न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 543, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरसाधनम् । ५२१
अन्वयतो वा। वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद्, अस्मदादिवाक्यवत् । अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न। असिद्धेः । अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःस्रुताः । प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते ॥ वेदान्तकृद्वेदविदेव चाहम्, इति स्मृतेः । तस्माद्, 'यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे' इत्यादिश्रुतिपाठकस्मृतेश्च ।
प्रकाशः । तस्य वेदनिरूप्यत्वात् । नापि महाजनानां वेदाकारानुगतव्यवहाराद्वेदत्वं जातिः । देवदत्तीयत्वानुमा- पकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात् । नापि स्वर्गकामादिशब्दः । स्मृत्यादौ तथात्वात् । उच्यते । शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दाजन्य- वाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम् । ईश्वरप्रमाया अजन्यत्वात् । वेदार्थस्यानुमानादिविषयत्वे- ऽप्यनुमानादेर्वेदोषजीवकत्वात् । स्मृत्यादीनां वेदसमानार्थत्वेऽपि शब्दजन्यधीजन्यत्वात् । वेदार्थं प्रतीत्य तत्प्रणयनात् । वाक्यादिति सङ्गृहीतं हेतुं व्याचष्टे । अन्वयतो वेति । ननु किं पौरुषेयत्वम् ? । न तदर्थ- धीजन्यत्वं, तदुच्चारणधीजन्यत्वं वा । अध्यापकतदुभयजन्यत्वेन सिद्धसाधनात् । नापि स्वतन्त्र- पुरुषप्रणीतत्वम् । इदानीं पठ्यमाने वेदे तदभावात् । न च स्वतन्त्रपुरुषप्रणीतजातीयत्वं साध्यम् । आद्यस्मृत्यादौ व्यभिचारात् । तज्जातीयस्य स्वतन्त्रपुरुषप्रणीतत्वाभावात् । नाप्यर्थं प्रतीत्य तदर्थ- परतया प्रतिसन्धीयमानपदत्वं पौरुषेयत्वम् । अर्थज्ञानवताऽध्यापकेन सिद्धसाधनात् । अत्राहुः—सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं पौरुषेयत्वम् । आद्यस्मृतावपि तज्जातीयत्वान्न व्यभिचारः । यद्वा वेदत्वं सजातीयोच्चारणानपेक्षोच्चरितवृत्ति प्रमाणत्वावच्छेदकवाक्यधर्म- त्वात् । स्मृतित्ववत् । यज्ञादिति । यज्ञो विष्णुः । ननु वेदे कर्तृस्मरणमर्थवादतया न मानम्, कार्यान्वितज्ञानज-
प्रकाशिका । न च शाखासमुदाय इति । स्मृत्यादाविति । आद्यस्मृत्यादावित्यर्थः । एतदपि तज्जातीय- त्वस्य भेदगर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यसङ्गतेः । वस्तुत उच्चारणानपेक्षोच्चारणकर्तृत्वमेव स्वात- न्त्र्यमिति पूर्वपक्षिणः तात्पर्यमिति स्मृतिमात्र एतदभाव इति यथाश्रुत एव ग्रन्थः । अत एव सजातीयपदप्रक्षेपेण सिद्धान्त इति बोध्यम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं यद्यनति- रिक्तवृत्तित्वं तदेदानीन्तनवेदत्वे व्यभिचारः, यदि चान्यूनतिरिक्तवृत्तित्वं तदासिद्धिरिति वाच्यम् ।
मकरन्दः । गर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यगतेरिति ध्येयम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं यद्यन्यूनतिरिक्तवृत्तित्वं तदाऽसिद्धिः, अनतिरिक्तवृत्तित्वमात्रञ्चेत्तदा पठ्यमानवेदत्वादौ व्यभिचार इति वाच्यम् । स्वसमानानुपूर्वीकसकलवाक्यवृत्तिधर्मत्वादित्यत्र तात्पर्यात् । न च विशेष्यभागस्यैव व्याप्यत्वं तावन्मात्रञ्च स्वरूपासिद्धमिति वाच्यम् । अखण्डाभाववदखण्डोपाधौ न व्यर्थत्वमिति मतेनोक्तत्वात् । यन्निष्ठा यन्निरूपितेति न्यायात् । अत एव प्रमेयत्वादेः शास्त्रे हेतुत्वेनाभिधानं प्रयोजनाभावान्नान्यत्र विशेषणप्रक्षेपः । अन्यथा अखण्डाभावे का गतिः । तत्रापि प्रतियोगिको- टावनेकविशेषणप्रक्षेपसंभवात् । अत एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्ति सकल- भोगाधिकरणवृत्तित्वादित्यत्र भोगाधिकरणपदं सार्थकम् । यत्तु व्याप्याश्रयसंकोचकविशेषणस्य व्यर्थत्वं यथा नीलधूमे, न तु विकासकस्य, यन्निष्ठा यन्निरूपिता इति न्यायेन तद्विशेषणं विना