भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 532, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 532

५०० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यांयो तर्काभासतयाऽन्येषां तर्कशुद्धिरदूषणम् । अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् ॥ ३ ॥ कारकव्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः । चेतनाचेतनव्यापारयोर्हेतुक- र्तृभावावधारणात्कारणान्तराभावे इव कर्त्रभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपि कारणत्वात् । यस्त्वह—प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः । प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात्, धूमाग्निवत्, कम्प- मारुतवच्च । न हि धूमः कार्योऽनलस्येति उदर्थस्यापि, न हि शाखाकम्पो मात- रिश्वन इति स्तिमितस्यापि स्यात्, किन्तु भौमस्पृश्ययोरेव । तथेहापि शरीरवत एव कारणत्वमवगन्तुमुचितं, नान्यस्येति । प्रकाश । तर्कपरिशुद्धिश्च यदि प्रतिकूलतर्कप्रतिघातस्तदा तेषां यदि ईश्वरः कर्त्ता स्याच्छरीरी स्या- दित्यादीनां तर्काणामीश्वरसिद्धयसिद्धिभ्यां व्याघातेनाभासत्वान्न दूषणत्वमित्याह- तर्काभास- तयेति । अथानुकूलतर्काभावरूपा सा ?, तत्राह अनुकूलस्त्विति । कर्तुः कारणस्याभावे कार्यं न स्यादित्येवानुकूलस्तर्क इत्यर्थः ॥ ननु कर्त्रभावेऽपि कारणान्तरव्यापारात् कार्यं स्यादित्यत आह- कारकव्यापारेति । कार- कान्तरव्यापारं प्रति चेतनव्यापारस्य हेतुत्वात् कर्त्रभावे सोऽपि न स्यादित्यर्थः । कारणान्तरव्या- पारसत्त्वेऽपि कर्त्रभावे कार्यं न स्यात् यत्किञ्चित्कारणाभावस्य कार्यानुत्पत्तिव्याप्यत्वादित्याह-कार- णान्तरेति । सौगतमाह यस्त्विति । कृतिमात्रकार्यमात्रयोर्नान्वयव्यतिरेकाभ्यां व्याप्तिग्रहः, तन्मते व्यापककृतेः सत्त्वेनार्योग्यकृतेर्व्यतिरेकाऽनिरूपणात् । यदि च कृतिमात्रेण व्याप्तिग्रहाददृश्यकर्तृ- सिद्धिः, तदा वह्निमात्रव्याप्यधूमाददृश्यजाठर्यादिवह्निरपि सिद्ध्येत् । शाखाकम्पे चायोग्यस्यापि स्तिमितवायोः कारणताग्रहश्च स्यादित्यर्थः । प्रकाशिका । तदर्थतो तत्सिद्धिरिति भावः । न चैवं घटपटगोचरज्ञानेन पटेष्टसाधनतानवगाहिना जनितायां घटमा- त्रगोचरेच्छायां पटगोचरतापतिरिति वाच्यम् । तज्ज्ञानस्य घटांश एवेच्छाविषयतात्मकत्वात् ज्ञानरूप- संबन्धस्य फलवलकल्पनीयत्वादिति । अयोग्यस्यापीति । अयोग्यत्वम् = उद्भूतस्पर्शशून्य- मकरन्दः । अयोग्यस्यापीति । उद्भूतस्पर्शवेगशून्यवायोरित्यर्थः । आलोकात्मकस्येति । आलोक- टिप्पणी । प्रयत्नपूर्वकत्वसाधने कार्यबुद्धेरुपाधित्वं प्रतिक्षिपति कार्यबुद्धीति । तर्काभासतयेति । अन्येषाम् क्षित्यादिकं यदि सकर्तृकं स्यात् शरीरजन्यं स्यात्, यदि बुद्धिमत्पूर्वकं स्यात् अनित्ययत्नजन्यं स्यात्, यदि नित्यप्रयत्नजन्यं स्यात् बुद्धीच्छाजन्यं न स्यात् ईश्वरो यदि कर्ता स्यात् शरीरी स्यादिति तर्का- णामाभासत्वात्प्रतिकूलतर्केण या क्षितिः सकर्तृका कार्यत्वादित्यनुमानेऽशुद्धिरीश्वरास्तित्वनिराकरणरू- पोद्भाव्यते सा न दूषणम् तत्र हेतुमाह । मदीये त्वनुमाने क्षित्यादिकं सकर्तृकं न स्यात् कार्यमेव न स्यात् कार्यलोपः स्यात् इत्यनुकूलस्तर्को भूषणमस्तीत्यर्थः । दृश्ययोरेव कार्यकारणभावो नादृश्ययोः यतोऽयं प्रत्यक्षानुपलम्भाभ्याम् 'तत्सत्त्वे तत्सत्त्वं तदभावे तदभाव' इत्यन्वयव्यतिरेकाभ्याम् अवधार्यते न चादृश्ययोरेतौ सम्भवत इति सौगतमतमाह यस्त्विथ-

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक) · पृष्ठ 532, कुल 608 में से · BharatKosha