न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 539, कुल 608 में से
संदर्भ में पढ़ेंसंहरणात् खल्वपि । ब्रह्माण्डादिद्व्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विना- श्यत्वात् पाठ्यमानपटवत् । अत्राप्यागमः— एष सर्वाणि भूतानि समभिव्याप्य मूर्त्तिभिः । जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत् ॥ सर्वभूतानि कौन्तेय ! प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ इत्यादि । एतेन रौद्रमंशं प्रतिपादयन्तोऽप्यागमा व्याख्याताः । पदात् खल्वपि— कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः । विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत् ॥ ५ ॥ प्रकाशः। काशपत्रस्थितिवत् सा स्यादित्यपास्तम् । अनुपाधित्वादिति । साधनव्यापकत्वादित्यर्थः । प्राङ्न्यायेन, विशेषश्च विशेषवानिति न्यायेनेत्यर्थः । किमिदं शरीरत्वं यत्साक्षात् प्रयत्नाधिष्ठितत्वे परमाणूनां प्रसज्यते इत्यादिना वेत्यर्थः । धृत्यादेरित्यादिपदसंग्राह्यमाह संहरणादिति । ब्रह्माण्डादीति । ब्रह्माण्डादिकं स्वजनकप्रयत्नसमानकालीनचरमकारणनाशप्रतियोगीति साध्यार्थः । सर्वभूतानीति । परमाणुमात्रावशिष्टानीत्यर्थः । ननु नाशविशेष एव प्रयत्नपूर्वोकोऽन्यस्त्वन्यथाऽपि भविष्यतीत्याशङ्क्य वृत्तसमाधानं कुर्वाण एव ग्रन्थलाघवाय वर्त्तिष्यमाणेऽप्यऽतिदिशति— कार्यत्वादिति । यथा धृतिविनाशयोः कार्यकारणभावो विपक्षे बाधको निरुपाधित्वग्राहकः । तथा पदस्याऽपि स एव तद्ग्राहक इत्यर्थः । न चादिमत्त्वमुपाधिः । प्रलये विच्छेदादनादित्वाभावेन साधनव्यापकत्वादित्याह विच्छेदेनेति । प्रत्ययादिहेतुष्वपि पूर्ववत् कार्यकारणभाव एव विपक्षबाधक इत्यर्थः । प्रकाशिका । लीनं चरमकारणं यस्यैवंभूतो योः नाशः तत्प्रतियोगीत्यर्थः। स्वपदं ध्वंसपरं, साध्यप्रसिद्धिरूहास्मदा- दिप्रयत्ने, तन्नाशचरमकारणस्य तद्गोचरसाक्षात्कारस्य विषयीभूतप्रयत्नसमानकालत्वात् तस्य च प्रयत्नस्य प्रतियोगिता नाशकारणत्वात् संसारिप्रयत्नसमानकालीनं कालादिकमादायार्थान्तरं तत्प्र- यत्नस्यापि अदृष्टद्वारा नाशकत्वादिति । चरमेति । कालादिसमानकालीनं चरमकारणमादायार्थान्तर- मिति प्रयत्नेति । उदासीनप्रयत्नसिद्धावप्रयोजकत्वमिति जनकेति । पाठादिश्च पक्षसम एवेति मकरन्दः। चरमकारणं यस्य नाशस्य तत्प्रतियोगीत्यर्थः । अदृष्टद्वारकप्रयत्नस्यापि कालादिकारणसमानकाली- नतयाऽर्थान्तरतादवस्थ्यमत उक्तं चरमेति । कालीनादिसमानकालीनत्वमादायार्थान्तरत्वमत आ- ह प्रयत्नेति । उदासीनप्रयत्नसिद्धावर्थान्तरमत उक्तं स्वजनकेति । केचित्तु उदासीनसिद्धावप्र- योजकत्वमिति विपक्षबाधकसूचनाय तदित्याहुः । स्वपदं चरमकारणपरं ध्वंसपरं वा । न चैवं टिप्पणी ननु व्यवहारस्यानादित्वात्पूर्वपूर्वकुलालादिप्रयुक्त एव सर्वो व्यवहारः सेत्स्यतीति किमीश्वरेणेत्यत आह विच्छेदेनेति । प्रलये विच्छेदेन व्यवहारस्य नानादित्वम् । एवं वक्ष्यमाणवेदजन्यधीप्रामा- ण्य्यरूपप्रत्ययादिहेतोः आदिपदग्राह्यवक्ष्यमाणश्रुतिसंख्याविशेषयोरपि पूर्ववत् कार्यत्वादेव निरुपा- धित्वम्, अनुकूलतर्कवत्त्वं बोध्यम् ।