न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 53, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] ईश्वरनिरूपणाक्षेपसमाधानम् । २१ प्रकाशः । ग्रन्थस्य परार्थानुमानरूपत्वाच्च । यथा अग्निहोत्रं जुहोति, यवागूं पचतीत्यत्राऽर्थेन क्रमेण शाब्दः क्रमो लङ्घ्यते, तथा "श्रोतव्यो मन्तव्य" इत्यत्रापि मननानन्तरं श्रवणे श्रुतेस्तात्पर्यमिति चेद् । न । दृष्टान्ते, होमे द्रव्यान्तरसाधनत्वं यवागूपाकस्यादृष्टार्थत्वञ्च कल्प्यमिति गौरवात्तथाऽस्तु, प्रकृते त्वनुपपत्त्यभावः , श्रवणानन्तरं मननस्याऽन्यथोपपाद्यत्वात् , श्रवणानन्तरागतेति ग्रन्थ विरोधाच्च । "श्रोतव्यः श्रुतिवाक्येभ्य" इति बहुवचनं, कपिञ्जलानालभेतेतिवत्, त्रित्वपरम्, अतो रूपान्तरेण मननमविरुद्धमिति चेन्न । "श्रोतव्यो मन्तव्य" इति सामानाधिकरण्यश्रुतेर्लाघवाच्च येनैव प्रकाशिका । सिद्धसाधनं दोष इति ब्रूयात्तत्राह-ग्रन्थस्येति । शाब्दत्वं पाठकत्वं न तु शब्दप्रतिपाद्यत्वं "अध्व- र्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति" इतिवत्तथादृशशब्दाभावात् । ननु श्रवणानन्तरं मननासम्भव एवानुपपत्तिरत आह । श्रवणानन्तरमिति । अन्यथेति । सिपाधयिषयेत्यर्थः । नन्वेवं सिद्धसाध- नात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह-श्रवणेति । कपिञ्जलानालभेतेतीति । यावत्कपिञ्जलानामालम्भनाशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघवाद्बहुवचनं तत्र यथा त्रित्व- परं तथात्रापीत्यर्थः । धर्मिमात्रमादाय सामानाधिकरण्यं स्यादत आह । लाघवाच्चेति । मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवान्वयात् , अन्यथाऽनुपस्थितकल्पनागौरवादिति भावः । ननु सिद्धसाधनभिया प्रामाणिकं गौरवमादर्त्तव्यं रूपान्तरेण मननसंभवादित्यत आह । मकरन्दः । भयत्र तुल्यत्वादित्यर्थः । ननु नोक्तरीत्या सिद्धसाधनस्य दोषत्वं, किन्त्वर्थान्तरतया , तच्च शाब्ददोषतया स्वार्थानुमाने न दोष इति यदि ब्रूयात् तत्राह । ग्रन्थस्येति । क्रमे शाब्दत्वं, पाठकत्वं न तु शब्दप्रतिपाद्यत्वम् , क्रमप्रतिपादकाभावात् । ननु सिद्धसाधनान्मननानुपपत्तिरेवे- त्यत आह । श्रवणेति । अन्यथेति । सिपाधयिषयेत्यर्थः । ननु सिद्धसाधनात् कथमनुमि- तिरिति स्वपक्षः साधु समर्थित इत्यरुचेराह । श्रवणेति । कपिञ्जलेति । यावत्परत्वासम्भवेन कतिपयपरतया बहुवचनस्य प्रथमोपस्थितत्रित्वपरत्वं यथा, तथा प्रकृतेऽपीत्यर्थः । धर्मिमात्रवि- षतयापि सामानाधिकरण्यसम्भव इत्यरुचेराह । लाघवाच्चेति । श्रवणप्रकारस्योपस्थितत्वे- नानुत्पस्थितप्रकारकल्पनायां गौरवादिति भावः । ननु सिद्धसाधनादेव प्रामाणिकं गौरवं न्याय्य- टिप्पणी । घटकत्वेन दूषकत्व उभयत्राप्यविशेषाद्विनिगमकाभावादित्यर्थः । ननु पक्षताया अनुमितौ स्वार्थे हे- तुतायाम्मानाभावः यावत्परामर्षमनुमितिर्जायत एवेत्युद्धतं प्रत्याह । ग्रन्थस्य परार्थानुमाने- ति । तस्य समस्तरूपोपपन्नलिङ्गप्रतिपादकवाक्यत्वेन परार्थानुमानत्वं, परार्थानुमाने चावश्यं सिद्ध- साधनं दोषः, सन्दिग्ध एव हेत्वादेराकाङ्क्षितत्वादिति भावः । श्रवणानन्तरं मननस्यान्थेथेति । सिपाधयिषयेत्यर्थः । अन्यथोपपाद्यत्वादिति । तथा चोक्तकल्पनासम्भवादिति शेषः । ननु सिद्धसाधनात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह । श्रवणानन्तरागतेति । कपि- ञ्जलानालभेततिवदिति । यथा यावदालम्भस्याशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघ- वाद्बहुवचनस्य त्रित्वपरत्वन्तथेत्यर्थः । ननु धर्मिमात्रमादाय सामानाधिकरण्यं स्यादित्यत आह । लाघवाच्च । येनैव रूपेण श्रवणमिति । मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवा- न्वयात् , अन्यथानुत्पस्थितकल्पने गौरवादिति भावः । ननु सिद्धसाधनभिया गौरवं प्रामाणिकमिति