न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 546, कुल 608 में से
संदर्भ में पढ़ें५१४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां
सङ्गाच्च । तदर्थस्य शब्देतरप्रमाणागोचरत्वात् । प्रयुज्यमानवाक्येतरगोचरार्थ- त्वमात्रमिति चेन्न । तस्य वेदेऽपि सत्त्वात् , एकस्याप्यर्थस्य शाखाभेदेन बहुभि- र्वाक्यैः प्रतिपादनात् । अस्त्वेवं, न तु तेषां मिथो मूलमूलीभाव इति चेन्न । उक्तो- त्तरत्वात् । संख्याविशेषात् खल्वपि । द्व्यणुकत्र्यणुके तावत् परिमाणवती द्रव्यत्वात् । तच्च परिमाणं कार्यं कार्यगुणत्वात् । न च तस्य परमाणुपरिमाणं द्व्यणुकपरिमाणं वा कारणम् । नित्यपरिमाणत्वात् , अणुपरिमाणत्वाच्च, अन्यथा अनाश्रयकार्योत्प- त्तिप्रसङ्गात् । द्व्यणुकस्य महत्त्वप्रसङ्गाच्च त्र्यणुकवदण्वारभ्यत्वाविशेषात् । तत्र
प्रकाशः । माशङ्क्य निराकरोति प्रयुज्यमानेति । तृतीयं शङ्कते अस्त्वेवमिति । मूलमूलीभावः उपजीव्योपजीवकभावः । उक्तेति । प्रयोक्तृमूलभूतप्रमाणान्तरागोचरार्थत्वस्यासिद्धेरन्यं प्रत्यनैकान्ति- कत्वादित्यादिनेत्यर्थः । द्व्यणुकादिपरिमाणमनेकवृत्तिसङ्ख्याजन्यं, तस्याश्च द्वित्वादेरपेक्षाबुद्धित उत्पत्तिः, तदाश्रय ईश्वर इति साधयितुमाह— द्व्यणुकेति । कार्यगुणत्वादिति । कार्यवृत्तिगुणत्वादित्यर्थः । ननु द्व्यणुके परमाणुपरिमाणात् त्र्यणुके च द्व्यणुकपरिमाणादेव परिमाणोत्पादोपपत्तेः किं द्वित्वादिसङ्ख्ययेत्यतं आह न चेति । आकाशपरिमाणवदिति शेषः । यदि च परः परममहत्परिमाणमेव न स्वीकुर्यात् , तदा हेत्वन्त- रमाह अणुपरिमाणत्वादिति । यद्यपि नात्र मनःपरिमाणं दृष्टान्तः, परमतै मनसो विभुत्वात् , न चानारम्भकद्व्यणुकपर- माणुपरिमाणं दृष्टान्तः, तयोरपि कदाचिदारम्भकत्वात् , अचवयवाऽणुपरिमाणस्य जनकत्वा-
प्रकाशिका । जीविप्रमाणान्तरप्रमाणगोचारार्थत्वमित्यर्थः । साध्यसाधनेति । यद्यपि सुगतागमादाविव साधन- व्यापकत्वं तथापि तत्र साध्याव्यापकत्वमपीति प्रमाणत्वावच्छिन्नसाध्यव्यापकत्वं वाच्यं तथा सति तदव- च्छिन्नसाधनाव्यापकत्वमपीत्याशयेनेदमुक्तम् । हेत्वन्तरमाहेति । मनःपरिमाणदृष्टान्तावष्टम्भेनेति भावः। तथा च पूर्वहेतावपि तदेव दृष्टान्त इति तात्पर्यम् । वस्तुतो द्व्यणुकपरिमाणपक्षतायां प्रथमहे- तोरसिद्धिरित्याशयेनोभयसाधारणो हेतुरणुपरिमाणत्वादित्युक्त इति मूलस्य तात्पर्यम् । तयोरिति । अनारम्भके तत्र मानाभावेन तयोरपि कदाचिदारम्भकत्वादित्यर्थः । द्व्यणुकादीनामणारम्भकत्वे च तत्परिमाणस्याप्यवयवपरिमाणतया जनकत्वमिति न दृष्टान्तत्वमित्याह अवयवेति । यदि च
मकरन्दः । यदि चेति । अत्रेदं चिन्त्यम् । तदस्वीकारे दृष्टान्तान्तरं कर्तुमर्हति, न तु हेत्वन्तरम् । मनःपरिमाणदृष्टान्तत्वेन प्रथमहेतावप्युपपत्तेः । तस्मात् द्व्यणुकपरिमाणपक्षके प्रथमस्यासिद्धत्व- माशङ्क्य तदभिप्रायेण हेत्वन्तरम् । तत्र च प्रथमहेत्ववष्टम्भात् परमाणुपरिमाणमेव दृष्टान्तो मनः- परिमाणं वेति मूलतात्पर्यं प्रतिभातीति । तयोरपीति । स्वरूपयोग्यत्वादित्यर्थः । यद्वा अनारम्भके तत्र मानाभावात् तयोरपि कदाचिदारम्भकत्वादित्यर्थः । द्व्यणुकादीनामारम्भकत्वनियमे चावयवपरिमाणतया तत्परिमाणस्यापि जनकत्वमेवेति न दृष्टान्तत्वमित्याह अवयवेति ।