न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 545, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तबके ] ईश्वरसाधनम् । ५१३ अन्यं प्रत्यनैकान्तिकत्वात् । आकस्मिकस्मितबीजसुखानुस्मृतेः कारणविशेषस्यान्यं प्रति प्रमाणान्तरगोचरस्यापि तेनैव चक्षुषा प्रतिपाद्यमानत्वात् । वक्तैव प्रकृते न सम्भवति । हेत्वभावे फलाभावात् । चक्षुरादीनां तत्रासाम- र्थ्यात् । अस्मदादीन्द्रियवत् । मनसो बहिरस्वातन्त्र्यात् । न । चेतनस्य ज्ञानस्ये- न्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् । नित्यनिराक- रणे चासामर्थ्यात् । परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेन्न । द्रष्टारं प्रत्यसिद्धेः । अन्यं प्रति सिद्धसाधनात् । तथापि वाक्यत्वं न प्रमाणम् । अप्रयोजकत्वात् । प्रमाणान्तरगोचरार्थत्व- प्रयुक्तं तत्र पौरुषेयत्वं, न तु वाक्यत्वप्रयुक्तम् । न । सुगताद्यागमा- नामपौरुषेयत्वप्रसङ्गात् । प्रमाणवाक्यस्य सत इति चेन्न । प्रयोतृप्रमाणान्तरगो- चरार्थत्वस्य साध्याऽनुप्रवेशात् । स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम् । अर्थप्र- तीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातन्त्र्यम् । सम्वादिवाक्यस्याऽपौरुषेयत्वप्र- प्रकाशः । प्रयोतारमिति । अनैकान्तिकत्वं स्पष्टयति आकस्मिकेति । दृष्टकारणोपहारं विना जातस्मि- तस्य यद्बीजं सुखानुस्मृतिरूपं कारणं तस्येत्यर्थः । सर्वज्ञो वेदवक्ता न सम्भावनाऽऽस्पदम् , वाक्यार्थज्ञानसामग्रीरहितत्वादित्याह वक्तैवेति । ईश्वरो नातीन्द्रियार्थदर्शी पुरुषत्वात् , तज्ज्ञानं वा नातीन्द्रियविषयं ज्ञानत्वात् , तदिन्द्रियं वा नातीन्द्रियार्थग्राहि इन्द्रियत्वात् , तन्मनो वा नाती- न्द्रिये प्रवर्त्तते मनस्त्वादित्यादयः प्रयोगाः प्रागेव निरस्ता इत्याह चेतनस्येति । अपि च सामग्र्यभावात् कार्यज्ञानाभावेऽपि अकार्यं ज्ञानं न निवर्त्तते इत्याह नित्येति । उपाधिं शङ्कते प्रमाणान्तरेति । अत्र साध्याव्यापकत्वमाह सुगतेति । पक्षधर्मावच्छिन्नसाध्यव्यापकत्वादुपाधित्वं स्यादित्याह प्रमाणेति । प्रयोत्रिति । साध्यादभिन्नत्वे साध्याव्यापकत्वाद् भेदनिबन्धनत्वाच्च व्याप्यव्यापकभावस्येत्यर्थः । प्रमाणान्तरगोचरार्थत्वेन शब्देतरप्रमाणगोचरार्थत्वं विवक्षितं, मानान्तरगोचरार्थत्वं वा, मूलभूतमानान्तरगोचरार्थत्वं वा ? । आद्ये सम्वादीति । द्वितीय- प्रकाशिका । इत्यत आह दृष्टकारणेति । साध्यादभिन्नत्व इति । यद्यपि नात्राभेद उपाधिभेदात् किञ्चापौर- षेयत्वस्य सुगतागमवृत्तित्वादुक्तोपाधेश्च तदवृत्तित्वात् सर्वथा भेद एव, तथापि साध्यसिद्धिपर्यवसित- सिद्धिकत्वाद् वह्न्यादिसामग्रीवदुत्सर्गंतोऽस्यानुपाधित्वमित्यत्र तात्पर्यम् । शब्देतरेति । शब्दतदुप- मकरन्दः । साध्यादभिन्नत्वे इति । यद्यप्यत्र नाभैदः, उपाधिभेदस्य स्फुटत्वात् , किञ्च पौरुषेयत्वस्य सुगतागमादावपि सत्त्वादन्धथा वाक्यत्वस्य तत्र व्यभिचारापत्तेरिदञ्च तद्याप्तमिति सर्वथा भेद एव, तथाप्येतदस्वरसादेव दोषान्तरदानमिति ब्रूमः । अन्यथा तु चिन्त्यम् । शब्देतरेति । शब्दतदुपजीविप्रमाणेतप्रमाणगोचरार्थत्वमित्यर्थः । टिप्पणी परमाण्वादय इत्यादि । अत्रास्मत्सिद्धान्ते परमाण्वादीनामपीश्वरादिप्रत्यक्षविषयतया सामान्यतः प्रत्यक्षविषयत्वाभावस्याप्रसिद्ध्या तेन रूपेण साध्यत्वे साध्याप्रसिद्धिः स्यादतो यत्किंचि- त्प्रत्यक्षविषयत्वाभावः साधनीयः, तथाच यत्किञ्चित्पदेनेश्वरग्रहणे परमाण्वादावीश्वरप्रत्यक्षविषयत्वा- भावो मास्तु प्रत्यक्षसामग्रीरहितत्वमस्त्विति व्यभिचारशंकानिवर्तकानुकूलतर्कशून्यत्वाद्व्याप्यत्वासिद्धिः, यदि च यत्किञ्चत्पदेन जीवो गृह्येत तदा सिद्धसाधनमित्यर्थः । ६५ न्या० कु०