न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 540, कुल 608 में से
संदर्भ में पढ़ें५०८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकान्याख्यायां पदशब्देनात्र पद्यते गम्यते व्यवहारोऽङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते। अतोऽपीश्वरसिद्धिः। तथाहि-यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दाऽऽदीनां, वाग्व्यवहारश्च व्यक्तवाचां, लिपिशक्तक्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरु- षविश्रान्तो व्यवहारत्वात्, निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्र- मैत्रादिपदवत्, पत्राक्षरवत्, पाणिनोयवर्णानिर्देशक्रमवच्चेति। आदिमान् व्यवहार एवम्, अनन्तवनादिरन्यथाऽपि भविष्यतीति चेन्न। तद- सिद्धेः। आदिमत्तामेव साधयितुमयमारम्भः। न चैवं संसारस्यानादित्वभङ्गप्र- सङ्गः। तथापि तस्याविरोधात्। न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्य- नादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोऽप्यादिमानिति। अस्मदवर्- गदर्शी कश्चिदेवात्र मूलमिति चेन्न। तेनाऽशक्यत्वात्, कल्पादावादर्शाभासस्या- प्यसिद्धेः। साधितौ च सर्गप्रलयौ। ननु व्यवहारयितुर्वृद्धः शरीरी समधिगतो, न च ईश्वरस्तथा, तत्कथमेवं स्यात्। न। शरीरान्वयव्यतिरेकाऽनुविधायिनि कार्ये तस्यापितद्वत्त्वात्। गृह्णाति हि ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति। अत्राप्यागमः- पिताऽहमस्य जगतो माता धाता पितामहः। तथा, यदि ह्यहं न वर्त्तेयं जातु कर्मण्यतन्द्रितः। मम वर्त्मानुवर्त्तन्ते मनुष्याः पार्थ सर्वशः॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्॥ इति॥ एतेन 'नमः कुलालेभ्यः कर्मारेभ्य' इत्यादि यजूंषि चोद्धव्यानि। प्रकाशः। व्यक्तवाचो मनुष्याः। स्वतन्त्रेति। तज्जातीयव्यवहारानुपजीवित्वं पुरुषस्य स्वातन्त्र्यम्। साध्येषु क्रमेण दृष्टान्ताः-निपुणेत्यादि। आदिमानिति। सादिव्यवहारत्वमुपाधिरित्यर्थः। अन्यथाऽपीति। स्वतन्त्रपुरुषं विनाऽपीत्यर्थः। तथापीति। पूर्वपूर्वसर्गेऽपि तज्जातीयव्यवहार- स्येश्वरपूर्वकत्वादित्यनादित्वं न विरुद्ध्यते इत्यर्थः। इदानीन्तनापूर्वव्यवहारस्य सादित्वेऽपि न भवस्यानादित्वं हीयते इत्याह न हीति। तदनादित्वे इत्यत्रापि न हीत्यनुषज्यते। आदर्शेति। यद्व्यवहारं दृष्ट्वा व्यवह्रियते, सोऽपि नास्तीत्यर्थः। शरीरान्वयेति। ईश्वरस्यादृष्टाभावेऽपि तच्छरीरसाध्यहेतुकास्मदादिभोगसम्पादकाऽदृष्टादेवेश्वरस्य शरीरोत्पत्तिरिति भावः। पिताऽहम- स्येति। अस्य जगतोऽहमेव पित्रादिरित्यर्थः। यदि ह्याहमिति। यदि ह्यहं न वर्त्तेयं तदा लोक्यन्ते इति लोकाः प्रामाणिकव्यवहारा उत्सीदेयुरिति व्यवहितेनान्वयः। अत्र हेतुः-मम वर्त्मेति। एतेन-घटादिव्यवहारस्य स्वतन्त्रपुरुषपूर्वकत्वव्युत्पादनेन। कुलालादिदेहवत ईश्नरस्य तथाभावादित्यर्थः। प्रकाशिका। न तेन व्यभिचारः। पित्रादिरिति। व्यवहारपितृत्वादिति भावः। मूले कारणपदं व्यर्थं अदृष्टादिजत्व- मकरन्दः। साध्याप्रसिद्धिः, अस्मदादिप्रयत्नस्यैव दृष्टान्तत्वात्। तन्नाशचरमकारणस्य स्वविषयकसाक्षात्कारस्य स्वजनकप्रयत्नेन विषयीभूतेन समानकालत्वात्। यत्ध्वंसकारणयत्नसमानकालीनस्वसाक्षात्कारहेतुक- नाशप्रतियोगित्वाच्च। घटादिश्च पक्षसम इति न तेषु व्यभिचारः। पित्रादिरिति। व्यवहारयितृत्वादिति भावः। ननु मूले कारणपदवैयर्थ्यं, अदृष्टादिजन्यत्वमा-