न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 549, कुल 608 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from the image:
पंचमस्तबके ] ईश्वरसाधनम्। ५१७ परिशिष्यते। सापेक्षाबुद्धिजन्या, अनेकसंख्यात्वात्। न चास्मदादीनामपेक्षा- प्रकाशः। ऽनियतहेतुकताऽऽपत्तेश्च। महत्त्वत्वान्तरजातिकल्पने गौरवम्। बहुत्वकल्पनञ्च प्रामाणिकम्। एवं द्व्यणुकपरिमाणं न महत्त्वजनकम् अणुपरिमाणत्वात् परमाणुपरिमाणवत्, अन्यथा तस्य महत्त्वजनकत्वे द्व्यणुकस्यापि महत्त्वप्रसङ्गः, किन्त्ववयवबहुत्वं, परिमाणप्रचयाजन्यमहत्त्वे अवयवबहुत्वेन कारणत्वकल्पनात्। एवं द्व्यणुकपरिमाणं नाणुपरिमाणजन्यं परिमाणत्वाद् , अणुपरिमाणत्वाद्वा। परमाणुपरिमाणं न परिमाणजनकम् अणुपरिमाणत्वाद् द्व्यणुकपरिमाणवत्। यत्तु नित्यपरिमाणत्वान्न तज्जनकं व्योममहत्त्ववदिति। तन्न, अवयवनित्यपरिमाणस्य जनक- त्वाभ्युपगमात्। अन्यथा नित्यवृत्तिसंख्याया अप्यजनकत्वापत्तेः। अतो द्व्यणुकपरिमाणं संख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वादित्यवयवबहुत्वाभावाद् द्वित्वमेव तज्ज- नकम्। यदि च द्व्यणुकत्र्यणुकपरिमाणं परिमाणजन्यं स्यात्, तदा कारणपरिमाणापेक्षया उत्कृष्टं स्यान्महज्जन्यमहत्तरमहत्तमवदित्यणुपरिमाणतरतमत्वापत्तिः। उत्कर्षश्च न कारणपरिमाणाऽपेक्षयाऽ- धिकदेशत्वं, येनेष्टापत्तिः स्यात्, किन्तु तरवन्तकारणपरिमाणवाचकवाच्यत्वं, तत्प्रवृत्तिनिमित्तजा- तिमत्त्वं वा। ननु परमाणुद्वित्वं न परिमाणजनकं नित्यवृत्तिसंख्यात्वाद्, अणुवृत्तिद्वित्वत्वाद्वो, व्योम- द्व्यणुकवृत्तिद्वित्ववत्। एवं द्व्यणुकवृत्तिबहुत्वं न परिमाणजनकम्, अवयववृत्तिबहुत्वात् , परमाणुबहुत्ववत्। यथा त्र्यणुकमहत्त्वस्याणुजन्यत्वे द्व्यणुकस्यापि महत्त्वप्रसङ्गः, तथाऽणुवृत्तिसं- ख्याजन्यत्वेऽपि द्व्यणुकस्य महत्त्वप्रसङ्गः। यथा च परिमाणस्य स्वोत्कृष्टपरिमाणजनकत्वादणु- तरत्वप्रसङ्गः तथा संख्याया अपि समानाधिकरणपरिमाणोत्कृष्टपरिमाणारम्भकत्वप्रसङ्गः। मैवम्। सर्गादौ परमाणुवृत्तिद्वित्वबहुत्वयोरसिद्धावाश्रयासिद्धेः, सिद्धौ वा धर्मिग्राहकमानवा- धात्। अथ द्व्यणुकपरिमाणं न द्वित्वजन्यं परिमाणत्वात्, त्र्यणुकमहत्त्वं नाणुवृत्तिबहुत्वजन्यं प्रकाशिका। व्यभिचारादित्यर्थः। परिमाणप्रचयजन्यमहत्त्वेति। परिमाणप्रचायाजन्यमहत्त्व इत्यर्थे यथाश्रुते कल्पनास्थलाभावात्। एवं द्व्यणुकपरिमाणमिति। विपक्षबाधकन्तु अणुतमत्वापत्तिः पूर्वमु- क्तैवेति द्रष्टव्यम्। अतो द्व्यणुकपरिमाणमिति। अत्र हेतौ प्रचयपदानन्तरं मात्रपदं पूरणीयम्, तेन कपालत्रयारब्धघटपरिमाणं दृष्टान्तः, अन्यथा दृष्टान्तालाभात्। यद्वा त्र्यणुकपरि- माणस्य परिमाणजन्यत्वे सिद्धे प्रयोगोयमिति तदेव दृष्टान्तमुपादाय यथाश्रुत एव तत्र हेतुः। विपक्षबाधकमाह यदि चेति। अणुवृत्तिद्वित्वत्वादिति। अत्राणुवृत्तिपदं स्पष्टार्थम्। अवयववृत्तीति। अवयवपदमणुपरं तेन कपालादिवहुत्वस्य घटादिपरिमाणारम्भकतया न व्यभिचारः। यदि च बहुत्वस्य क्वचिदपि न परिमाणजनकत्वमिति पूर्वपक्ष्युतराशय इति नोक्तव्य- भिचारः, तदावयवपदं स्पष्टार्थमेवेति मन्तव्यम्। उक्ताश्रयासिद्धिभिया परिमाणं पक्षयति अथेति। मकरन्दः। अणुवृत्तिद्वित्वत्वाद्वेति। अत्राणुवृत्तिपदं स्फुटार्थम्। अवयववृत्तिबहुत्वादिति। अत्रापि वृत्त्यन्तं स्फुटार्थम्। अन्यत्रापि बहुत्वस्य तज्जनकत्वा- नाभ्युपगमादित्येके। अवयवपदमणुपरं तुल्यपरिमाणाधिकसंख्यारब्धे महस्त्वोत्कर्षेण तस्य तज्जन- कत्वे व्यभिचारादित्यन्ये। आश्रयासिद्ध्यादिपरिहारार्थं परिमाणं पक्षयति अथेति।