भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 544, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 544

५१२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां : अर्थवादमात्रमिदमिति चेन्न । कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् । तथा चास्म- रणे कालिदासादेरस्मरणात् । एवञ्च कुमारसम्भवादेरकत्तृकत्वप्रसङ्गः । अनैका- न्तिकत्वं वा हेतोः । प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेन्न । प्रणेतारं प्रत्यसिद्धेः ।

प्रकाशः । न कस्यैव पदस्य शक्तिग्रहादित्याह अर्थवादेति । 'आदित्यो वै यूप' इत्यादैरर्थवादस्य मुख्यार्थत्वे बाधकादप्रमाणत्वात् , स्तुतिपरत्वेऽपि प्रकृते बाधकानां निरासादविध्यर्थस्याऽपि मुख्यार्थत्वमेव । अन्यथा यन्न दुःखेन सम्भिन्नमित्यादेरपि स्वाऽर्थपरित्यागप्रसङ्गात् । कालिदासस्मरणेऽपि विध्य- भावात् तत्काव्यस्याप्यकत्तृकत्वप्रसङ्गात् । सकर्तृकत्वे वा तत्रैवायं हेतुरनैकान्त इत्याह कर्तृस्मरणस्येति । प्रमाणान्तरेति । वेदा न पौरुषेयाः प्रमाणान्तरागोचरार्थत्वात्, यन्नैवं तन्नैवम् , यथा मन्वादिवाक्यमित्यर्थः । यदि वेदप्रणोतृप्रमाणान्तरागोचरार्थत्वं हेतुः, तदा तत्प्रणेतुरीश्वरस्य प्रत्यक्षगोचरत्वादसिद्धिः । अथ यस्य कस्यापि प्रमाणान्तरागोचरार्थत्वं, तदाऽनैकान्तिकमित्याह

प्रकाशिका । समानानुपूर्वीकसकलवाक्यवृत्तिधर्म्मत्वस्य हेतुत्वात् । न च विशेषमात्रमेव व्याप्यमिति वाच्यम् । स्वसमानाधिकरणानुपूर्वीसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्याखण्डाभावस्य हेतुत्वात् । अत एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्तिसकलभोगाधिकरणवृत्तित्वादित्यत्रापि भोगसमा- नाधिकरणात्यन्ताभावाप्रतियोगित्वहेतुरित्यन्यत्र विस्तरः । आकस्मिकमहेतुकं न च तत्र बीजसम्भव

मकरन्दः । तन्निष्ठव्याप्तेरग्रहात् । प्रकृते च विशेष्यभागस्य न्यूनवृत्तित्वविशिष्टस्याधिकवृत्तित्वमिति तस्य विकाशकत्वमिति । तत् प्रमादविजृम्भितम् । व्याप्याश्रयस्यैवंविकाशेऽपि व्याप्याश्रयविकाशाभावात् तद्घटितोपाधेरेकत्वात् । न च व्याप्याश्रयविकाशस्यापि न व्यर्थत्वं, तत्र यन्निष्टेत्यादिन्यायस्याप्यसम्भवेन मानाभा- वादिति । अन्यथा धूमालोकान्यतरत्वादावपि व्यर्थविशेषणत्वं न स्यात् । आलोकादिपदस्या- योगोलकादिन्याप्याश्रयविकाशत्वात् । आकस्मिकञ्च तत्र बीजञ्चेति व्याहतमत आह दृष्टेति ।

टिप्पणी । अर्थवादमात्रमिति । अर्थवादस्त्रिधा भवति गुणवादोऽनुवादो भूतार्थवादश्च, तदुक्तम्-विरोधे- गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । तत्र प्रमाणान्तर- विरोधे गुणवादः, यथाऽऽदित्यो यूप इत्यादिः, प्रमाणान्तरावगतार्थबोधकोऽनुवादः, यथाऽग्निर्हिमस्य भेषजमित्यादिः, प्रमाणान्तरेण प्राप्तिविरोधयोरभावे भूतार्थवादः, यथा इन्द्रो वृत्राय वज्रमुदय- च्छदित्यादि । प्रणेतारमिति । प्रणेतृप्रमाणान्तरागोचरार्थकत्वस्य हेतुत्वं न संभवति अपौरुषेयत्वं साध्यतां भवतां मीमांसकानां मते वेदे पदे प्रणेतृघटितहेतोरभावादित्यर्थः । यत्किंचित्पुरुषीय- प्रमाणन्तरगोचरार्थकत्वस्य हेतुत्वं दूषयति अन्यं प्रतीति ।