न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 548, कुल 608 में से
संदर्भ में पढ़ें५१६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां ध्वस्य तद्धेतुत्वात् । अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैय- र्थ्यप्रसङ्गात् । अणुत्व एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् । अस्तु महदारम्भ एव त्रिभिरिति चेन्न । न, महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् । तथापि वा तारतम्ये संख्यैव प्रयोजिकेति । न च प्रचयोऽपेक्षणीयोऽवयवसंयोग- स्याभावात्। तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः। अतोऽनेकसंख्या प्रकाशः । द्व्यणुककार्यवत् परमाणुत्रयारब्धस्यापि बहुत्वहेतुकमहत्त्वोत्पादापत्तिरित्यर्थः । ननु परमाणुद्वया- रब्धस्येवाणुत्रयारब्धस्याप्यणुत्वमेव स्यादित्यत आह अन्यथेति । तथा सति त्रित्वादिसंख्या- वैयर्थ्यापत्तिरणुद्वयारब्धापेक्षया तद्विशिष्टारब्धे विशेषाभावादित्यर्थः । प्रत्येकं व्यभिचारादकारण- त्वं स्यादिति भावः । नन्वणूनां संख्यावैचित्र्यमणुपरिमाणतारतम्यभेदसम्पादनोपयोगि, परि- माणेऽवान्तरकारणभेदव्यङ्ग्यजातिभेदाच्च न व्यभिचार इत्यत आह द्वाणुण एवेति । तथापि तारतम्ये संख्यैव प्रयोजिका, संख्याभेदं विना समुदाये भेदकान्तराभावादित्यर्थः । परमाणु- कार्यस्य महत्त्वप्रसङ्ग इत्यत्रेष्टापत्तिमाह अस्त्विति । त्रिभिः परमाणुभिरित्यर्थः । महत इति । अनन्यथासिद्धान्वयव्यतिरेकाभ्यां तथैव कारणत्वनिर्णयादित्यर्थः । ननु द्यणुकादिपरिमाणस्य परिमाणजन्यत्वेऽपि प्रचयजन्यत्वं स्यात्, तस्यापि महत्त्वे कारणत्वादित्यत आह न चेति । अतोऽनेकेति । अत्रेदं तत्त्वम् । त्र्यणुकमहत्त्वं न परिमाणजन्यं संख्याप्रचयाजन्यमहत्त्वं प्रत्यवयवमहत्त्वेन कारणत्वात् । न त्ववयवपरिमाणत्वेन, परमाणुपरिमाणाद् द्यणुके महत्त्वापत्तेः । नापि जन्याऽवयवपरिमाणत्वेन, गौरवात् । नापि जन्याणुत्वेन, तथाऽदर्शनात् । महत्त्वविशेषे- प्रकाशिका । समानपरिमाणकपालद्वयारब्धघटापेक्षया समानपरिमाणकपालत्रयारब्धघटे महत्त्वप्रकर्षदर्शनात् संख्यापि कारणमित्यर्थः । न च तर्हीत एव बाधकात्रिभिः परमाणुभिर्द्वयणुक्यारम्भ इति वाच्यम् । परिमाणस्य स्वापेक्षयोत्कृष्टपरिमाणजनकत्या द्वयणुकत्र्यणुकयोरणुतमत्वापत्त्या नाणुपरिमाणं परिमाणजनकमित्यग्रे वक्ष्यमाणत्वात् । ननु परिमाणद्वयेति । महत्त्वसमानाधिकरणाया एव बहुत्वसंख्याया महत्त्वजनकत्वमिति भावः । ननु न वैयर्थ्यं द्वित्वत्रित्वादीनां कारणतावच्छेदकत्वा- दित्यत आह प्रत्येकमिति । संख्यैव प्रयोजिकेति । तथा च संख्यायां अणुपरिमाणजनकत्वे सिद्ध ईश्वर इति भावः । परमाणुकार्यस्येति । यद्यपि पूर्वं द्व्यणुके महत्त्वप्रसङ्गः कृतः, तथापि द्व्यणुकेऽपि परमाण्वारभ्यत्वं नियम्यमिति तत्रैव इष्टापादनाशङ्केति भावः । ननु यथा नित्यवृत्ति- परिमाणस्याणुपरिमाणस्य वाऽजनकत्वम् तथा नित्यवृत्तिईश्वरवृत्तिसंख्ययोरपि न जनकत्वमित्याश- येनाह अत्रेदमत्तत्त्वमिति । नन्विति । न च महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न द्व्यणुके महत्त्वमिति वाच्यम् । नित्यस्य स्वरूपयोग्यत्वात्फलावश्यम्भावनियमात् । गौरवादिति । जन्यत्वविशेषणप्रवेशेनेति भावः । महत्त्वविशेष इति । प्रचयशून्यावयवद्वयारब्धघटादिपरिमाणे मकरन्दः । तन्न जनकं, तथा नित्यवृत्तिसंख्यात्वादिना बहुत्वसंख्याऽपि जनिका न स्यात्, न च द्यणुकस्य महत्त्वप्रसङ्गः, कार्यस्य महतः कार्यद्रव्यारभ्यत्वनियमादित्याशयेनाह अत्रेदं तत्त्वमिति । न त्विति । यद्यपि महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न द्यणुके महत्त्वापत्तिः, तथापि नित्यस्य तस्य स्वरूपयोग्यत्वे फलावश्यम्भावापत्तिरित्यत्र तात्पर्यम् । महत्त्वविशेषे इति । प्रचयशून्यावयवद्वयारब्धघटादिमहत्त्वे व्यभिचारादित्यर्थः ।