्निमित्ता या दृष्टिः रागद्वेषाऽऽत्मिका, तद्विगमेन प्रभ्रष्टः शङ्कातुषो वेदप्रामाण्यशङ्कालेशो यस्मा- दित्यर्थः । यद्वा भूतार्थोऽनुभवो यस्य, तादृशि साक्षात्कारवति शिवे । निविष्टेत्यादि पूर्ववत् । स शिवः प्रमाणं, नाप्रमाणमिति न कण्ठतः परमतनिरासः । प्रमाणं साक्षी शरणमिति ध्वनितम् । दुष्टिमिति क्वचित् पाठः । तत्र भावे क्तः ॥६॥ इति श्रीमन्महामहोपाध्यायश्रीवर्द्धमानविरचिते कुसुमाञ्जलिप्रकाशे चतुर्थः स्तवकः ॥४॥ प्रकाशिका । 'साक्षात्कारवति' शिवे प्रत्यक्षज्ञानवति स्वस्मिन्नित्यर्थः । अत्र च 'नित्ययोगिनीति' मूलस्य सदास्थितज्ञान इत्यर्थः । परेति मूलस्य इन्द्रियाद्यनपेक्षा स्थितिर्ज्ञानं यस्य तस्मिन्नित्यर्थः ॥ ६ ॥ इति महामहोपाध्याय-ठक्कुर-श्री भगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां चतुर्थस्तबकः । मकरन्दः । साक्षात्कारवति शिवे प्रत्यक्षज्ञानवति स्वस्मिन् इत्यर्थः ॥ ६ ॥ इति महामहोपाध्यायदेवदत्तात्मज-श्रीरुचिदत्तोपाध्याय-विरचिते कुसुमाञ्जलिमकरन्दे चतुर्थः स्तवकः । टिप्पणी । नैमिति 'शाब्दयामीत्यादेः परिग्रहः । अन्यत्तु ज्ञानान्तरस्येति । प्रथमत एव तज्जातीयस्य ज्ञानान्त- रस्य विकल्पनादिति अन्वयः । इति श्रीधर्मदत्तोपाध्याय (प्रसिद्धबच्चाझा) कृतकुसुमाञ्जलिचतुर्थस्तबकटिप्पणी समाप्ता ।

श्रीगणेशाय नमः ॥ न्यायकुसुमाञ्जलौ पञ्चमः स्तबकः । तत्साधकप्रमाणाभावादिति पञ्चमीं विप्रतिपत्तिं निराकर्त्तुमुपन्यस्यति— नन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् तदेव तु न पश्याम इति चेत् । न ह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति । तथाहि— कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ॥ वाक्यात् संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ॥ १ ॥ क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति ॥ १ ॥ प्रकाशः । नन्विति ॥ सर्वमिति ॥ प्रागुक्तान्यथासिद्ध्यादिनिरासरूपमित्यर्थः ॥ स्थाणोरीश्वरस्य, अर्थं च दारुविशेषस्य ॥ अन्धस्तत्र प्रमाणाऽदर्शी, चक्षुर्हीनश्च । कारिकायां संगृहीतं कार्यत्वं हेतुं विवृणोति । क्षित्यादीति ॥ नन्वत्र प्रत्येकं क्षित्यादि न पक्षः, तस्य स्वशब्देनाभिधातुमशक्यत्वात् । नापि मिलितम् , एकरूपाभावात् । न च शरीरीजन्यं जन्यं पक्षः । वेदाद्यव्याप्तेः, अदृष्टद्वारा शरीरिणोऽपि क्षित्या- दिकर्तृत्वात् । नाप्यदृष्टजनककृत्यजन्यं जन्यम् , ईश्वरकृतेरदृष्टजनकत्वेन क्षितौ तदभावात् । नापि प्रकाशिका । कार्येत्यादिमूलं तदर्थश्च कार्यपदम् भावपरं तेन क्षितिः सकर्तृका कार्यत्वादित्यनुमानमुक्तम् । आयूज्यते संयुज्यते ऽनेनेत्यायोजनं = परमाणुकर्म । अत्रापि भावपरतया परमाणुकर्म प्रयत्नजन्यं कर्मत्वादित्यनुमानमुक्तम् । धृतिपदमपि भावपरं, तेन ब्रह्माण्डधृतिः प्रयत्नवत्संयोगसाध्या धृति- त्वादित्यनुमानमुक्तम् । आदिपदेन च संहरणं विवक्षितम् , तथा च ब्रह्माण्डादि प्रयत्नविनाश्यं संहारात् = संहारप्रतियोगित्वादित्यनुमानमुक्तम् । पदं = वृद्धव्यवहारः, पद्यते गम्यतेऽर्थोऽनेनेति व्युत्प- त्तेतदपि भावपरम् , तथा च घटादिव्यवहारो स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वादित्यनुमानमुक्तम् । प्रत्ययशब्देन प्रामाण्यं विवक्षितम्, तथा च प्रमा गुणजन्या प्रामाण्यादिनुमानमुक्तम् । श्रुतेरिति भाव- परं, तथा च वेदाः सर्वज्ञप्रणीताः श्रुतित्वादित्यनुमानमुक्तम् । वाक्यपदमपि भावपरं, तेन वेदाः पौरुषेयो वाक्यत्वाद् भारतवदित्यनुमानमुक्तम् । संख्यापदमपि परमाणुद्वयणुकवृत्तिद्वित्वत्रित्वपरं भावपरमेवं, तेन परमाणुद्वित्वं द्वयणुकत्रित्वं वा अपेक्षाबुद्धिजम् अनेकवृत्तिसंख्यात्वादित्यनुमान- मुक्तमिति । यद्वा कार्यपदं तात्पर्यपरम् , तथा च वेदप्रामाण्यसम्पादकतात्पर्याधारतया परमेश्वरसिद्धिः । आयोजनं = व्याख्यानम् , तथा च वेदव्याख्यातुतया भगवतः सिद्धिः । धृतिरवधारणम् , तथा चार्थोवधारकोऽपि वेदस्य परमेश्वर एव । आदिपदग्राह्यमध्ययनम् , तथा चाध्येतापि वेदस्य प्रथम- मीश्वर एव । पदमीश्वरप्रणवादिपदम् , तद्वाच्यतयापि परमेश्वरसिद्धिः । प्रत्ययपदं लिङ्प्रत्ययपरम्, तथा च लिङभिधेयाप्ताभिप्रायाधिकरणतया परमेश्वरसिद्धिः । श्रुतेर्वेदादेव शब्दविधया परमेश्वर- टिप्पणी । वेदाद्यव्याप्तेरिति । पक्षतावच्छेदकेन तस्यासङ्ग्रहात् । क्षित्यादिकर्तृत्वाच्चेति । ईश्वर-

प्रकाशः। जन्यकृतिसाक्षादजन्यं जन्यम्, घटादेरपि पक्षतापत्तेः। नापि सकर्तृकत्वविवादविषयः, तत्सन्देह- विषयो वा(१) पक्षः, एकरूपाभावे क्षित्यादिसकलविषयविवादसंशययोरभावात्। किञ्च न वादिनोः संशयः, तयोर्निश्चितत्वात्। वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थसंशय इति चेत्। तर्ह्यनुमानाभ्यां तत्संशयो, मध्यस्थसंशयानन्तरञ्च वाद्यनुमानमित्यन्योन्याश्रयः। न च क्षितिरेव पक्षः, अङ्कुरेण सन्दिग्धानैकान्तिकत्वात्। हेतौ साध्याभाववद्गामित्वसंशयस्य दूषकत्वात्। तस्य च साध्याभाववति हेतुसन्देहादिव हेतुमति साध्याभावसन्देहादपि दूषकत्वात्। पक्षे तत्सद्भावेऽप्यनुमानमात्रोच्छेद- कत्वेन तस्यादूषकत्वात्। न चाङ्कुरेऽपि तत एव साध्याँनुमितिः। तस्यापक्षत्वेन स्थापनानुमाना- विषयत्वात्। अनुमानान्तरस्य च क्षित्या सन्दिग्धानैकान्तिकत्वात्। तथा चाऽन्योन्याश्रया- देकस्याप्यनुमानस्याप्रवृत्तिः। एकैकमात्राभिज्ञसिद्धावपि सकलविषयज्ञानवदसिद्धिश्च ॥ साध्यमपि न कृतिमत्सहभावः, तज्जन्यत्वं वा, अस्मदादिना सिद्धसाधनात्। नाप्युपादान- गोचरापरोक्षज्ञानादिमज्जन्यत्वं, यत्किञ्चिदुपादानविवक्षायां घटोपादानगोचरज्ञानादिमताऽस्मदादिना- ऽर्थान्तरात्। न च ज्ञानादीनामपि जनकत्वं विवक्षितम्। न च घटोपादानगोचरज्ञानादेः क्षित्यादि- जनकत्वसम्भव इति वाच्यम्। तथापि क्षितिजनकादृष्टजनकज्ञानादीनामुपादानविषयत्वनियमेनादृष्ट- द्वारा तैरेव सिद्धसाधनात्। न च साक्षात्तज्जन्यत्वं विवक्षितम्। घटादेर्दृष्टान्तस्य साध्यवैकल्या- पत्तेः। न च शरीरक्रिया दृष्टान्तः। घटे व्यभिचारात्, तत्क्रियात्वस्यैवोपाधित्वाच्च। क्षित्युपादान- विवक्षायामप्रसिद्धिः। न चोपादानशब्दस्य सम्बन्धिशब्दतया तत्तत्समभिव्याहारात्तत्तदुपादान- बोधकत्वम्। शाब्द एव बोधे तथा व्युत्पत्तेः। अनुमितौ च येन रूपेण व्यापकत्वं, तेनैव रूपेण तस्य विषयत्वात्। तच्चोपादानत्वमेवेत्युक्तदोषानुपरोहात्। किञ्च घटे चिकीर्षाद्वारा कृतिसाध्येष्ट- साधनताज्ञानमनुमितिरूपं जनकमिति साध्यविकलो दृष्टान्तः, साध्याप्रसिद्धित्वाँ। प्रत्युत घटेऽनुमिति- प्रकाशिका । सिद्धिः। वाक्यपदं संसर्गविशेषप्रतिपादकशब्दपरम्, तादृशशब्दकारणसंसर्गज्ञानाधिकरणतया पर- मेश्वरसिद्धिः। संख्यापदं उत्तमपुरुषाभिधेयसंख्यापरम् कठकलापादिसंज्ञाविशेषपरं वा, तथा च वेदस्योत्तमपुरुषाभिधेयसंख्याधिकरणत्वेन. समाख्यानिबन्धनतत्सजातीयशरीरावच्छिन्नोच्चारणकर्तृ- त्वाश्रयतया वा परमेश्वरसिद्धिरिति । सन्देहविषयत्वं वा पक्ष इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रतिज्ञाविषय- स्यैव पक्षत्वमित्यभिमानेनेदम्। नन्वङ्कुरे सकर्तृकत्वमनुमाय क्षितौ तदनुमेयमत आह अनुमाना- न्तरस्येति। मकरन्द । सन्देहविषयत्वं वा पक्षः इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रति- ज्ञाविषयस्यैव पक्षत्वमित्यभिमानः। ननु प्रथममङ्कुरे तदनुमाय क्षितौ तदनुमेयमित्यत आह अनुमानान्तरस्येति । टिप्पणी । भिन्नशरीरिणमादायार्थान्तरात् सिद्धसाधनाद्वा पक्षासिद्धेरित्यर्थः। पक्षतागतेरिति । अर्थान्तर- तादवस्थ्यञ्च सन्देहविषयत्वम्। वापक्षः पक्षोध्येयः। पक्षतावच्छेदकमिति। यावत् सिद्धसा- धनादिति। अदृष्टद्वाराऽस्मदादेरपि जनकत्वात् विवक्षायामप्रसिद्धिः दृष्टान्तेऽसत्त्वम् तच्चोपादानत्व- मिति । व्यापकतावच्छेदकचेत्यर्थः। उक्तदोषपरिहारात् सिद्धसाधनम् ॥ साध्यप्रसिद्ध्यनुरोधेनापरोक्ष प्रवेशे त्वाह प्रत्युतेति । (१) सन्देहविषयत्वं वा पक्ष इति प्रकाशिकाममितोऽयं पाठोद्रष्टव्यः ।

पंचमस्तबके ] ईश्वरसिद्धिः । ४८१ प्रकाशः। जन्यत्वदर्शनादीश्वरेऽनुमितिः सिद्ध्येत् । यथा च प्रत्यक्षस्येन्द्रियजन्यत्वेऽपि नित्यं तदीश्वरे, तथाऽनुमितेर्लिङ्गजन्यत्वेऽपि नित्यैव सा तत्र स्यात् । द्वेषयोनिकृतिसाध्ये चिकीर्षाविरहाद्व्यभिचारश्च । तद्दृष्टान्तेन क्षित्यादौ द्वेषसाध्यत्वानुमानादीश्वरे द्वेषोऽपि सिद्ध्येत् । द्वेषवत्त्वश्च संसारित्वे भगद- तोऽपि(२) तथा स्यात् । कथं वा उपादानगोचरा चिकीर्षा, असिद्धत्वात् । किञ्च कार्यत्वं न योगोपस्थितकृत्यर्हत्वम् , असिद्धेः । नापि कदाचित्कत्वं, प्रागभावे व्यभि- चारात् । नापि प्रागभावप्रतियोगित्वं, ध्वंसे व्यभिचारात् । न च सत्त्वेन हेतुविशेषणम् । सत्ताजातेः परं प्रत्यसिद्धेः, स्वरूपसत्त्वस्य ध्वंसेऽपि सत्त्वात् । नापि पूर्वकालसम्बन्धित्वत्वे सत्युत्तरकाल- सम्बन्धः, सकलपूर्वकालस्याप्रसिद्धेः, तत्तत्पूर्वकालस्य चाननुगमात् ॥ घटादिरपि दृष्टान्तः साध्यविकलः , अन्वयव्यतिरेकाभ्यां ज्ञानादेव जनकत्या तदाश्रयस्या- जनकत्वात् , धर्मिप्रा‍हकस्यान्वयव्यतिरेकस्य वा तद्ग्राहकस्यानुकूलाभावात् । न च ज्ञानवत्कार्यत्वेनात्म- जन्यत्वमनुमेयम् , आत्मसमवेतत्वस्यैवोपाधित्वात्, अन्यथ। शब्दवदाकाशजन्यत्वानुमानापत्तेः । एतेन-सर्गाद्यकालीनद्व्यणुकं ज्ञानेच्छाकृतिसमानकालीनसामग्रीजन्यं, कार्यत्वात् , अदृष्टसामग्री- प्रकाशिका। रागवत इति । चिकीर्षावत इत्यर्थः । कचित्तु भगवत इति पाठः । तत्र च द्वेषवत्त्वे इष्टा- पत्तौ संसारित्वं मिथ्याज्ञानलक्षणं प्रसज्येत भगवत इत्यर्थः । यद्वा द्वेषवत्त्वे संसारित्वं नोपाधिः, तस्याव्याप्यत्वादित्यर्थः । आत्मसमवेतत्वस्येति । आत्मवृत्तित्वस्येत्यर्थः । तेन न सुखादिध्वंसे साध्याव्यापकत्वम् । नन्वदृष्टद्वारा प्राग्भवीयज्ञानादिसमानकालीनादृष्टसामग्रीजन्यत्वेनार्थान्तरमत आह अदृष्टेति । नचाधिकस्यादृष्टस्यैव कारणतया न तदापत्तिरिति वाच्यम्, तथा सत्यदृष्टसामग्र्यामधिका- नुप्रवेशेन जायमानस्य द्व्यणुकस्यादृष्टविशेषत्वापत्तेः, वृक्षसामग्र्यामधिकानुप्रवेशेन जायमानायाः शिंशपाया वृक्षविशेषत्ववत् लाघवेनादृष्टसामग्रीजन्यत्वस्यैवादृष्टत्वनियामकत्वाच्च , तथा चादृष्ट- मकरन्दः। रागवत इति चिकीर्षावत इत्यर्थः । ननु ज्ञानेच्छाकृतिसमानकालीनसर्गान्तरीयादृष्टजनकसामग्र्याैवादृष्टद्वारा द्व्यणुकजनकतायाऽर्था- न्तरमत आह अदृष्टसामग्रीजन्यत्वे चेति । न चादृष्टमधिकं कारणमिति न तदापत्तिरिति वाच्यम् । तथात्वे क्षित्यादेरदृष्टविशेषत्वापत्तेः, यथा शिंशपावृक्षविशेष इत्याशयात् , लाघवाददृष्ट- सामग्रीजन्यत्वस्यैवादृष्टत्वप्रयोजकत्वाच्च, तथा चादृष्टसामग्री अदृष्टप्रागभावादिघटिता नान्यत्र जनिकेति भावः । टिप्पणी । न योगोपस्थितेति । अन्वयगृहीतेत्यर्थः । अवयवव्युत्पस्थितस्य वा । असिद्धेरिति । पक्ष इति शेषः । कालस्याप्रसिद्धेरिति । असम्बन्धित्वस्येत्यादि । न च ज्ञानवत्कार्य- त्त्वेनेति । ज्ञानवत्कृतिसाधनत्वेन । ननु दृष्टान्तद्वारा प्राग्भवीयज्ञानादिसमानकालीनादृष्टोत्पाद- कंसामग्रीजन्यत्वमादायार्थान्तरमाह अदृष्टेति । अदृष्टद्वारेकेति । वीणादिगोचरकृतिजन्ये शब्दे संग्राद्ये वीणाया अपि स्वकीय रूपाद्युपादानतया तद्गोचरकृतिजन्यत्वात् पक्षतावच्छेदकस्त्वं स्यादिति स्वोपादानेति वाच्यम्, तथा सति पृथिव्याद्युपादानगोचरकृतौ जन्यत्वाभावादप्रसिद्धिरिति स्वोपादान- गोचरकृतिजन्यं यत्तद्भिन्नत्वं विवक्षणीयम्, तत्र चैहिकपुष्टशरीरकामनाकृतप्रयागस्नानजन्यपुष्ट- शरीरस्येश्वरकर्तृकस्य प्रयागस्नानानुकूलशरीरावयवगोचरकृतिजन्यत्वात् तत्संग्रहो न स्यादित्यदृष्टा- ( २ ) रागवत इति प्रकाशिकामिमतोऽत्र पाठो द्रष्टव्यः । ६१ न्या० कु०

४८२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः। जन्यत्वे चादृष्टत्वापत्तिः । द्व्यणुकासमवायिकारणसमानकालीनकृतिजन्यमिति वा साध्य- -मित्यपास्तम् । आद्ये, ज्ञानादिसिद्धावपि द्व्यणुकाजनकत्वादुदासीनसिद्धावप्रयोजकत्वात् । अन्त्ये, गौरवाद् द्व्यणुकासमानकालीनकृतित्वेनाजनकत्वात् । अपि च सामान्यज्ञानादिप्रत्यासत्तिजन्योपादान- ज्ञानादिमत्तार्थान्तरम् । न चानागतगोचर-प्रत्यक्षजनकप्रत्यासत्त्यजन्यं ज्ञानविशेषणम् । तादृशप्रत्या- सत्तेस्तज्जन्यत्वस्य च परं प्रत्यसिद्धेः ॥ अत्रोच्यते—अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यं समवेतं जन्यम्, अदृष्टप्रागभावव्याप्य- प्रागभावाप्रतियोग्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यम् समवेतत्वे सति प्रागभावप्रति- योगित्वात्, यदेवं तदेवं, यथा घटः, तथा चैतत्, तस्मात्तथा । एवञ्च शब्दफूत्कारादीनां पक्षत्वान्न प्रकाशिका । प्रागभावादिघटिता सामग्री नान्यत्र जनिकेति भावः । अदृष्टसामग्र्यार्थान्तरवारणाय प्रकारान्तरेण साध्यमाह द्व्यणुकेति । स्वासमवायिकारणसमानकालीनकृतिजन्यत्वं साध्यम्, अतो नोक्तार्था- न्तरतादवस्थ्यम् । तज्जन्यत्वस्येति । तथा च तदजन्यत्वस्याप्यप्रसिद्धिरिति भावः । पक्ष- समेऽपि सन्दिग्धानैकान्तिकमिति सम्प्रदायमतानुसारेण अनुगतं पक्षतावच्छेदकमाह अदृष्टाद्वार- केति । मृदङ्गादिगोचरकृतिजन्यशब्दादिसंग्रहायोपादानपदम्, तच्च स्वोपादानपरम्, अन्यथा तद- संग्रहात् । स्वोपादानगोचरजन्यकृतिजन्यान्यत्वं पक्षतावच्छेदकमतो न क्षित्याद्युपादानगोचरजन्य- कृत्यप्रसिद्ध्या तदप्रसिद्धिः । ऐहिकशरीरपुष्टिकामनया तीर्थस्नानाव्यभिचारेण पुष्टशरीरं जायते तन्नास्मदादिकर्त्तृकं शरीरान्तरवत् । तथा च प्रयागस्नानानुकूलशरीरावयवगोचरकृत्यादृष्टद्वारा जनिते पुष्टशरीरेऽव्याप्तिवारणायादृष्टाद्वारकेति । साध्ये चोपादानगोचरत्वे न जनकताविवक्षितेति न मृदङ्गगोचरकृत्यादिजन्यत्वमादाय शब्दांशतः सिद्धसाधनम् । स्वविषयसमवेतकार्यं प्रत्येव तथा जनकत्वात्, निरुक्ते पुष्टशरीरेऽशतःसिद्धसाधनवारणायादृष्टप्रागभावेत्यादिविशेषणमित्यन्यत्र मकरन्दः । सम्प्रदायमते उक्तसन्दिग्धानैकान्तिकभियाऽनुगतं पक्षतावच्छेदकमाह अदृष्टाद्वारकेति । तत्रोपादानपदं स्वोपादानपरम् । तथा च स्वोपादानगोचरजन्यकृतिजन्या घटादयः प्रसिद्धाः, तदन्यत्वं पक्षतावच्छेदकम् । एतेन उपादानपदं यदि यत्किञ्चिदुपादानपरं तदा अदृष्टद्वारकरूपा- द्युपादानमृदङ्गादिगोचरास्मदादिकृतिजन्यानां शब्दादीनां पक्षता न स्यात्, क्षित्याद्युपादानपरत्वेऽ- प्रसिद्धिरित्यपास्तम् । नन्वेवमदृष्टाद्वारकेति व्यर्थं अदृष्टद्वारककृतिमादाय प्रकृते दोषास्पर्शनादिति चेत् । अत्राहुः । कालीशरीरे यद् गौरं रूपमुत्पन्नं, तत् कालीशरीरगोचरतपश्चरणादिकृत्या जन्यते सा च कृतिरहष्टद्वारिका तद्रूपोपादानकालीशरीरगोचरा चेति तद्रूपेऽव्याप्तिवारणाय तद्विशेषणमिति । केचित्तु ऐहिकपुष्टशरीरकामनया कामनार्तीर्थस्नानानन्तरं चिराद् यदिहैव पुष्टं शरीरमुत्पद्यते, तन्न शरीरान्तरवदस्मदादिकर्तृकम् । तथा च प्रयागस्नानानुकूल-शरीरावयवगोचरकृत्याऽदृष्ट- द्वारा जनिते पुष्टशरीरेऽव्याप्तिवारणाय तदित्याहुः । साध्येऽप्युपादानगोचरत्वेन जनकता विवक्षिता, तेन मृदङ्गगोचरकृतिजन्यत्वमादायं न शब्दांशे सिद्धसाधनम् । एवञ्च कालीरूपाद्यंशे सिद्धसाधन- वारणाय तत्रादृष्टेत्यादिविशेषणमित्यवधेयम् । शेषं प्रपञ्चितमनुमानप्रकाशेऽनुसन्धेयम् । टिप्पणी । द्वारककृतिजन्यत्वं विवक्षणीयमिति भावः । प्रतियोग्युपादानगोचरेति । वीणादिगोचरकृति- -जन्ये-शब्दे त्वंशतः सिद्धसाधनवारणायोपादानेति । उपादानगोचरत्वेन जनकता विवक्षिता सा च स्वविषयसमवेतप्रत्येवेति शब्दे न तज्जन्यत्वप्रसङ्गः । पुष्टशरीरेऽशतः सिद्धसाधनवारणाया-

पंचमस्तवके ] ईश्वरसिद्धिः । [ ४८३

प्रकाशः । तैः सन्दिग्धानैकान्तिकत्वम् । यदि च कस्यचित् पक्षे नान्तर्भावः, तदा तमादाय निरुक्तस्य पक्षत्वे समूहालम्बनानुमितावविरोधः । जन्यकृत्यजन्यत्वञ्च जन्यकृतिजन्यान्यत्वमित्यन्यत्वेन रूपेण सामान्यलक्षणप्रत्यासत्त्या तावतामुपस्थितिः । जन्यत्वञ्च कृतौ स्वपक्षे विशेषणं, परं प्रत्युपरञ्जक- मात्रं प्रमेयो घट इतिवत् तत्प्रकारकज्ञानोपयोगि । उभयसिद्धसप्रयोजनत्वमात्रं तन्त्रं, न तु प्रयो- जनस्योभयसिद्धत्वम् । क्षितिरेव वा पक्षः । पक्षपक्षसमनैरपेक्ष्येण घटादौ निश्चितव्याप्तिलिङ्गस्य तयोर्दर्शनेनोभयत्रानुमित्यविरोधान्न सन्दिग्धानैकान्तिकम् । अनुमित्योरन्योन्यानपेक्षाज्ञानान्यो- न्यायश्रयः । न चाङ्कुरे पक्षधर्मताज्ञानाभावः, सिषाधयिषाविरहसहकृतसाधकप्रमाणाभाववत, एव पक्षत्वात् । तच्च क्षितौ पञ्चावयववाक्येनाङ्कुरेऽन्यत इति न विशेषः ॥ यदि च क्षितौ लिङ्गनिर्णयदशायां तद्वत्तयाऽङ्कुरस्य न निश्चयः तदा क्व सन्दिग्धानैकान्तिकम् । पक्षसमे साध्याभावसामानाधिकरण्यसन्देहाल्लिङ्गे व्याप्तिग्रह एव नोत्पद्यते इति चेत् । तर्हि धूमेऽपि व्याप्तिग्रहो न स्यात् । सन्दिग्धवह्निपर्वतधूमवतामेकधर्माभावेन अपक्षत्वात् । तस्मादनुमानोच्छेद- प्रसङ्गात् सन्दिग्धसाध्ये लिङ्गनिर्णयो न दोषः । लाघवादेकज्ञानसिद्धावुत्पत्तिमतोऽनादिकार्यप्रवाहाऽ- जनकत्वे नित्यत्वसिद्धौ, कारणं ततो निवर्त्तमानं नियतविषयतामादायैव निवर्त्तते, तस्याः कारणा- धीनत्वात् । अनित्यसर्वविषयकज्ञानाजन्यत्वेन पक्षविशेषणाद्वा ज्ञानस्य सर्वविषयकत्वसिद्धिः ॥ साध्ये च ज्ञानादीनां विशेषणतया विशिष्टस्य साधनत्वेन विवक्षितत्वान्न तदुपलक्षितक्षेत्रज्ञेनार्था- न्तरम् । अदृष्टप्रागभावेति विशेषणाच्चादृष्टद्वारा नास्मदादिभिः सिद्धसाधनम् । नापि साध्याप्रसिद्धिः।

प्रकाशिका । विस्तारः । निश्चितसाध्याभाववद्धर्मित्वज्ञानमेव प्रतिबन्धकमिति मनसि कृत्याह यदि चेति । पक्षसमे व्यभिचारसन्देहस्यादोषत्वे किमिति गुरु पक्षतावच्छेदकमुपादेयमित्याशयेनाह क्षितिरेवेति । अनुमित्योरिति । एतच्च समाधिसौकर्येण । वस्तुतः समूहालम्बन रूपैकैवानुमितिरिति ध्येयम् । पक्षविशेषणादिति । यद्यपि तादृशज्ञानजन्यत्ववाधावतारं विनापि पक्षविशेषणमभिमतसिद्धिः वाधा- नवतारे तु पक्षविशेपणासिद्धावाश्रयासिद्धिः, तथापि वाधावतारदशायामेवोपक्षकानुमित्याभिमत- सिद्धिरित्येतावन्मात्रतात्पर्य्यम् । ननूपादानप्रत्यक्षं न प्रवृत्तिकरणम् तद्विनापि शोकार्थिनःप्रवृत्ते-

मकरन्द । पक्षसमे सन्दिग्धानैकान्तिकं न दोष इत्यनुपदवक्ष्यमाणांशमभ्युपगमवादेनाह यदि चेति । तमादाय समूहालम्बनानुमितार्वित्यर्थः । अनुमित्योरिति एतच्च पराम्युपगमरीत्योक्तं, पक्षभेदमाश्रित्य भेदारोपाद्वा । वस्तुत एकैव समूहालम्बनाऽनुमितिरिति ध्येयम् । ननूपादानप्रत्यक्षं विनाऽपि शब्दार्थप्रवृत्तेर्व्यभिचार इत्यत आह प्रवृत्तितिविषयेति । न ह्युपादानप्रत्यक्षत्वेन हेतुत्वं ब्रूमः, किन्तु प्रवृत्तिविधेयप्रत्यक्षत्वेनेति न व्यभिचार इत्यर्थः । यः स्पन्द इत्याद्यनुमानप्रकाशे द्रष्टव्यम् । असमवायीति असमवायिपदं प्रकृताभिप्रायेण स्वरूपनिर्वचनम् । यद्यप्यङ्गुलीतरुसंयोगा- समवायिकारणे शरीरतरुसंयोगेऽङ्गुली न कारणमिति व्यभिचारः, तथापि क्रियायामेवेत्याशय इत्यन्ये । तत्राप्यङ्गुली कारणमित्येके । सन्दिग्धव्यतिरेकित्वमप्रयोजकत्वम् ।

टिप्पणी । दृष्टप्रागभावेत्याद्यप्रतियोगित्वान्तं बोध्यम् । अदृष्टप्रागभावव्याप्येति । प्रागभावविशेषणं तेन साध्यवैकल्यम् । पक्षधर्म्मताज्ञानाभाव इति । अनुमित्युद्देश्यतया निर्दिश्यमानत्वमेव पक्षत्वम् ।

९८४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां ॥ प्रकाशः ॥ सिद्धस्त्वत्यसिद्धविषया हि कृतिः सिद्धविषयप्रत्यक्षे सति भवति, न हि मृद्वयवानां संस्थानविशेषे कृतिसाध्येष्टसाधनत्वानुमितावपि अवयवानां प्रत्यक्षेणोपस्थितिं विना प्रवृत्तिः। न चोपादानप्रत्यक्षं प्रवर्त्तकज्ञानोपक्षीणम्, अप्रत्यक्षे परमाणौ तत्क्रियायामिष्टसाधनताज्ञानेऽप्यप्रवृत्तेः। प्रवृत्तिविषय- मृदङ्गादेः प्रत्यक्षत्वाद् न शब्दादिना व्यभिचारः। न चेश्वरेऽनुमित्यापत्तिः, स्वसुखादिसाधन- तानुमितेर्हेतुताया गृहीताया ईश्वरे धर्म्मिणभावेन बाधाद्, अनुमितिमात्रस्य च हेतुत्वाग्रहात्। उपादानस्य सिद्धत्वेऽप्युपादेयवत्त्वेन चिकीर्षाविषयत्वात्। न च द्वेषसिद्धिः, तस्य कृतिद्वारा कार्य्यहेतुत्वात्। प्रयोजनं विना द्वेषमात्राच्छत्रुनाशनानुकूलकृतेरनुत्पत्तेः। किन्तु दुःखसाधनध्वंसं तत्साध्यदुःखानुत्पादं वा फलमुद्दिश्य तत्साधनताज्ञानात् कृतिः। तथाचेष्टसाधनताज्ञानात्तत्रेच्छाऽ- स्त्येवेति सैव कृतिकारणम्, क्लृप्तत्वात्। द्वेषस्तु परम्परया तदुपक्षीणः। शत्रुं द्वेष्मीत्यनुवाधित- मानसप्रत्यक्षाच्च तत्सिद्धिः॥ नापि साध्यविकलो दृष्टान्तः, प्रयत्नवदात्मसंयोगस्य चेष्टाद्वारा घटहेतुतया प्रयत्नस्येवात्मनोऽपि हेतुत्वात्। न चात्मसंयोगे सत्यपि प्रयत्नं विना न चेष्टेति प्रयत्न एव तत्कारणं संयोगपरिचायक- मात्रमात्मेति वाच्यम्। संयोगमात्रस्याकारणत्वेन संयोगिविशेषितस्य तस्य हेतुत्वात्। नात्मसंयोगः क्रियाहेतुः, संयोगाभावेन तदभावादर्शनादिति चेत्। न। यः स्पन्दो व्यधिकरणगुणजन्यः स तत्संयोगाऽसमवायिकारणकः, यथा स्पर्शवद्वेगवत्संयोगजा क्रियेति तत्सिद्धेः। असमवायिकारण- संयोगाश्रयस्य तत्कार्य्यजनकत्वनियमाच्च। केचित्तु अनुकूलकृतिसमवायित्वमेव कर्तृत्वं, न तु जनकत्वविशेषितं, गौरवात्, तथाच ज्ञानेच्छा- कृतिजन्यत्वस्यैव साध्यत्वात् तदाश्रयत्वमेवेश्वरस्य कर्तृत्वमित्याहुः। सामान्यादिगोचरप्रत्यासत्त्या कपालगोचरप्रत्यक्षेऽपि घटादावकर्तृत्वात् कर्तृत्वेन ज्ञानं सिध्यत्तद्विलक्षणमेव सिध्यतीति संक्षेपः॥१॥ यद्यपि बाधस्तृतीयस्तवक एव निरस्तः, तथापि प्राधान्येन तत्र योग्यानुपलब्धिबाधो निरस्त इह त्वनुमानबाधो निरस्यः। तत्र व्यापकानुपलब्धिविरोधेन बाधो विवक्षितः, प्रतिरोधो वा? आद्ये, न बाधोऽस्य कार्य्यत्वस्य धर्मिसिद्ध्यर्थमन्वेहेतुभिः कर्तृत्वादिभिरुपजीव्यत्वात्। अन्त्ये, प्रतिबन्धः प्रतिरोधो न। हीनोत्तमबलयोस्तदभावादित्यर्थः। ननु परव्याप्तिस्तम्मनार्थं विपरीतेन्यथाप्युपदर्शनेन प्रकाशिका। रित्यत आह प्रवृत्तिविषयेति। नोपादानप्रत्यक्षं प्रवृत्तिकारणं ब्रूमः, किन्तु प्रवृत्तिविषयप्रत्यक्षमतोन व्यभिचार इत्यर्थः। स्वसुखादेरिति। यद्यपि स्वसुखसाधनतानुमित्यादिना हेतुत्वेऽननुगमात् इष्टसाधनतानुमितित्वेन हेतुत्वं वाच्यम्, दृष्टवान्स्मदादिसुखादिकमेवेश्वरस्येति न तादृशानुमितौ बाधः, तथापीष्टसाधनताज्ञानत्वेनैव हेतुत्वं लाघवादित्युपादनप्रत्यक्षानुरोधेनैक्रमेव ज्ञानं प्रत्यक्षत्मकं सिद्ध्यति लाघवादित्यत्र तात्पर्य्यम्। सैवेति। समानविषयत्वादित्यपि द्रष्टव्यम्। संयोगमात्रस्यैवे- त्यादिहेतौ हेत्वन्तरं समुच्चिनोति असमवायीति। असमवायीति प्रकृताभिप्रायेण स्वरूपनिर्व- चनपरम्। नचाङ्गुलितरुसंयोगजशरीरतरुसंयोगे नाङ्गुलिकारणमिति व्यभिचार इति वाच्यम्। तत्रा- प्यङ्गुल्याः कारणत्वात्, क्रियारूपकार्य्येऽयं नियम इत्याशयाद्वा। सन्दिग्धव्यतिरेकित्वमप्रयोजकत्वम्॥ क्रमेण हेतूनाह विपक्षेति। टिप्पणी यदा च क्षितिः सकर्तृकेत्यादि न्यायस्तदाङ्कुरस्य पक्षत्वमेव नास्तीति क्क तत्र पक्षधर्म्मताज्ञान- मिति भावः। कर्त्तृत्वादिभिरुपजीव्यत्वादिति। शरीरित्वसाधकः क्षितिरकर्तृका शरीरिजन्य- त्वादित्यनुमानोत्थापकैरित्यादिः। तत्र प्रतियोगिविशेषणतायामित्यादि। तत्रर्थस्य यत् प्रतियोगिजन्यत्वं शरीरस्य तद्विशेषणतायामित्यर्थः।

पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४८५ न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः ॥ सिद्ध्यसिद्ध्योर्विरोधो नो नासिद्धिर्निबन्धना ॥ २ ॥ तथाहि—अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति, कस्तेषामाशयः ? । किमीश्वरं पक्षयित्वा कर्तृत्वान्छरीरित्वं, ततः शरीरव्यावृत्तेरकत्तृत्वम् । अथ क्षित्यादिक- मेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृ कत्वम् । यद्वा शरीराऽजन्यत्वादकार्यत्वम्, परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति । तत्र प्रथमद्वितीययोराश्र- यासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधाः। तृतीये तु व्याप्तौ सत्यां चेदमनिष्टम्, असत्यान्तु न प्रसङ्गः । चतुर्थे बाधानैकान्तिकौ । पञ्चमे त्वसमर्थविशेषणत्वम् । षष्ठेऽपि नागृह्यमाणविशेषया व्याप्त्या बाधः । न चागृह्यमाणविशेषव्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् । अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः। कर्त्ता शरीरी, विपरीतो न कर्त्तेति चानयोस्तद्विरहः ॥

प्रकाशः । तद्विरोधमात्रं स्यात् , यद्वा व्याप्तिपक्षधर्मतोपस्थाप्यविशेषयोर्विरोधेन विशेषविरोधः स्यादित्यत आह सिद्ध्यसिद्धयोरिति ॥ आद्ये कार्यत्वस्य पक्षधर्मत्वसिद्धौ कर्तृत्वादेश्च तदसिद्धौ सत्यां तुल्यबलत्वाभावेन विरोधाभावादित्यर्थः । अन्त्ये अभिमतविशेषसिद्धयसिद्धयोः सहोपलम्भविरोधि- विशेषानुपलम्भाभ्यां विरोधस्य प्रत्येतुमशक्यत्वादित्यर्थः । सन्दिग्धव्यतिरेकित्वाप्रतीतव्याप्ति- कत्वोपाधिभिरसिद्धिरपि नेत्याह नासिद्धिरिति ॥ विपक्षबाधकोपदर्शनन्यासिद्धानापायोपाधि- विरहप्रतिपादनेरसिद्धि निबन्धनस्याभावादित्यर्थः ॥ कारिकार्थं सङ्कलयितुं पराभिप्रायं विकल्पयति तथाहीति ॥ सत्तयानुपलब्धेः प्रागेव निरासाज्ज्ञातायास्तथात्वं वाच्यम् , तत्र पक्षांदिविभागं पृच्छति किमीश्वरमिति ॥ कर्तृत्वा- दिति ॥ तथा चाशरीरस्य कार्यनिर्माणशक्त्यभावतापत्तिरिति भावः ॥ तत एव-शरीराजन्यत्वादि- त्यर्थः ॥ परव्याप्तिः-कार्यत्वसकर्तृकत्वव्याप्तिः ॥ तत्रेति ॥ ईश्वरस्य धर्मिणः प्रमाणेन ज्ञानाज्ञानयो- र्धर्मिपाहकमानबाधाश्रयासिद्धी । ईश्वरद्वेषिणः परस्य कर्तृत्वात् तच्छरीरित्वस्वीकारेऽपसिद्धान्तः। ईश्वरः शरीरकर्त्ता वेत्यत्र माता वन्ध्येतिवत् प्रतिज्ञापदयोर्व्याघातः । ईश्वरपदस्याशरीरकर्तृवाचक- त्वादित्यर्थः । कार्यत्वशरीरिकर्तृत्वयोर्व्याप्तिवलात् क्षित्यादौ शरीरिकर्तृसाधनेऽपि नाऽशरीरिकर्तृ- निरास इत्याह तृतीय इति ॥ क्षित्यादौ शरीरिणः कर्तुर्याग्याऽनुपलम्भेन बाध इति भावः । वस्तुतः शरीरकर्त्रभावेऽप्यङ्कुरादौ कार्यत्वाव्यभिचारेण न व्याप्तिरित्याहं असत्यान्विति ॥ क्षित्यादेः सर्वस्य पक्षत्वे बाधः, कस्यचिदपक्षत्वे तत्रानैकान्तः, प्रमितसाध्याऽभाववद्धर्मिकस्यैव बाधत्वादित्याह चतुर्थ इति । जन्यत्वमात्रस्यैव गमकत्वे शरीरं व्यर्थं व्याप्यतानवच्छेदकत्व- रूपम् । शरीरजन्यत्वाभावादिति नञः प्रतियोगिविशेषणतायामखण्डस्यैव हेतुतायामजन्यत्वमेवोपा- धिरिति न साधनं साध्यव्याप्यमित्याह पञ्चमे त्विति । स्तम्भनं बाधः प्रतिरोधो वा न सम्भ- वतीति क्रमेणाह षष्ठेऽपीति । विशेषः पक्षधर्मता । अस्ति चेति, चो हेतौ । यस्मादस्मद्व्याप्तौ पक्षधर्मतास्ति, त्वदीयव्याप्तौ च सा नास्ति धर्म्यज्ञानात् । ज्ञाने वा धर्मिपाहकमानबाधः । केवल- व्याप्तेश्चासाधकत्वमित्यर्थः । ननु क्षित्यादिकं न बुद्धिमद्धेतुकं शरीराजन्यत्वादित्यत्र यद् बुद्धिमद्धेतुकं तच्छरीरजन्यमिति व्यतिरेकव्याप्तौ पक्षधर्मतालाभः स्यादित्यत आह—

४८६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां ननु यद् बुद्धिमद्धेतुकं तच्छरीरहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद्बुद्धिमद्धेतुकमपि न भवति इति विपर्ययनियमोऽपि स्यात् , तथाच पक्षधर्म- ताऽपि लभ्यते इति चेत्। न गगनादेः सपक्षभागस्यापि सम्भवात् केवलव्यतिरे- कित्वानुपपत्तेः। अन्वये तु विशेषणासामर्थ्यात्। हेतुव्यावृत्तिमात्रमेव हि तत्र कर्त्तृव्यावृत्तिव्याप्तं, न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम्। व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्योऽतिप्रसङ्गात् ॥ एतेन तद्व्यापकरहितत्वादिति सामान्योपसंहारस्याऽसिद्धत्वं वेदितव्यम्। न हि यद्व्यावृत्तिर्यदभावेऽन्वयव्यतिरेकाभ्यामुपसंहर्त्तुमशक्या, तत् तस्य व्यापकं प्रकाशः। नन्विति । इदं केवलव्यतिरेकितया साधनम् अन्वयव्याप्तिसत्त्वेऽपि व्यतिरेकिण्याप्तिवलेन, अन्वयव्यतिरेकितया वा ? । तत्र नाय इत्याह गगनादेरिति । असत्सपक्षस्यैव केवलव्यतिरे- कित्वादित्यर्थः। शरीररूपविशेषणवैयर्थ्येनान्वयव्याप्त्यभावाद्यतिरेकेऽपि तदभावान्वय इत्याह अन्वये त्विति । व्याप्यत्वासिद्धिं परिहरतश्च स्वरूपासिद्धिप्रसङ्ग इति भावः । केवलायाश्च पक्षध- र्मताया असाधकत्वाद्याप्यभावे साऽप्यनुपयोगिनीत्याह व्याप्तश्चेति । ननु ज्ञानमनित्यमेवेत्यादिप्राथमिकव्याप्तिप्रत्यक्षविरोधाद् नाऽशरीरनित्यज्ञानादिकर्तृसिद्धिः, अतएव शरीरमनित्यमेवेति नियमान्न कर्तृत्वेन नित्यातीन्द्रियतत्सिद्धिरीश्वरे । न चाप्रयोजकत्वम् । निरुपाधित्वात् । कार्यत्वसकर्तृकत्वयोरपि यदि निरुपाधित्वमस्ति, तदा तुल्यबलत्वेन ज्ञातात् सत्प्र- तिपक्षवत् प्रतिबन्धोऽस्तु । मैवम् । पक्षधर्मताबलाद् नित्यज्ञानादिसिद्धौ ज्ञानमनित्यमेवेत्यादिन्या- प्तिग्रहस्याऽप्रतिबन्धकत्वात् । अस्मदादिज्ञानमात्रविषयत्वेन तत्प्राथमिकव्याप्तिप्रत्यक्षस्य तस्य भिन्न- विषयत्वात् । एकविषयकविरोधिज्ञानस्यैव प्रतिबन्धकत्वात् । नित्यत्वानित्यत्वयोरेकजातीये द्रव्येऽ- विरोधात् । न च ज्ञानत्वं नित्यावृत्त्येवेति ज्ञातमतस्तन्न नित्यवृत्तित्वज्ञानमिति वाच्यम् । उभय- सिद्धनित्यावृत्तित्वज्ञानेऽप्यतिरिक्त नित्यवृत्तित्वज्ञातावविरोधात् । अत एव कर्त्ता शरीर्येवेत्याद्यपि ज्ञानं प्रतिबन्धकमपास्तम् । ननु क्षित्याद्यकर्तृकं कर्तृव्यापकरहितत्वादित्यत्र नोक्तदोष इत्यऽत आह एतेनेति । दृष्टान्ते विशेषणासामर्थ्यप्रदर्शनेन सामान्यतः कर्तृव्यापकरहितत्वमसिद्धम् । शरीरजन्यत्वादेश्च रहितत्व- मसमर्थविशेषणतयेत्यर्थः। तदेव स्पष्टयति न हीति । यद्व्यावृत्तिः, शरीरव्यावृत्तिः । यद्- भावे कर्त्रभावे । तच्छरीरं तस्य कर्तुर्व्यापकमित्यर्थः। स एवं तस्य व्यापको यस्याभावे साध्ये दृष्टान्ते अन्वयव्यतिरेकाभ्यां पक्षे उपसंहर्तुं शक्यते, यथा वहेरभावो धूमाभावे । प्रकृते चान्व- यिनि दृष्टान्ते विशेषणासामर्थ्यं तदप्रयोजकत्वस्योक्तत्वाद्यतिरेकोऽप्यप्रयोजक इति भावः । ननु किं विशेषणस्यासामर्थ्यं ? न तावन्निष्प्रयोजनकत्वं, व्याप्तिग्रहोपयुक्तविशेषणस्येव पक्षध- प्रकाशिका। ननु कर्तृव्यापकरहितत्वादित्येवं प्रयोगे व्यर्थविशेषणतेत्यत आह सामान्यत इति । असिद्धमप्रसिद्धं तादृशप्रमेयत्वस्य सत्त्वात् । न च यत्किञ्चित्कर्तृव्यापकरहितत्वं हेतुः तथा सति स्वरूपासिद्धिरित्यर्थः । असमर्थविशेषणतयेति असिद्धमित्यनुषज्यते, तदर्थश्च व्याप्यत्वा- सिद्धत्वम् । विशिष्टे व्याप्तिरित्थस्य विशेषणविशेष्ययोरेकैव व्याप्तिर्व्यासज्यवृत्तिरिति वार्थः । मकरन्दः। ननु कर्तृव्यापकरहितत्वादित्यत्र कुतो विशेषणासामर्थ्यमित्यत आह सामान्यत इति । अस- मर्थविशेषणतयेति असिद्धमित्यनुषज्यते । शरीरजन्यत्वाश्रयमात्रप्रतियोगिकयावदन्योन्याभाव- हेतुत्वे वैयर्थ्येऽपि शरीरजन्यत्वात्यन्ताभावेऽखण्डे न वैयर्थ्यं, शरीरं विना तस्याज्ञानेन तत्र व्याप्ति-

पञ्चमस्तबके ] ईश्वराबाधकखण्डनम् । ४८७ प्रकाशः। मर्तौपयिकस्यापि तस्य सप्रयोजनकत्वात् । व्यभिचारवारकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यै- व तन्त्रत्वात् । नापि व्यभिचारवारकविशेषणवत्येव व्याप्तिरिति तच्छून्यत्वं, निर्विशेषणेऽपि गोत्वादौ व्याप्तेः । तत्र व्यक्तेरेव विशेषणत्वेऽन्योन्याश्रयात् । नाऽपि व्यभिचारवारकं विशेषणं विशिष्टे व्याप्तिग्राहकं, सहचारदर्शनादिसत्त्वे तदभावे व्याप्तिग्रहाविलम्बात् । न च व्यभिचारावारकविशेषण- शून्य एव व्याप्तिग्रहः । प्रमेयत्वेन ज्ञायमाने धूमे व्याप्तिग्रहात्तत्रोपात्तव्यभिचारावारकविशेषणशून्य- त्वस्य च विवक्षितत्वे विरोधः । तत्रोपात्तं तेन शून्यञ्चेत्यस्यासम्भवात् । अथ शरीरजन्यत्वाभावे न व्याप्तिः, एकवृत्तित्त्वबाधे सत्येव व्यासज्जद्वृत्तित्वात् , विशेष्यतावच्छेदकस्य व्याप्यतानवच्छेदकत्वे सत्येव विशेषणस्य तदवच्छेदकत्वाच्च, किन्तु जन्य- त्वाभावे व्याप्तिः तत्र स्वरूपासिद्धिः, तन्निरासार्थं विशेषणाभिधाने व्याप्यत्वासिद्धिः । न, अन्य- भिचारानौपाधिकत्वयोर्विशिष्टे सत्त्वेन तदभावसाधने बाधात् । किञ्चैवं निर्धूमोऽयम् आर्देन्धनप्रभ- ववह्रिरहितत्वादित्याद्यप्यनुमानं न स्यात् । यद्वा शरीरजन्यत्वाभावोऽखण्ड एवं हेतुरस्तु, तत्र व्यर्थविशेषणत्वाभावात् । अत्राहः। शरीराजन्यत्वस्य व्याप्यत्वेऽपि शरीरं न व्याप्यतावच्छेदकं, गौरवात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते, तस्यैव व्याप्यतावच्छेदकत्वनियमात् । अत एव गन्धस्यैव व्यञ्जकत्वादित्यत्राप्रसिद्धत्वेन गन्धादिषु मध्ये इति विशेषणं विना व्याप्तिर्गृहीतुं न शक्यते इत्यसि- द्विवारकमपि विशेषणं सार्थकम् । व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वात् । धूमे च वह्निविशे- षस्य कारणत्वात् कारणाभावस्य च कार्याभावव्याप्यत्वान्न तत्रोक्तदोषः । शरीरजन्यत्वाभावोऽप्यखण्डो न हेतुः । यदि शरीरजन्यत्वप्रयुक्तं सकर्तृत्वं स्यात् , तदा तदभावप्रयुक्तः सकर्तृत्वाभाव इति तस्य साध्यव्याप्यता स्यात् । न चैवम् , किन्तु जन्यत्वप्रयुक्तं, प्रकाशिका । विशेषणं व्याप्यतावच्छेदकं विशेष्यञ्च व्याप्तिराश्रय इति वा । आद्ये एकवृत्तित्वेति । अन्त्ये विशेष्ये- तेति । ननु शरीरजन्यत्वाश्रयप्रतियोगिकयावदन्योन्याभावरूपे हेतौ वैय्यर्थ्येऽपि शरीरजन्यत्वाभावे- ऽखण्डहेतौ न व्यर्थता शरीरं विना तस्याज्ञानेन शरीररूपविशेषणस्य व्याप्तिग्रहोपयिकत्वादित्याशये- नाह यद्वेति । येन विशेषणेनेति । यद्यपि नीलधूमत्वादौ व्याप्तिरस्त्येव, तथापि नीलधूमत्वा- वच्छिन्ने व्याप्तिविरहोऽस्त्येव, गौरवेण नीलधूमत्वस्य व्याप्त्यनवच्छेदकत्वात् । न च नीलधूमत्वावच्छिन्ने व्याप्तेरप्रसिद्धिः, वह्निविशेषं प्रति नीलधूमत्वस्यैव व्याप्यतावच्छेदकत्वात् । न च वह्निविशेषप्रतियो- गिकनीलधूमत्वावच्छिन्नव्याप्तेस्सत्त्वात्तद्विरहोऽसिद्ध इति वाच्यम् । नीलधूमत्वावच्छिन्नव्याप्तिप्रतियो- गित्वाभावस्य वह्नित्वावच्छिन्नेऽसिद्धिरूपत्वात् । केचित्तु गौरवेण नीलधूमत्वस्यावच्छेदकत्वाग्रहात् तदवच्छिन्नव्याप्त्यज्ञानरूपैवासिद्धिरित्याहुः । यन्निष्ठेति । यद्विशेष्यतावच्छेदकाश्रयनिष्ठेत्यर्थः । अभावनिष्ठेति । अभावत्वविशेष्यतावच्छेदकाश्रयनिष्ठव्याप्तावित्यर्थः । न शरीरजन्यत्वमिति । अभावत्वाश्रये जन्यत्वाभावे शरीरं विनैवाकर्त्तृत्वनिरूपितव्याप्तिग्रहान्न विशिष्टे व्याप्तिरित्यर्थः । नन्वेवं जन्यत्वमपि न व्याप्यतावच्छेदकं सकारणकत्वाभावेऽभावत्वाश्रये तेन विनैवाकर्त्तृकत्वव्या- मकरन्दः। रग्रहादित्याह यद्वेति । येन विशेषणेन विनेति । यद्यप्येवमपि नीलधूमादौ व्यभिचाराभाव- विशिष्टसहचारादिरूपव्याप्तेः सत्त्वात् कथं व्याप्यत्वासिद्धिः, तथाप्यनुमानप्रकाशोक्तमनुसन्धेयम् । यन्निष्ठेति । यद्विशेष्यतावच्छेदकविशिष्टनिष्ठेत्यर्थः । अभावनिष्ठव्याप्तौ = अभावत्वरूपविशेष्य-

नामेति। विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथोधर्मपरि- हारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति ॥

प्रकाशः। लाघवात् , तथा चाजन्यत्वमेवोपाधिः। न च सत्प्रतिपक्षोच्छेदात् पूर्वसाधनव्यतिरेको नोपाधिः, आभाससंस्थापनायां पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वेन तत्र सत्प्रतिपक्षावकाशात् ॥ यद्वा यन्निरूपिता यन्निष्ठा व्याप्तिर्येन विशेषणेन विना न गृह्यते, तत्र विशिष्टं व्याप्यताव- च्छेदकम्। अकर्तृकत्वनिरूपिताभावनिष्ठव्याप्तौ च शरीरं विनैव प्रतियोगिता जन्यत्वमवच्छे- दकं क्लृप्तमिति न शरीरजन्यत्वमवच्छेदकम्। अतो गौरवेण शरीरजन्यत्वमप्रतियोगितया च जन्यत्वं नावच्छेदकमिति व्याप्यतावच्छेदकाभावान्न शरीरजन्यत्वाभावोऽकर्तृकत्वव्याप्यः, अन्यथाऽ- दृष्टाजन्यत्वस्यापि क्षित्यादावनुमित्यापत्तेः। अस्मत्पितृचरणास्तु—प्रतिपक्षानुमानस्य प्रसिद्धकर्तृजन्यत्वाभावविषयत्वात् , अप्रतीतप्र- तियोगिकाभावस्य निरूपयितुमशक्यत्वात्। स्थापनानुमानस्य च पक्षधर्मताबलात् प्रसिद्धकर्तृसाधक- त्वाद् भिन्नविषयतया न प्रतिबध्यप्रतिबन्धकभावः। न च कर्तृजन्यत्वस्योपाधेः स्थापनाविषयतया तदभावः साध्यः, तस्याप्यप्रसिद्धकर्तृव्यक्तिमादाय पर्यवसानात्। न चैवं सत्प्रतिपक्षोच्छेदः। तस्य गोत्वाद्येकभावाभावसाधकविषयत्वादित्याहुः। अर्थान्तरेण सिद्धयसिद्धयोरिति व्याचष्टे विशेषेति। व्याप्तिपक्षधर्मताभ्यामानीयमान- शरीरत्वाशरीरित्वसिद्धौ रूपरसवत् कर्त्तरि सहोपलम्भेन, तदसिद्धौ कर्तरि तदुभयासिद्धौ

प्रकाशिका। विग्रहादित्यानुशयेनाह अस्मत्पितृचरणा इति। सामान्यलक्षणानङ्गीकारेण, तन्मते विभिन्न- विषयत्वमिति केचित्। वस्तुतो नित्यज्ञानादिमतः कर्तुरप्रामाणिकतया न सामान्यलक्षणयापि मन्मते उपस्थितिः, अन्यथा शशशृङ्गादेरपि शृङ्गत्वेनोपस्थित्यापत्तिरिति परं प्रति विरोधोद्भावनं द्रष्टव्यम्। इदञ्चापाततः, वस्तुतः स्थापनानुमानेऽस्य तर्कसहायत्वात् प्रत्यनुमानस्य चातथात्वाद् व्यर्थविशेषणत्वाच्च न तुल्यबलवत्तेति न सत्प्रतिपक्ष इति तात्पर्यम्। तस्य गोत्वेति। गोत्वा- द्येकभावाभावविषयत्वेन त्वया वाच्यत्वादित्यर्थः। रूपरसवदिति। यद्यपि शरीरित्वाशरीरि-

मकरन्दः। तावच्छेदकविशिष्टनिष्ठव्याप्तावित्यर्थः। न शरीरेति। अभावत्वावच्छिन्ने जन्यत्वाभावे शरीरं विनैवाकर्तृकत्वनिरूपितव्याप्तिग्रहान्न तद्विशिष्टे व्याप्तिरित्यर्थः। नन्वेवं जन्यत्वाभावोऽपि तद्व्याप्यो न स्यात् सकारणकत्वाभावादौ जन्यत्वविशेषणं विनाऽपि अभावत्वावच्छिन्ननिष्ठव्याप्तेर्ग्रहादित्यनुशयादाह अस्मत्पितृचरणास्त्विति। सामान्यलक्षणाऽ- नङ्गीकारेण तन्मते भिन्नविषयत्वं बोध्यम्। वस्तुतस्तु स्थापनानुमानस्य तर्कसचिवत्वादस्य च तदभावाद् व्यर्थविशेषणत्वादिदोषाच्च न्यूनबलत्वमिति न सत्प्रतिपक्ष इति भावः। तस्येति। गोत्वाद्येकभावाभावसाधकत्वविषयत्वेन त्वया समाधेयत्वादित्यर्थः। रूपरसवत् कर्त्तरीति। यद्यपि शरीरित्वाशरीरित्वयोस्तथा न सहोपलम्भः, तथापि कर्तृजातीये तथोपलम्भ

टिप्पणी। शरीरित्वाशरीरित्वसिद्धाविति। अथ घटादिकर्त्र्यैव शरीरित्वं प्रमाणेन प्रत्यक्षेण सिद्धं तत्र न व्याप्ताद्युपयोग इति न व्याप्त्याद्यानीयमानत्वमिति चेन्न। आनीयमाने क्षितिः सकर्तृका कार्यत्वा- दित्यनुमानोपस्थिते क्षित्यादिकर्त्तरि शरीरित्वाशरीरित्वयोः सिद्धावित्यत्र तात्पर्यात्।

पंचमस्तबके ] ईश्‍वरबाधकखण्डनम् । ४८६ स्यादेतत् । अस्ति तावत् कार्यस्यावान्तरविशेषो यतः शरीरिकर्तृकत्वमनु- मीयते, तथाच तत्प्रयुक्तामेव व्याप्तिमुपजीवेत् कार्यत्वसामान्यमिति स्यात् । प्रकाशः । यो मिथो धर्मिपरिहारोऽन्योन्यधर्मिप्रतिक्षेपः, तस्यानुपलम्भेन निरस्तो विशेषविरोधो न शङ्काम- प्यधिरोहतीत्यर्थः । असिद्धिनिबन्धनमुपाधिमाह अस्तीति । शरीरजन्यकार्ये यदवच्छेदेन शरीरस्य कारणत्वं गृह्यते, तत् सामान्यत्मकमेकमङ्गीकार्यम् , अतस्तत्सामान्यवत्त्वमेवोपाधिरिति न कार्यत्वसामान्यं कर्तृजन्य- प्रकाशिका । त्वयोः कदापि न सहोपलम्भः, तथापि कर्तृत्वाशरीरित्वयोः सहोपलम्भ इत्यर्थः । कर्तृजातीये शरीरित्वाशरीरित्वयोर्विरोध इति वा पङ्किकार्थः । यो मिथ इति । शरीरिकर्तृत्वा- शरीरिकर्तृत्वयोरिति शेषः । कर्तृत्वाशरीरित्वयोश्च मिथो धर्मिपरिहारोपलम्भेऽपि तद्विरोधस्य प्रसिद्धमात्रविषयकत्वे पक्षधर्मतावलभ्याप्रसिद्धकर्तृबाधकत्वादप्रसिद्धविषयत्वे च तत्साधकमानेन तयोस्सहोपलम्भेन विरोधस्यैवासिद्धेरत एवावयवो महानेवेत्यादिव्याप्तिविरोधान्न परमाण्वाद्य- सिद्धिरित्यत्र तात्पर्यम् । ननु घटत्वादिकमेव शरीरजन्यतावच्छेदकमिति न शरीरजन्यता- मकरन्दः । एव सहोपलम्भो बोध्यः । यद्वा कर्तृत्वाशरीरित्वयोः सहोपलम्भो बोध्यः । यो मिथो धर्मेति । शरीरिकर्तृत्वाशरीरिकर्तृत्वयोरिति शेषः । न च कर्तृत्वाशरीरित्वयोः प्रत्यक्षविरोधात्तथापि कथं समावेश इति वाच्यम् । तस्य प्रसिद्धमात्रविषयकत्वेन पक्षधर्मतावल्लभ्यकर्त्तरि तदुभयसिद्धौ विरो- धाभावात् , अन्यथा अवयवो महानेवेत्यादिधीविरोधात् परमाण्वादेरसिद्धिप्रसङ्गादिति भावः । टिप्पणी । न चैकत्र धर्मिणि विरुद्धयोः शरीरित्वाशरीरित्वयोः कथं सिद्धिः किञ्च साधकमिति वाच्यम् । 'स वै शरीरी प्रथम' इत्यादि 'अपाणिपादो जवनो गृहीते'त्यादिश्रुतयो हि मानम्, तत्प्रामाण्याभ्युपगमेऽनाहार्य्यशरीराभिमानस्य शरीरित्वप्रयोजकस्य मुख्यस्य विरहेणाशरीरित्व- स्याहार्य्याभिमानस्य शरीरप्रयुक्तकार्यप्रयोजकस्य मुख्यस्य शरीरित्वप्रयोजकस्य सत्त्वेन शरीरी- त्वस्य चोपपन्नतया तत्सिद्धौ बाधकाभावात् । एवञ्च शरीर्यकर्त्तृत्वस्य मुख्यशरीरित्वघटितस्य प्रत्यक्षोपलब्धस्य न सकर्त्तकत्वप्रतिक्षेपकत्वम् । यद्वा शरीरित्ववदशरीरित्वस्य सिद्धावित्यर्थः । अभ्युपगम्यमान इति शेषः । कर्त्तरीत्यनन्तरं कर्तृत्वाशरीरित्वयोरिति शेषः । तथा च यथाकथञ्चित् कर्त्ता शरीरी प्रमाणेन प्रत्यक्षादिना सिद्धस्तथा कश्चित् कर्त्तानुमानादिना ह्यशरीरी सिद्धोऽस्तीति त्वया यद्युपेयते तदा रूपरसवत् कर्तृत्वाशरीरित्वयोः सह गृहीतत्वेन क्षित्यादेः शरीर्यकर्तृत्वेऽ- प्यशरीरिकर्तृत्वमादाय सकर्तृकत्वस्य सम्भवेन तत्प्रतिक्षेपकत्वलक्षणविरोधासम्भवेन तदग्रहण- विशेषविरोधो निरस्त इति पर्य्यवसितार्थः । तदसिद्धाविति । श्रुतेः प्रामाण्यानभ्युपगमे क्षित्यादि- कर्त्तरि शरीरित्वाशरीरित्वयोरसिद्धावित्यर्थः । यद्वा प्रत्यक्षप्रमाणसिद्धशरीरकर्त्तृत्वसिद्धावभ्युपगम- मवेड(?)प्यनभ्युपगनेनाशरीरिकर्तृसिद्धावित्यर्थः । तदुभयासिद्धाविति । शरीरित्वाशरीरित्वोभया- सिद्धावित्यर्थः । कर्तृत्वाशरीरित्वोभयासिद्धावित्यर्थः । मिथ इति । सकर्तृकत्वशरीर्यकर्तृकत्वयो- रन्योन्यमित्यर्थः । तस्यानुपलम्भेनेति । अशरीरिणः कर्तुरप्रसिद्धौ तदभावस्य प्रमाणेन क्षित्यादौ ग्रहीतुमशक्यतयाऽशरीरिकर्तृनिर्वाह्यस्य सामान्यरूपस्य सकर्तृकस्य तत्राभावनिश्चयासम्भवे तत्प्रतिक्षेपस्य विरोधस्याग्रहणेनेत्यर्थः । तत्तामान्यत्मकमकमङ्गीकार्यमिति । शरीरकर्तृभय- जन्यतावच्छेदकमेकमेवादारणीयं लाघवात् न तु भिन्नमिति भावः ॥ सामान्यवत्त्वमेवोपाधिरिति । ६२ न्या० कु०

न स्यात् । न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् । तथा सति सौरभकटुत्व- नीलिमाऽदिविशेषे सति न धूमसामान्यमग्निङ्गमयेत् । किं नाम साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्त्तमाने तद्विशेषः साध्यविशेषव्याप्तिमाश्रयेद् , न तु विशेषे सति सामान्यमकिञ्चित्करम् । तस्यापि विशेषान्तरापेक्षयाऽकिञ्चित्करत्व- प्रसङ्गात् । सौरभादिविशेषं विहायाऽपि धूमे वह्निर्द्दष्टो, न तु विशेषं विहाय कार्ये कर्त्तेति चेत् । न । कार्यविशेषः कारणविशेषे व्यवतिष्ठते, न तु कार्यकारणसामा- न्ययोः प्रतिबन्धमन्यथाकुर्यादिति । किं न दृष्टं कार्यं कारणमात्रे अङ्कुरो बीजे

प्रकाशः ।

त्वव्याप्यमित्यर्थः । तत्सामान्याऽनङ्गीकारेऽपि घटत्वादिकमेव कर्तृजन्यत्वे प्रयोजकम् , अग्नि- जन्यतायां धूमत्वादेरिवाननुगतस्यापि जन्यतावच्छेदकत्वादिति भावः । तथापि कार्यत्वसामान्यस्य कर्तृसामान्येन व्याप्तौ विशेषो नोपाधिः, न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् , तथात्वे वाऽ- म्निजन्यत्वे धूमविशेषस्य प्रयोजकत्वान्न धूमसामान्यमग्निं गमयेत् , तस्माद् यद्विशेषयोः कार्यकारण- भावः, तत्सामान्ययोरपि बाधकं विना तथात्वनियम इत्याह न हीति ॥ नन्वग्निधूमसामान्ययो- र्व्याप्तौ धूमविशेषो नोपाधिः, प्रत्येकं साध्याव्याप्तेः । कर्तृकार्यसामान्ययोर्व्याप्तौ शरीरप्रयोज्यजा- तिर्न साध्याव्यापिकेत्याशयमविद्वान् शङ्कते सौरभादीति ॥ सा जातिर्न कर्तृमात्रप्रयोज्यतया कल्पिता, किन्तु शरीरप्रयोज्यतयेति तदभावाच्छरीरमेव कारणं निवर्त्तते, न कर्तृसामान्यम्, तस्यैव कार्यकारणभावप्रवृत्तौ कर्तृमात्रनिवृत्तावप्रयोजकत्वादिति परिहरति कार्यविशेष इति॥ शरीरकर्तृत्वानुमानञ्च घटत्वादिभिरेवोपपन्नमिति तज्जातौ मानाभावः । तेषाञ्च नोपाधित्वं, प्रत्येकं साध्याव्यापकत्वादिति भावः। नन्वत्र बाधकाभावादस्तु तथा, प्रकृते तु ज्ञानमनित्यमेवेत्यादिप्राथमिक-

प्रकाशिका ।

वच्छेदकैकजातिसिद्धिरित्यत आह तत्सामान्येति । तथा सति कर्तृजन्यत्वावच्छेदकमपि- तदेवेति कर्तृजन्यत्वमप्रयोजकमित्यर्थः । केचित्तु अस्तु तथा, तथापि तदेव शरीरजन्य- तावच्छेदकत्वेनानुगतीकृतं कर्तृजन्यत्वं उपाधिरित्यर्थः । कर्तृजन्यत्वे शरीरिकर्तृजन्यत्वे इति व्याचक्षते । आशयमविद्वानिति शङ्कत इति योजना । अप्रयोजकत्वादित्यनन्तर- माशयेनेति शेषः । तेषाञ्चेति । शरीरजन्यतावच्छेदकरूपवत्त्वञ्च नोपाधिः, शरीरविशे- षणान्तर्भावेण व्यर्थतया व्यापकत्वाग्रहात् लाघवेन जन्यत्वस्योभयसिद्धस्य कर्तृजन्यतावच्छेदक-

मकरन्द ।

तत्सामान्यानङ्गीकारे इति । न च घटत्वादीनां प्रत्येकं साध्यव्यापकत्वं, शरीरजन्यतावच्छेदक- रूपवस्त्वस्य विवक्षितत्वात् । तावदन्यतमत्त्वं तथेत्यप्याहुः। केचित्तु तदनङ्गीकारातस्तस्यानुपाधित्वेऽपि घटत्वादिकमेव कर्तृजन्यतावच्छेदकमस्तु न तु जन्यत्वमित्यप्रयोजकमेवास्त्विति तात्पर्यमित्याहुः । इत्याशयमविद्वानिति इति शङ्कते इत्यन्वयः । तेषाञ्चेति । घटत्वादीनामित्यर्थः । यद्यपि विवक्षितोपाधौ नाऽयं दोषः, तथापि यथाश्रुताभि-

टिप्पणी ।

कार्यस्य कर्तृजन्यतायामवच्छेदकं साध्यव्यापकत्वे सति साधनव्यापकत्वं च, तथा च शरीरजन्यता- वच्छेदककार्यनिष्ठधर्मविशेष एव कर्तृजन्यत्वव्याप्यो न कार्यमिति भावः ॥ तत्सामान्यानङ्गीका- रेऽपीति । क्लृप्तस्यावच्छेदकत्वसम्भव उफलाघवं कल्प्यविषयमकिञ्चित्करमित्याशयेनाह तदिति । तथा हि क्षित्यादिनिष्ठस्यैकस्य कार्यत्वाभावात् क्षितित्वस्य कर्तृजन्यतावच्छेदकत्वे ग्राहकाभावात् क्षितित्वावच्छिन्नकार्यत्वस्यापि कर्तृजन्यताव्याप्यत्वासम्भव इति भावः ॥ चक्षुर्व्यतिरिक्तप्रत्यक्ष-

: पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६१ तद्विशेषो धान्ये तद्विशेषः शालौ तद्विशेषः कलमे इत्यादि बहुलं लोके । क्व वा दृष्टमनुद्भूद्रव्यारभ्यं द्रव्यं नित्यरूपाद्यारब्धं रूपादि । तथापि सामान्यव्याप्तेरविरो- प्रकाशः । बहुव्याप्तिकप्रत्यक्षबाधः, तुल्यत्वेऽपि व्याप्तिसंशयाधायकत्वात् । न च कार्यकारणभावमूलकत्वेन कार्य- त्वसकर्तृकत्वव्याप्तिर्बलीयसीति वाच्यम् । विरोधिप्रत्यक्षेण कार्यकारणभावस्यैवासिद्धेरित्यत आह क्व वेति ॥ एवं सति अवयवो महानेव रूपारम्भकं रूपमनित्यमेव, तेज उद्भूतरूपमेवेत्यादि-व्या- प्तिग्रहात् परमाणुतद्रूपचक्षुरादेरप्यसिद्धिः स्यात् ॥ अथ द्रव्यचाक्षुषत्वेऽनेकद्रव्यवत्त्वस्य रूपे स्वाश्रयसमानाधिकरणरूपस्य साक्षात्कारे विषयेन्द्रि- यसन्निकर्षस्य कारणत्वात् तन्मूलविपक्षबाधकेन परमाण्वादिसाधकस्य बलवत्त्वात् परमाण्वादिसिद्धौ विरोधिव्याप्तेर्बाधो, न तु वैपरीत्यम् , विपक्षबाधकाभावेन तस्या बलवत्त्वात् । तर्हि ज्ञानादिकार्योः कार्यकारणभावावधारणात् तन्मूलविपक्षबाधकेन व्याप्तिग्रहात् पक्षधर्मतासचिवाग्नित्यज्ञानादिसिद्धौ व्यभिचारान्न व्याप्तिः । न च कार्यकारणभावे बाधः, साध्यं पक्षातिरिक्त एव, सुखं दुःखसम्भिन्नमेवे- त्यादिव्याप्तिग्रहात् कार्यात् कारणानुमानोच्छेदे निरीहं जगज्जायेतेत्यर्थः ॥ ननु शरीरजन्यत्वमुपाधिः, पक्षेतरत्ववत् पक्षमात्रव्यावर्त्तकविशेषणत्वात् साधनविशेषितत्वात् साधनतुल्ययोगक्षेमत्वेन साध्यव्यापकत्वानिश्चयाच्च न तदुपाधिरिति चेन्न । तेषामनुपाधित्वे साध्यग्रा- हकमानाभावस्य तन्त्रत्वात् । प्रकृते तु चेष्टेतरकार्ये शरीरव्यापारद्वारेव कर्तुः कारणत्वाच्छरीरसह- कृतस्यैव स्वकार्यजनकत्वाच्च विपक्षबाधकात्तन्निश्चयात् । अत एव बाधोन्नीतं पक्षेतरत्वममित्रत्वेन धूमवत्त्वे साध्ये आर्द्रन्धनप्रभवाग्निरत्त्वं रसवत्त्वेन गन्धवत्त्वे साध्ये पृथिवीत्वमुपाधिः, विपक्षबाध- कैस्तेषां साध्यव्यापकत्वनिश्चयात् ॥ मैवम् । कर्तुर्हि शरीरसहकारिता यदि घटादौ कर्त्तव्ये तदा शरीरं विना तस्य घटाद्यकरणेऽपि किमायातं कर्तुः कार्यमात्रकरणे । न च कार्यमात्रकरणे सा, तस्य त्वया कर्तृजन्यत्वानभ्युपगमात् । तथात्वे वा शरीराजन्यमपि कार्यं कर्तृजन्यमिति तस्य साध्याव्यापकत्वम् । नापि स्वकार्ये, तत्रैव तस्यानवच्छेदकत्वादनाद्याश्रयात् ॥ तथापि सन्दिग्धोपाधिः स्यात्तुल्ययोगक्षेमतया साध्याव्यापकतासंशयाधायकत्वादिति चेन्न । लाघवेन बाधकं विना कर्तृजन्यत्वे जन्यत्वस्यैवावच्छेदकत्वात् । न तु शरीरजन्यत्वस्य, गौरवात् । तथा च न शरीरजन्यत्वं सकर्तृकत्वव्यापकम् । घटादौ त्वर्थः समाजः, घटत्वेन शरीरजन्यत्वनि- यमाद्, न तु व्यापकत्वप्रयुक्तः ॥ प्रकाशिका । त्वमिति विपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्यापकत्या साध्याव्यापकत्वाच्चेति भावः । मकरन्दः । प्रायेणेदम् । विपक्षबाधकेन च हेतौ साध्यव्यापकत्या नायमुपाधिरित्यत्र तात्पर्यम् । रूपारम्भक- टिप्पणी बाध इति । उक्तप्रत्यक्षस्य प्रवलत्वात् तद्बाधो दोष इति भावः । तुल्यत्वेपीति । उक्तप्रत्यक्षस्य समत्वेपीत्यर्थः । व्यभिचारान्न व्याप्तिरिति । ज्ञानमनित्यमेवेत्यादिव्याप्तिः । साध्यव्यापक- त्वानिश्चयाच्चेति । यथा हि साध्यं साधनप्रयोजकमिति साधनव्यापकतानिर्णायकविपक्षबाधक तर्क- सद्भावात् साध्यसाधनव्यापकतानिर्णयः तथा साधनं साध्यप्रयोजकमिति साध्यव्यापकतानिर्णायक- तर्काभावात् साध्यव्यापकतानिर्णयो न सम्भवति, साधने एवमेव हि साधनघटितत्वेन साधनतुल्यो- गक्षेमे साधनस्य यत्प्रयोजकता तद्व्यापकतानिर्णायकतर्कसहितत्वं न यत्प्रयोजकता तद्व्यापकतानि-

४६२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां धात् सिद्ध्यत्येव । अवश्यञ्चैतदेवमङ्गीकर्त्तव्यम् । अन्यथा कार्यत्वस्याकस्मिकत्व- प्रसङ्गात् ॥ स्यादेतत् । अन्वयव्यतिरेकि तावदिदं कार्यत्वमिति परमार्थः । तत्राकाशादे- र्विपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिराहोस्वित् कारणमात्रव्यावृत्तेरिति सन्दिह्यते । तदसत् । कर्तुरपि कारणत्वात् । कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्तिं प्रति प्रयोजकत्वादन्यथा कारणत्वव्याघातात् । करणादिविशेष- प्रकाशः। अपि च शरीरजन्यत्वं हस्तादिजन्ये साध्याव्यापकम् । न च साक्षात्प्रयत्नाधिष्ठेयजन्यत्वं तदर्थः, साधनव्यापकत्वात्, परमाण्वादेस्तत्साक्षात्प्रयत्नाधिष्ठेयत्वात् । शरीरिकर्तृत्वमपि नोपाधिः । कार्यमात्रे कर्तुः शरीरसहकारित्वाभावात्, तस्य साध्यव्यापकत्वाऽनिश्चयात् ॥ ननु घटादौ कृतिसाध्यता शरीरव्यापारद्वारैव, न साक्षात् । न चाऽशरीरस्य तत्सम्भव इति तद्बाधात् कर्तुरपि बाध एव । शरीरव्यापारजन्यत्वं वोपाधिः । मैवम् । कार्यमात्रे हि तथा न कृति- साध्यता, क्षित्यादौ व्यभिचारात् । घटादौ च तथात्वेऽपि कार्यमात्रे कृतिमात्रस्य जनकत्वाविरोधात् । विशेषयोर्हेतुहेतुमद्भावे बाधकं विना सामान्ययोरपि तथात्वात् । न च चेष्टेतरकार्ये शरीरव्यापार- द्वारैव कृतेर्जनकत्वम्, क्षित्यादौ व्यभिचारात् किन्तु घटादावित्युकम् ॥ अत एव सहभावनिरूपकत्वे सति नियतपूर्ववर्त्तित्वं कारणत्वम् । न च कृतेः कार्यसहभावनि- रूपकत्वं, स्वतः कार्यकाले तदभावात्, तथा च तत्परिचायितव्यापारद्वारा तस्याः सहभावनिरूप- कत्वम् । अतः शरीरव्यापारद्वारैव कृतेर्जनकत्वं न तु केवलाया इत्यऽपास्तम् । कार्यमात्रे तथा- त्वाभावात् ॥ कार्यत्वसकर्तृकत्वव्याप्तौ विपक्षबाधकमाह अन्यथेति ॥ कारणान्तरस्येव कर्तुरप्यभावेन कार्याभावात् कर्त्रभावे कारणान्तरस्याऽप्यनुत्पादकत्वे कार्यमाकस्मिकं स्यादित्यर्थः । यदि व्यतिरेकसन्देहात् प्रकृते नानुमानं, तदा तादृशव्यतिरेकसन्देहश्च कार्यात् कारणविशे- षानुमानेष्वपि कर्तुं शक्यते इति तेषामप्यनुमानाभासत्वं स्यादिति शङ्कोत्तराभ्यामाह-स्यादेतदिति॥ प्रकाशिका। साधनव्यापकत्वादिति । नचादृष्टाद्वारकचेष्टाश्रयजन्यत्वमुपाधिश्चेष्टात्वञ्च जातिरिति वाच्यम् । विपक्षबाधकेनेत्यादिसमाधेरनुपदमेवोक्तत्वादिति भावः । ननु कारणान्तरसत्त्वे कथमाकस्मिकत्व- मित्यत आह कारणान्तरस्येति । कारणविशेषेति । उपादानाद्यनुमानेष्वपीत्यर्थः । संयोग- मकरन्दः। मनतिप्रयोजकं बोध्यम् । साधनव्यापकत्वादिति । ननु चेष्टाश्रयजन्यत्वमुपाधिरस्तु, तथा च नोक्तदोषः । न चादृष्टद्वारा क्षित्यादौ शरीरजन्यत्वादिदमपि साधनव्यापकमेवेति वाच्यम् । अदृष्टाद्वारकत्वस्यापि तद्विशेषणत्वादिति चेत् । न, विपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्याप- कत्वेनानुपाधित्वात् । ननु कारणान्तरसत्त्वे कथमाकस्मिकत्वमित्यत आह कारणान्तरस्येति । कारणविशेष उपादानादिः । शरीरव्यापारे शरीरानपेक्षत्वमसम्भवीत्यत आह स्वक्रियायामिति । टिप्पणी र्णायकतर्करहितत्वं साधन इव तदुभयवति न साध्यव्यापकतानिश्चयसम्भव इति भावः ॥ कारणा- न्तरस्यैवेति । यथा हि कारणान्तराभावात् कार्याभावो घटादिस्थले दृष्टः, तथा कर्त्रभावोऽपि स इति तुल्यत्वेऽपि क्षित्यादिस्थले तदुत्पत्तौय ?...॥ कार्यहेतौ संदिग्धव्यतिरेकत्वात्संदिग्वानैकान्तिकत्वमाशंकते स्यादेतदिति । संदिह्यत इति ।

पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६३ व्यतिरेकसन्देहप्रसङ्गाच्च । कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या कार्यत्वव्यावृत्तिः, उत करणव्यावृत्त्या । एवं किमुपादानव्यावृत्त्या, किमसमवायि- व्यावृत्त्या, किं निमित्तव्यावृत्त्येति । कार्यत्वात् करणमुपादानमसमवायि निमित्तं वा बुद्ध्यादिषु न सिद्धयेत् । कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितं, तदेव त्वसिद्ध- मिति चेत् । किं पटादौ कुविन्दादिकारणमेव कर्त्ता, प्रस्तुते चोदासीन एव साधयितुमुपक्रान्तः । तस्माद् यत्किञ्चिदेतदपीति ॥ ननु कर्त्ता कारणानामधिष्ठाता साक्षाद्वा शरीरवत्, साध्यपरम्परया वा दण्डादिवत् ? । तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् । न द्वितीयः, द्वाराभावात् । न हि कस्यचित् साक्षादधिष्ठेयस्याऽभावे परम्परया अधिष्ठानं सम्भवति ॥ तदयं प्रमाणार्थः—परमाण्वादयो न साक्षाच्चेतनाऽधिष्ठेयाः, शरीरेतरत्वात् । यत्पुनः साक्षादधिष्ठेयं न तदेवं, यथाऽस्मच्छरीरमिति । नापि परम्परया अधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात् , स्वचेष्टायामस्मच्छरीरवत् । व्यतिरेकेण वा दण्डा- प्रकाशः । अन्यथा सत्प्रतिपक्षाभिधानाय भूमिकामारचयति नन्विति ॥ यत्र प्रयत्नवदात्मसंयोगा- समवायिकरणकक्रियोत्पादको यः, स तत्र साक्षादधिष्ठाता, यथा स्वशरीरे अस्मदादिः । शरीरक्रियया यो यत्क्रियाजनकः, स तत्र परम्पराऽधिष्ठाता, यथा दण्डादौ कुलालादिः । आद्ये पर- माण्वादिः शरीरं स्यात् तादृशक्रियाश्रयत्वादित्याह परमाण्वादीनामिति ॥ स्वव्यापार इति ॥ स्वक्रियायां शरीरव्यापारानपेक्षत्वादित्यर्थः ॥ स्वचेष्टायामिति ॥ शरीरक्रियायास्त- त्क्रियानपेक्षत्वादित्यर्थः ॥ व्यतिरेकेणेति ॥ यत् परम्पराऽधिष्ठेयं तन्न स्वव्यापारे शरीरक्रियान- प्रकाशिका । लक्षणस्वव्यापारापेक्षतया स्वशरीरं दृष्टान्तः साधनविकलमित्यत आह स्वक्रियायामिति । यद- वच्छिन्न इति । यदवच्छिन्ने आत्मन्यैन्द्रियककार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यः, तस्यैवेन्द्रिया- श्रयत्वमित्यर्थः । यद्यपि मूले न भोगान्तर्भावः, तथापि तात्पर्यार्थोऽयमिति भावः । टिप्पणी । तस्माद्व्यतिरेकव्याप्तिसंदेह इत्यर्थः । तथा च कर्तृभावोऽपि कार्याभावप्रयोजकः सामान्यतः कारणा- भावोऽपीत्युभयोरेव प्रयोजकत्वम् । किं निमित्तव्यावृत्त्येति । तस्मात् कारणेष्वन्यतमव्यतिरे- कस्यापि कार्य्यानुत्पादप्रयोजकत्वं सिध्यति, अन्यथा धूमादावपि तार्णवह्नयभावप्रयुक्तोऽतार्णवह्निभाव- प्रयुक्तो वा धूमाभाव इत्यादेर्वक्तुं शक्यत्वात् क्वचिदपि व्यतिरेकव्याप्तिर्न सिध्येदित्यन्वयव्यतिरेकानु- मानमात्रमुच्छिद्येतेत्यर्थः । दूषणान्तरमप्याह कार्यत्वादिति । न सिध्येदिति । तत्रापि हि कारणाभावप्रयुक्त उपादानाद्यभावो वा कार्यत्वाभाव इति संदिहानो न व्यतिरेकव्याप्तिं परिच्छेत्तु- मर्हतीत्यर्थः । अकारणमेव कर्तेति । तथाच कुविन्दादिव्यतिरेकेऽपि पटादिः प्रादुर्भवेत् नचैवम् तस्मात् कुविन्दादेरपि कारणत्वमिष्टमेव, कारणेषु चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमतो भवति कर्तृत्वं नाकारणस्येत्यर्थः । प्रस्तुते सकर्तृकत्वानुमाने, यदि कर्ता कारणं न स्यात् तदा कथं कार्यत्वेन हेतुना स सिध्येत्, न चेष्टापत्तिः प्रकरणपराह तत्वा दिति । प्रकारान्तरेण सत्प्रतिपक्षत्वमाशंकते ननु कर्तेत्यादिना । तदर्थमेव-अधिष्ठानार्थमेव । तथासति-अधिष्ठितस्याप्यधिष्ठानापेक्षितत्वे सति । ईश्वराधिष्ठितस्यापि कारणस्य कुविन्दादिरूपाधिष्ठानापेक्षायामविशेषात् कुविन्दाधिष्ठितस्याप्यधिष्ठा- नापेक्षा स्यात्, एवं क्रमेणानवस्था स्यादित्यर्थः । कार्यत्वेन हेतुना बुद्धिमत्पूर्वकत्वे साध्ये जन्यप्रयत्न-

४६४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां द्युदाहरणम् । एवं क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यति- षोड्या सत्प्रतिपक्षत्वम् ॥ अपि च पटादौ कुविन्दादेः किं कारकाधिष्ठानाथमपेक्षा, तेषामचेतनानां स्वतोऽप्रवृत्तेः, आहो कारकत्वेन ? । न पूर्वः । तेषां परमेश्वरेणैवाधिष्ठानात् । न ह्यस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन् न व्याप्नोतीति सम्भवति । न चाधिष्ठि- तानामधिष्ठात्रन्तरापेक्षा तदर्थमेव । तथा सत्यनवस्थानादेवाऽविशेषात् । न द्वितीयः । अधिष्ठातृत्वस्यानङ्गत्त्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः । न च हेतुत्वेनैव तस्यापेक्षाऽस्त्विति वाच्यम् । एवन्तर्हि यत्कार्यं तत्सहेतुकमिति व्याप्तिः, न तु सकर्तृकमिति । तथा च तथैव प्रयोगे सिद्धसाधनात् ॥ किञ्चानित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम् । न ह्यनित्यप्रयत्नोऽपि बुद्ध्या शरीरवत् कारणत्वेनाऽपेक्ष्यते, येन तन्निवृत्तावष्यकार्यबुद्धिर्न निवर्त्तते इति ॥ तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते । तथाहि—साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वं, यत् प्रसज्यते ? यदि साक्षात्प्रयत्नवदधिष्ठेयत्वं तदिष्यत एव । न च ततोऽन्यत् प्रसञ्जकमपि । अथेन्द्रि-


प्रकाशः । पेक्षमपि तु तदपेक्षमेव, यथा दण्डादीति व्यतिरेकीत्यर्थः । एवं कारणपक्षकानुमानमुक्तवा कार्यपक्ष- कमाह एवमिति । सिद्धसाधनमभिधातुं भूमिकामारचयति अपि चेति । अधिष्ठातृत्व- स्येति । क्षित्यादेश्चेतनाधिष्ठितहेतुजन्यत्वे साध्ये पटादिदृष्टान्तः साध्यविकलः, कुविन्दादेः कार- कत्वेनैवापेक्षणीयतया कारणाधिष्ठातृत्वेन तदभावादित्यर्थः । तथा चेति । कर्तृजन्यत्वेऽप्यचेतन- समवायादिहेतुकत्वस्य मयाऽप्युपगमादित्यर्थः । उपाधिमाह किञ्चेति । न हीति । यथा शरीरनिवृत्तावप्यकार्या बुद्धिर्न निवर्त्तते, तद्वद- नित्यप्रयत्ननिवृत्तावप्यकार्यबुद्धिर्न निवर्त्तते इति न । शरीरं हि बुद्ध्या कारणत्वेनापेक्ष्यते इति शरीरनिवृत्तौ कार्या बुद्धिर्निवर्त्तते इति युक्तं, न पुनरनित्यप्रयत्नो बुद्ध्या कारणत्वेनापेक्ष्यते, येना- नित्यप्रयत्ननिवृत्तौ कार्या बुद्धिर्निवर्त्तते न नित्येति स्यात्, अपि तु व्यापकत्वमात्रेणेत्यर्थः । शरीर- वदिति प्रथमासमर्थाद्वतिः । बुद्ध्या शरीरं यथा कारणतयाऽपेक्ष्यते, न तद्वदनित्यः प्रयत्नः कारण- तयेत्यर्थः । तन्निवृत्तावपीति । अनित्यप्रयत्ननिवृत्तावपीत्यर्थः । तदेतदिति । विशेषस्य विशेषं प्रति प्रयोजकत्वादित्यादिना । अत्र प्रसङ्गदशायां तावद् दूषणमाह यदीति । इष्टापादनमित्यर्थः । न चेति । आपाद्यादापादकस्याविशेष इत्यर्थः ।


टिप्पणी पूर्वकत्वस्योपाधित्वं तस्य द्यणुकादौ साधनाव्यापकत्वात्, उपाध्यभावेन च बुद्धिमत्पूर्वकत्वमात्रं निवर्तते नतु जन्यबुद्धिपूर्वकत्वमित्याह किञ्चेति । व्याप्तिम्-बुद्धिमत्पूर्वकत्वनिरूपिताम् । यथाऽस्मिन्ननु- माने शरीरपूर्वकत्वं नोपाधिरुद्भावर्नाहः यतो बुद्धिं प्रति शरीरस्य कारणतया उपाध्यभावेन (शरीरा- भावेन) कार्यबुद्धयभावस्यैव सिद्धिः स्यान्न तु नित्यबुद्ध्यभावस्यापीति नित्यबुद्धिसिद्धौ बाघकाभावात्, एवमनित्यप्रयत्नोऽपि यदि बुद्धिम्र्पति शरीरमिव कारणं स्यात्तदाऽयमपि नोद्भावनीयः स्यान्न त्वेवं बुद्धिम्र्पत्यनित्यप्रयत्नस्याकारणत्वादिति प्रघट्टकार्थः । शरीरत्वसाक्षाच्चेतनाधिष्ठितत्वयोरापाद्यापादक- योरैक्यमप्याह नचेति । अर्थाश्रयत्वमिति । अर्थः प्रयोजनं स्वीयसुखसाक्षात्कारात्मको भोगः तदाश्रयत्वमवच्छेदकतासम्बन्धेन, नित्यसुखसाक्षात्कारात्मकमीश्वरज्ञानं यद्युपेयेत यदि वा भोगभिन्नमेव

पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६५ याश्रयत्वम् ? । तन्न । तदवच्छिन्नप्रयत्नोत्पत्तौ तदवच्छिन्नज्ञानजननद्वारेणेन्द्रिया- णामुपयोगात् । अनवच्छिन्ने प्रयत्ने नायं विधिः । नित्यत्वात् । अत एव नाऽर्थाश्र- यत्वम् । न हि नित्यज्ञानं भोगरूपमभोगरूपं वा यत्नमपेक्षते तस्य कारणविशेष- त्वात् । न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि । विशेषादर्शनाभावे मिथ्याज्ञाना- नवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् ॥ तस्मात् साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्या- विशिष्टम् । अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रय- मप्यन्यथासिद्धम् । अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगा- यतनमपि, स्पर्शवद्वेगवद्द्रव्यानुद्यत्वात्तदनपेक्षमपि स्यात् । अचेतनत्वाच्चेतनाधि- ष्ठितमपि स्यादिति को विरोधः ॥ प्रकाशः। अथेति । तथा च आपाद्यापादकयोर्भेद इत्यर्थः । तत्राप्रयोजकत्वमाह तदवच्छिन्नेति । साक्षात्प्र- यत्नाधिष्ठितत्वेऽपि तस्यैवेन्द्रियाश्रयत्वम् । यदवच्छिन्न आत्मनि प्रयत्नस्तदवच्छिन्नात्मनिष्ठज्ञाने- नेन्द्रियकार्येण भोगो जनयितव्यः । अकार्यो तु ज्ञानप्रयत्नाविनिन्द्रियाश्रयत्वं विनाऽपि स्यातामिति न विरोध इति मूलशैथिल्यमित्यर्थः । प्रयत्नोत्पत्ताविति, निमित्तसप्तमी । अत एवेति । सोपाधित्त्वेन मूलशैथिल्यादेवेत्यर्थः । उपाधिमाह न हीति । ज्ञानानित्यत्वमुपाधि- रित्यर्थः । न च नित्येति । यदवच्छिन्नात्मन्यर्था भोगं जनयन्ति तस्यार्थाश्रयत्वम् , नित्यज्ञा- नाश parse: नाशparse: नाशparse: नाश्रियस्य त्वीश्वरस्य भोगाभावान्न तदर्थं तदपेक्षेत्यर्थः । प्रसङ्गदूषणेनैव तदनुग्राह्यो हेतुरपि दूषित इत्याह तस्मादिति । शरीरत्वं यदि साक्षात्प्र- यत्नाधिष्ठेयत्वं, तदा शरीरेतरत्वं साक्षात्प्रयत्नानधिष्ठितत्वम् । तथा स्वव्यापारे शरीरानपेक्षत्वं साक्षात्प्रयत्नाऽधिष्ठेयानपेक्षत्वमेव, तथाच साध्याविशेष इत्यर्थः । यदि चेन्द्रियाऽऽश्रयत्वं भोगाश्रयत्वं वा शरीरत्वं, तदा शरीरेतरत्वादित्यस्यानिरिन्द्रियाश्रयत्वादभोगायतनत्वादित्यर्थः । स्वव्यापारे इन्द्रियाश्रयानपेक्षत्वाद्रोगायतानापेक्षत्वादिति वा द्वितीयहेत्वर्थः । तदेतत् सर्वमन्यथासिद्धमित्याह अनिन्द्रियाश्रयत्वादिति । अन्यथासिद्धिमेवाह अभोगायतनत्वादिति । ईश्वरे ह्यदृष्टा- भावेन भोगाभावात् परमाण्वादिर्भोगानवच्छेदकत्वेनानिन्द्रियाश्रयोऽपि स्यात्, स्पर्शवद्वेगवद्द्रव्या- प्रकाशिका । ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वमर्थप्रयोज्यभोगाश्रयत्वमित्यर्थः। तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयानपेक्षत्वमेव परम्परानधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः। तदनपेक्षत्वादित्यत्र तच्छब्देनोभयपरामर्शाद्धेतुद्वयलाभ इत्याह स्वव्यापार इति । एवं च त्रयमिति मूलमग्रिमसाध्यहेत्वोस्तत्साध्यकत्वेनैकत्वं विवक्षित्वा समाधेयम् । वस्तुतस्तुष्टयमिति बोध्यम् । मकरन्दः । ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वं = अर्थप्रयोज्यभोगाश्रयत्वमि- त्यर्थः । तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयापेक्षत्वमेव परम्पराधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः । यदवच्छिन्ने आत्मनि ऐन्द्रियकार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यस्तस्यैवेन्द्रियाश्रयत्व- मित्यर्थः । यद्यपि भोगान्तर्भावेन न मूलार्थस्तथापि तात्पर्यार्थोऽयमिति भावः । टिप्पणी । तज्ज्ञानमुपेयेत उभयथापि नित्यत्वान्न प्रयत्नमपेक्षते इत्यर्थः । कारणविशेष(रूप)त्वात्-तथा च तत्तत्कार्यनिरूपितमेव कारणं यत्नः स्यादित्यर्थः । अनुद्यत्वात्-प्रदर्शितद्रव्येण नोदनाख्यसंयोगाभा-

४६६ व्याख्यायात्रोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकान्याख्यायो तथा च साक्षात्प्रयत्नाऽधिष्ठितेतरजन्यत्वादिति साध्यसमः। इन्द्रियाश्रयेतर- जन्यत्वाद् भोगायतनेतरजन्यत्वादिति द्वयमप्यन्यथासिद्धम्। कार्यज्ञानाद्यनपेक्ष- त्वाच्छरीरेतरजन्यमपि स्यात्। अचेतनहेतुकत्वाच्चेतनाधिष्ठितमपीति को विरोधः॥ अप्रसिद्धविशेषणश्च पक्षः। नहि चेतनानधिष्ठितहेतुकत्वं क्वचित् प्रमाण- सिद्धम्। न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात्। गगनादेरपि सपक्षाद्व्यावृत्तेः॥ यत् पुनरुक्तं-कुविन्दादेः पटादौ कथमपेक्षेति। तत्र कारकतयेति कः सन्देहः। किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतो न स्वरूपतः। तदैव चाऽधि- ष्ठातृत्वम्॥ यत्त्वधिष्ठिते किमधिष्ठानेनेति। तत् किं कुविन्द उद्धार्यते, ईश्वरो वा, अनवस्था वाऽऽपाद्यते। न प्रथमः। अन्वयव्यतिरेकसिद्धत्वात्। न द्वितीयः। प्रकाशः। न्तराप्रेर्यमाणत्वाच्छरीरानपेक्षक्रियोऽपि स्याद्, न विरोध इत्यर्थः। क्षित्यादिकं न चेतनाधिष्ठितहे- तुकं शरीरेतरजन्यत्वादित्यत्रापि शरीरपदार्थस्य विकल्पत्रये दोषमाह-तथा चेति। दूषणान्तरमाह अप्रसिद्धेति। ननु चेतनाऽधिष्ठितहेतुकत्वं तावदन्यत्रावगतमतः प्रतीतप्रति- योगिकत्वे तन्निषेधः शक्यसाधनः स्यादित्यत आह न चेति। कुविन्द इति। ईश्वरेणैव तन्त्वादेरधिष्ठानात् किं तदर्थं कुविन्देनेत्यर्थः। ईश्वरो वेति। कुविन्देनैव च तन्त्वादेरधिष्ठानात् किं तदर्थमीश्वरेणेत्यर्थः। अनवस्था वेति। घटादेर्द्विकर्तृकतया तद्दृष्टान्तेन कार्यत्वात् क्षित्यादे- रपि द्विकर्तृकत्वापत्तौ तस्यापि पक्षधर्मतावलात् सर्वज्ञेन सर्वज्ञाधिष्ठातृसिद्धौ पुनर्पटादिदृष्टान्तेन क्षित्यादौ कर्तृत्रयं स्यादिति पुनर्धटवत् क्षितिः क्षितिवद् घट इत्यादीश्वरानन्त्यं स्यादित्यर्थः। अन्व- येति। कुविन्दव्यापारस्यान्यवयव्यतिरेकादित्यर्थः। ईश्वरज्ञानादीनां नित्यत्वेन सर्वविषयत्वात् पटा- प्रकाशिकाः। क्षित्यादिकमिति। यद्यपि यथाश्रुते न साध्याविशेषः, उपाधिभेदात्। तथापि चेतनाधिष्ठानमपि प्रयत्नाधिष्ठानद्वारैवेति प्रयत्नाधिष्ठितहेतुकत्वमेव फलतः साध्यमिति साध्याविशेषो द्रष्टव्यः। वस्तुतः साध्यवदसिद्धो हेतुरित्येव साध्यसम इति द्रष्टव्यम्। मास्तु सर्वविषयत्वं तथापि प्रकारान्त- मकरन्दः। तदनपेक्षत्वादित्यत्र तत्पदेनोभयपरामर्शाद्धेतुद्वये तात्पर्यमित्याह स्वव्यापार इति। एवं च त्रयमिति मूलस्य चतुष्टयमिति तात्पर्यम्। क्षित्यादिकमिति। यद्यपि यथाश्रुते न साध्याविशेष उपाधिभेदात्, तथापि चेतनाधिष्ठानप्रयत्नद्वारैवेति प्रयत्नानधिष्ठितहेतुकत्वमेव साध्यमभिप्रेतम्। यद्वा साध्याविशेष उक्तः। यद्वा साध्यवद्धेतुरप्यसिद्ध इति साध्यसमः। ननु सर्वविषयत्वमेव तस्या- टिप्पणी। वात्। हेतोः-शरीरेतरजन्यत्वस्य। व्यावृत्तेः-विपक्षात्तु घटादेर्व्यावृत्तिः स्फुटैव। अनवस्था चेति। अयमाशयः द्यणुकादिकं द्विकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेन शरीरिकर्तृकत्वबाधात् पक्षधर्मता- बलात् सर्वाधिष्ठातेव द्वितीयोऽपि कर्ता (ईश्वरः) सिध्येत् घटादेरपि कर्ता स्यात् तथा च घटादेस्त्रि- कर्तृकत्वमायातुम्। एवं द्यणुकादित्रिकर्तृकः कार्यत्वात् घटादिवत् इत्यनुमानेन सिध्यत् तृतीयोऽपि कर्ता पक्षधर्मतावलात् सर्वाधिष्ठाता ईश्वर एवानुमितिगोचरः स्यात् एवं क्रमेणानवस्था प्रसज्यते इति!

पंचमस्तवके ] ईश्वरबाधकखण्डनम् । ४६७ परमाण्वदृष्टाद्यधिष्ठतृत्वसिद्धौ ज्ञानाऽऽदीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् । न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः ॥ न तृतीयः । तस्मिन् प्रमाणाभावात् । तथाप्येकाऽधिष्ठितमपरः किमर्थमधि- तिष्ठतीति प्रश्ने किमुत्तरमिति चेत् । हेतुप्रश्नोऽयं, प्रयोजनप्रश्नो वा ? । नाद्यः । ईश्वराधिष्ठानस्य नित्यत्वात् । कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् । न द्वितीयः । कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात् ॥ एकाधिष्ठानेनैव कार्यं स्यादिति चेत् । स्यादेव । तथापि न सम्भेदेऽन्यतर- वैयर्थ्यम् । परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामर्थ्योपलब्धौ सम्भू- यकारित्वोपपत्तेः ॥ अस्ति तत्र वैजात्यमिति चेत् । इहापि किञ्चिद्भविष्यतीति । न चाकुर्वतः कुलालादेः कायसङ्क्षोभादिसाध्यो भोगः सिद्ध्येदिति तदर्थमस्य कर्तृत्वमीश्वरोऽनु- मन्यते, तदर्थमात्रत्वादैश्वर्यस्येति ॥ यच्चानित्यप्रयत्नेत्यादि । भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निव- र्त्तेत, न त्वेतदस्ति, उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात् । हेतुभूता बुद्धिनिर्वर्त्तत इति चेन्न । उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात् । कारकविषया बुद्धिनिर्वर्त्तत इति चेन्न । उदासीनस्यापि कारकोद्भूतत्वात् । न हि घटादिकम- प्रकाशः । द्युपादानविषयत्वमपीति कथं न तेषां पटादिकारणत्वं, कुविन्दज्ञानादितुल्यत्वादित्याह परमा- ण्विति । पटाकाशसंयोगादिकं प्रति ईश्वरस्य कर्तृत्वात् पटादिगोचरमपि ज्ञानं सिद्धमिति भावः । न त्विति । न त्वधिष्ठिताधिष्ठानार्थमेवेत्यर्थः । यथा कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां तथेश्वर- स्याधिष्ठानं, ज्ञानादीनां नित्यतया' सर्वविषयत्वात् । तद्वदधिष्ठात्रन्तरकल्पनायां न मानमस्ति, येनानवस्था स्यात् । कार्ये हि कर्तृत्वेन कारणता, न द्विकर्तृत्वादिनेति न तत्सिद्धिरित्याह प्रमाणा- भावादिति । वैजात्यमिति । प्रत्येकजन्यव्यावृत्तं कारणमेलकव्यङ्ग्यमित्यर्थः । इहापीति । द्विकर्तृके घटादावेककर्तृकक्षित्यादेर्वैजात्यमित्यर्थः । उदासीनस्येति । कारणानि अव्यापारयत प्रकाशिका । रेणापि घटादिगोचरत्वं तस्य सिद्धमित्याह पटाकाशेति । ननूदासीनो निःप्रयत्न एवोच्यते तथा च प्रयत्नाभावेपीति व्यर्थमत आह कारणानीति । उदासीनशब्दस्य कारकाव्यापारयितृत्वमर्थपूर्व- मकरन्दः । सिद्धमिति पटादिविषयत्वासिद्धेस्तदुपादानाधिष्ठानं न स्यादित्यत आह पटाकाशेति । वस्तुतो नियतविषयता कारणाधीनेति नित्यतयैव सर्वविषयत्वमिति भावः । तदिदमाह नित्यतयेति । टिप्पणी । प्रमाणाभावादिति । कार्यं प्रति कर्तृत्वेन कारणता नतु द्विकर्तृत्वेन तथा च द्विकर्तुकत्वानुमान- मनुकूलतर्कशून्यमित्यर्थः। संभेदे-द्वयोः प्राप्तौ सत्याम् । सम्भूयेति । प्रचयजन्यतूलकपरिमाणोत्प- त्तिस्थले प्रत्येकं स्वस्वकार्यं प्रति कारणयोरपि संख्यापरिमाणयोरवर्जनीयतयाऽऽसङ्गतत्वात् यथा त्रयाणां सन्निपातस्त्येत्यर्थः । त्रयाणां सन्निपातस्थलेवैजात्यमाशङ्कते अस्तीति । स्वीकारोति इहापीति । कायसंक्षोभादिः-कायव्यापारादिः । किंचित्कार्यमकुर्वतः कुलालादेः कायव्यापारसाध्यो भोगश्च न सिध्ये- दतः कुलालादेरपि कर्तृत्वमित्याह नचेति । अनित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीव्यकर्तृत्वमि- त्यादिनाऽभिहितमुपाधिं निरस्यति यद्विवति । अनित्यप्रयत्नस्य बुद्धिव्यापकत्वे तन्निवृत्तौ बुद्धिनिवर्ते- तातस्तस्य व्यापकत्वं विघटयति उदासीनस्येति । अव्यवहितपूर्वत्वसम्बन्धेन कृतिविशिष्टा या ६३ न्या० कृ०