न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 54, कुल 608 में से
संदर्भ में पढ़ें२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [३ कारिकावतरणिकाव्याख्यायां प्रकाशः । रूपेण श्रवणं तेनैव रूपेण मननस्योचितत्वात् । न वा रूपान्तरेण श्रुतस्य रूपान्तरेण मननेऽश्रद्धामलक्षालनं शास्त्रव्यापारो निर्वहति, श्रुतस्यामननात् । अत एव धर्मस्वरूपे सन्देहाभावेऽपि क्षितिकर्तृत्वा- दौ धर्मे सन्देहात्तत्रानुमेत्यपास्तम् । तथापि धर्मिणि सन्देहानुपपादनाच्च । न वा तद्रूपमस्तीश्वरे, यन्न वेदे श्रुतमस्ति । तथा च “श्रोतव्यः श्रुतिवाक्येभ्य” इत्यत्रासङ्कोचादीश्वरपरसर्ववाक्येभ्य एव श्रवणे सति कथं मननम् । एतेन भगवति भवे सन्देह एव किं निरूपणीयमिति, कुतः = पृथिवीतः कर्तृजन्यत्वसंशयात्तत्र संशय एवेत्यपि योजनामात्रमपास्तम् । यत्तु श्रुतेऽपि भगवति श्रुतेः प्रामाण्यसन्देहात्तत्प्रतिपादितेऽपीश्वरे सन्देह इति । तन्न । “श्रोतव्यो मन्तव्य” इति प्रकाशिका । न वेति । अत एवेति । अन्यथा मनने शास्त्रव्यापारानिर्वाहादेवेत्यर्थः । तथापीति । तथाच परमा- त्मा निरूप्यत इत्यसङ्गतमेवेति भावः । ननु संशयकोटित्वं धर्मस्यैव, धर्मिणि तु विशेष्यतया स एव संशयोऽनुप्रवर्त्तक इत्यत आह । न वेति । ननु बहुवचनस्य त्रित्वपरत्वे तथापि संशयासङ्गतिरेवेत्यत आह । तथा चेति । भवेदेवं यदि कपिञ्जलन्यायावतारोऽत्र स्यात् स च सामान्यान्वयानुपपत्ति- मूलकः, न चात्रेति भावः । एतेनेति । धर्मे धर्मिणि च संशयाभावेनेत्यर्थः । सन्देह एवेति । अत्र सन्देहपदं सप्तम्यन्तम् तथा च सन्देहे किंनिरूपणीयमिति लोकोक्तेरपि सन्देहोऽस्त्येव कुतः पृथिवीत इति योजना । योजनामात्रमिदं न तु संशयोपपादकं किञ्चिदुक्तमिति मात्रार्थ इति व्याख्येति मिश्राः । कुतः कुत इति पाठपक्षे तु सन्देहोऽस्त्येव, किंनिरूपणीयमिति कुतः, अत्र हेतुः कुतः पृथिवीत इति योजनामात्रम्, मात्रपदार्थश्च तादृशपदद्वयाभावः पूर्ववच्चेति भावः । श्रोतव्य इति प्रामाण्यसंशयाहितो धर्मिणि संशयो वर्त्तत एवेति स एवानुमानाङ्गं स्यादतो न विरोध मकरन्दः । मित्यत आह । न वेति । अत एवेति । श्रुतस्यामनने उक्तशास्त्रव्यापारानिर्वाहादेवेत्यर्थः । तथापीति । तथा च परमात्मा निरूप्यत इत्यसङ्गतमेवेति भावः । ननूक्तधर्मिनिरूपणस्यैव पक्षीभूतेश्वरविषयतां विनाऽसम्भवान्नासङ्गतिरित्यत आह । न वेति । तथा च धर्मेऽपि न सन्देह इति भावः । तथा चेति । कपिञ्जले यावत्परत्वासम्भववदत्रासम्भवाभावेन त्रित्वपरत्वाभावादिति भावः । एतेनेति । उक्तरीत्या धर्मिणि धर्मे वा सन्देहाभावेनेत्यर्थः । ननु कथं सन्देह इत्यत आह । कुत इति । योजनामात्रमिति । अत्र मात्रपदेनापदार्थव्याख्यानं सूचितम् । मूले, इति कुत इति पदाभावाद् योजना कृता, न तु संशयोपपादकं किञ्चिदुक्तमिति तेन सूचितमि- त्यन्ये । श्रोतव्य इति । ननु संशयस्योभयत्र तुल्यतया श्रुतिबलेन ईश्वरविषयकमेव मननं टिप्पणी । रूपान्तरेण मननं स्यादित्यत आह । न च रूपान्तरेण श्रुतस्येति । न वेत्यर्थः । तेन पूर्वहेतोरुक्त- युक्त्याऽसम्भवेऽपि न क्षतिरन्यथा समुच्चयार्थत्वे तत्स्यादिति भावः । अत एव धर्मिणीति । रूपान्तरेण मनने शास्त्रव्यापारानिर्वाहादेवेत्यर्थः । तथापि धर्मिणि सन्देहानुपपादनादिति । तथा च परमात्मा निरूप्यत इति ग्रन्थासङ्गतिः । तत्प्रयोजकस्य परमात्मसंशयस्याभावादिति भावः । ननु तन्निरूपणमवान्तरधर्मप्रकारेण तत्प्रतिपत्त्यनुकूलव्यापारः । तत्र धर्मसंशय एवोपयुज्यते सर्वत्र धर्मस्यैव कोटित्वेन धर्मिणो विशेष्यतयैव सन्दिग्धत्वात् कर्तृत्वादिसन्देहस्यापि तथात्वादित्यत आह । न च तद्रूपमस्तीश्वर इति । श्रोतव्यः श्रुतिवाक्येभ्य इत्यत्रासङ्कोचादिति । कपि ञ्जलन्यायेन बहुवचनस्य त्रित्वाद्यपरत्वात् सामान्यान्वयानुपपत्तेर्वर्ज्याया अत्राभावादिति भावः । एतेने-