न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 517, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४८५ न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः ॥ सिद्ध्यसिद्ध्योर्विरोधो नो नासिद्धिर्निबन्धना ॥ २ ॥ तथाहि—अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति, कस्तेषामाशयः ? । किमीश्वरं पक्षयित्वा कर्तृत्वान्छरीरित्वं, ततः शरीरव्यावृत्तेरकत्तृत्वम् । अथ क्षित्यादिक- मेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृ कत्वम् । यद्वा शरीराऽजन्यत्वादकार्यत्वम्, परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति । तत्र प्रथमद्वितीययोराश्र- यासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधाः। तृतीये तु व्याप्तौ सत्यां चेदमनिष्टम्, असत्यान्तु न प्रसङ्गः । चतुर्थे बाधानैकान्तिकौ । पञ्चमे त्वसमर्थविशेषणत्वम् । षष्ठेऽपि नागृह्यमाणविशेषया व्याप्त्या बाधः । न चागृह्यमाणविशेषव्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् । अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः। कर्त्ता शरीरी, विपरीतो न कर्त्तेति चानयोस्तद्विरहः ॥
प्रकाशः । तद्विरोधमात्रं स्यात् , यद्वा व्याप्तिपक्षधर्मतोपस्थाप्यविशेषयोर्विरोधेन विशेषविरोधः स्यादित्यत आह सिद्ध्यसिद्धयोरिति ॥ आद्ये कार्यत्वस्य पक्षधर्मत्वसिद्धौ कर्तृत्वादेश्च तदसिद्धौ सत्यां तुल्यबलत्वाभावेन विरोधाभावादित्यर्थः । अन्त्ये अभिमतविशेषसिद्धयसिद्धयोः सहोपलम्भविरोधि- विशेषानुपलम्भाभ्यां विरोधस्य प्रत्येतुमशक्यत्वादित्यर्थः । सन्दिग्धव्यतिरेकित्वाप्रतीतव्याप्ति- कत्वोपाधिभिरसिद्धिरपि नेत्याह नासिद्धिरिति ॥ विपक्षबाधकोपदर्शनन्यासिद्धानापायोपाधि- विरहप्रतिपादनेरसिद्धि निबन्धनस्याभावादित्यर्थः ॥ कारिकार्थं सङ्कलयितुं पराभिप्रायं विकल्पयति तथाहीति ॥ सत्तयानुपलब्धेः प्रागेव निरासाज्ज्ञातायास्तथात्वं वाच्यम् , तत्र पक्षांदिविभागं पृच्छति किमीश्वरमिति ॥ कर्तृत्वा- दिति ॥ तथा चाशरीरस्य कार्यनिर्माणशक्त्यभावतापत्तिरिति भावः ॥ तत एव-शरीराजन्यत्वादि- त्यर्थः ॥ परव्याप्तिः-कार्यत्वसकर्तृकत्वव्याप्तिः ॥ तत्रेति ॥ ईश्वरस्य धर्मिणः प्रमाणेन ज्ञानाज्ञानयो- र्धर्मिपाहकमानबाधाश्रयासिद्धी । ईश्वरद्वेषिणः परस्य कर्तृत्वात् तच्छरीरित्वस्वीकारेऽपसिद्धान्तः। ईश्वरः शरीरकर्त्ता वेत्यत्र माता वन्ध्येतिवत् प्रतिज्ञापदयोर्व्याघातः । ईश्वरपदस्याशरीरकर्तृवाचक- त्वादित्यर्थः । कार्यत्वशरीरिकर्तृत्वयोर्व्याप्तिवलात् क्षित्यादौ शरीरिकर्तृसाधनेऽपि नाऽशरीरिकर्तृ- निरास इत्याह तृतीय इति ॥ क्षित्यादौ शरीरिणः कर्तुर्याग्याऽनुपलम्भेन बाध इति भावः । वस्तुतः शरीरकर्त्रभावेऽप्यङ्कुरादौ कार्यत्वाव्यभिचारेण न व्याप्तिरित्याहं असत्यान्विति ॥ क्षित्यादेः सर्वस्य पक्षत्वे बाधः, कस्यचिदपक्षत्वे तत्रानैकान्तः, प्रमितसाध्याऽभाववद्धर्मिकस्यैव बाधत्वादित्याह चतुर्थ इति । जन्यत्वमात्रस्यैव गमकत्वे शरीरं व्यर्थं व्याप्यतानवच्छेदकत्व- रूपम् । शरीरजन्यत्वाभावादिति नञः प्रतियोगिविशेषणतायामखण्डस्यैव हेतुतायामजन्यत्वमेवोपा- धिरिति न साधनं साध्यव्याप्यमित्याह पञ्चमे त्विति । स्तम्भनं बाधः प्रतिरोधो वा न सम्भ- वतीति क्रमेणाह षष्ठेऽपीति । विशेषः पक्षधर्मता । अस्ति चेति, चो हेतौ । यस्मादस्मद्व्याप्तौ पक्षधर्मतास्ति, त्वदीयव्याप्तौ च सा नास्ति धर्म्यज्ञानात् । ज्ञाने वा धर्मिपाहकमानबाधः । केवल- व्याप्तेश्चासाधकत्वमित्यर्थः । ननु क्षित्यादिकं न बुद्धिमद्धेतुकं शरीराजन्यत्वादित्यत्र यद् बुद्धिमद्धेतुकं तच्छरीरजन्यमिति व्यतिरेकव्याप्तौ पक्षधर्मतालाभः स्यादित्यत आह—