न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 518, कुल 608 में से
संदर्भ में पढ़ें४८६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां ननु यद् बुद्धिमद्धेतुकं तच्छरीरहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद्बुद्धिमद्धेतुकमपि न भवति इति विपर्ययनियमोऽपि स्यात् , तथाच पक्षधर्म- ताऽपि लभ्यते इति चेत्। न गगनादेः सपक्षभागस्यापि सम्भवात् केवलव्यतिरे- कित्वानुपपत्तेः। अन्वये तु विशेषणासामर्थ्यात्। हेतुव्यावृत्तिमात्रमेव हि तत्र कर्त्तृव्यावृत्तिव्याप्तं, न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम्। व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्योऽतिप्रसङ्गात् ॥ एतेन तद्व्यापकरहितत्वादिति सामान्योपसंहारस्याऽसिद्धत्वं वेदितव्यम्। न हि यद्व्यावृत्तिर्यदभावेऽन्वयव्यतिरेकाभ्यामुपसंहर्त्तुमशक्या, तत् तस्य व्यापकं प्रकाशः। नन्विति । इदं केवलव्यतिरेकितया साधनम् अन्वयव्याप्तिसत्त्वेऽपि व्यतिरेकिण्याप्तिवलेन, अन्वयव्यतिरेकितया वा ? । तत्र नाय इत्याह गगनादेरिति । असत्सपक्षस्यैव केवलव्यतिरे- कित्वादित्यर्थः। शरीररूपविशेषणवैयर्थ्येनान्वयव्याप्त्यभावाद्यतिरेकेऽपि तदभावान्वय इत्याह अन्वये त्विति । व्याप्यत्वासिद्धिं परिहरतश्च स्वरूपासिद्धिप्रसङ्ग इति भावः । केवलायाश्च पक्षध- र्मताया असाधकत्वाद्याप्यभावे साऽप्यनुपयोगिनीत्याह व्याप्तश्चेति । ननु ज्ञानमनित्यमेवेत्यादिप्राथमिकव्याप्तिप्रत्यक्षविरोधाद् नाऽशरीरनित्यज्ञानादिकर्तृसिद्धिः, अतएव शरीरमनित्यमेवेति नियमान्न कर्तृत्वेन नित्यातीन्द्रियतत्सिद्धिरीश्वरे । न चाप्रयोजकत्वम् । निरुपाधित्वात् । कार्यत्वसकर्तृकत्वयोरपि यदि निरुपाधित्वमस्ति, तदा तुल्यबलत्वेन ज्ञातात् सत्प्र- तिपक्षवत् प्रतिबन्धोऽस्तु । मैवम् । पक्षधर्मताबलाद् नित्यज्ञानादिसिद्धौ ज्ञानमनित्यमेवेत्यादिन्या- प्तिग्रहस्याऽप्रतिबन्धकत्वात् । अस्मदादिज्ञानमात्रविषयत्वेन तत्प्राथमिकव्याप्तिप्रत्यक्षस्य तस्य भिन्न- विषयत्वात् । एकविषयकविरोधिज्ञानस्यैव प्रतिबन्धकत्वात् । नित्यत्वानित्यत्वयोरेकजातीये द्रव्येऽ- विरोधात् । न च ज्ञानत्वं नित्यावृत्त्येवेति ज्ञातमतस्तन्न नित्यवृत्तित्वज्ञानमिति वाच्यम् । उभय- सिद्धनित्यावृत्तित्वज्ञानेऽप्यतिरिक्त नित्यवृत्तित्वज्ञातावविरोधात् । अत एव कर्त्ता शरीर्येवेत्याद्यपि ज्ञानं प्रतिबन्धकमपास्तम् । ननु क्षित्याद्यकर्तृकं कर्तृव्यापकरहितत्वादित्यत्र नोक्तदोष इत्यऽत आह एतेनेति । दृष्टान्ते विशेषणासामर्थ्यप्रदर्शनेन सामान्यतः कर्तृव्यापकरहितत्वमसिद्धम् । शरीरजन्यत्वादेश्च रहितत्व- मसमर्थविशेषणतयेत्यर्थः। तदेव स्पष्टयति न हीति । यद्व्यावृत्तिः, शरीरव्यावृत्तिः । यद्- भावे कर्त्रभावे । तच्छरीरं तस्य कर्तुर्व्यापकमित्यर्थः। स एवं तस्य व्यापको यस्याभावे साध्ये दृष्टान्ते अन्वयव्यतिरेकाभ्यां पक्षे उपसंहर्तुं शक्यते, यथा वहेरभावो धूमाभावे । प्रकृते चान्व- यिनि दृष्टान्ते विशेषणासामर्थ्यं तदप्रयोजकत्वस्योक्तत्वाद्यतिरेकोऽप्यप्रयोजक इति भावः । ननु किं विशेषणस्यासामर्थ्यं ? न तावन्निष्प्रयोजनकत्वं, व्याप्तिग्रहोपयुक्तविशेषणस्येव पक्षध- प्रकाशिका। ननु कर्तृव्यापकरहितत्वादित्येवं प्रयोगे व्यर्थविशेषणतेत्यत आह सामान्यत इति । असिद्धमप्रसिद्धं तादृशप्रमेयत्वस्य सत्त्वात् । न च यत्किञ्चित्कर्तृव्यापकरहितत्वं हेतुः तथा सति स्वरूपासिद्धिरित्यर्थः । असमर्थविशेषणतयेति असिद्धमित्यनुषज्यते, तदर्थश्च व्याप्यत्वा- सिद्धत्वम् । विशिष्टे व्याप्तिरित्थस्य विशेषणविशेष्ययोरेकैव व्याप्तिर्व्यासज्यवृत्तिरिति वार्थः । मकरन्दः। ननु कर्तृव्यापकरहितत्वादित्यत्र कुतो विशेषणासामर्थ्यमित्यत आह सामान्यत इति । अस- मर्थविशेषणतयेति असिद्धमित्यनुषज्यते । शरीरजन्यत्वाश्रयमात्रप्रतियोगिकयावदन्योन्याभाव- हेतुत्वे वैयर्थ्येऽपि शरीरजन्यत्वात्यन्ताभावेऽखण्डे न वैयर्थ्यं, शरीरं विना तस्याज्ञानेन तत्र व्याप्ति-