न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 550, कुल 608 में से
संदर्भ में पढ़ें५१८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां बुद्धिः परमाणुपु सम्भवति । तद् यस्यासौ सर्वज्ञः । अन्यथा अपेक्षाबुद्धेरभावात् संख्याऽनुत्पत्तौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् द्व्यणु- कानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः । अस्मदादीनामेवाऽनुमानिक्यपेक्षाबुद्धिरस्त्विति प्रकाशः । महत्त्वत्वात् परिमाणत्वाद्वेति चेत् । न । प्रसिद्धद्वित्वबहुत्वजन्यत्वे साध्ये सिद्धसाधनात्, अप्रसिद्ध- तन्निषेधे साध्याप्रसिद्धेरिति संख्यैव तज्जनिकेति वयम् । साम्प्रदायिकास्तु—द्व्यणुकपरिमाणसमवायिकारणताग्राहकं मानं यद्यणुपरिमाणं विषयी- कुर्यात् तदा परिमाणद्वयासमावायिकारणत्वे गौरवमिति द्वित्वमेकं विषयीकरोति । यद्वा एकत्वस्य परिमाणानारम्भकत्वे सजातीयनिरूपितोत्कर्षानाश्रयत्वं प्रयोजकम् , तच्च परमाणुपरिमाणेऽपि तुल्य- मित्याहुः । ऋजवस्तु—कारणपरिमाणवत् कारणानेकवृत्तिसंख्याऽप्यन्वयाथनुविधानात् परिमाणहेतुः । ग्रन्थस्तु संख्यानिरपेक्षपरिमाणकारणत्वनिषेधपर इति समादधुः ॥ तद् यस्यासाविति ॥ ईश्वरापेक्षाबुद्धेर्नित्यत्वेनाविनाशेऽपि तदुत्पादितद्वित्वादेर्निमित्तान्त- प्रकाशिका । प्रसिद्धेति । एतच्च सामान्यलक्षणानभ्युपगन्तृपरमतेन दूषणं स्वमतीतप्रयोजकत्वे तात्पर्यमिति । केचित्तु वस्तुतः सामान्यलक्षणानभ्युपगमेऽपि न तयालीकस्यापि सिद्धिरिति यथाश्रुतमेव सम्यगिति- प्रतिभाति । साम्प्रदायिकास्त्विति । अत्रेदमरुचीबीजम्-ईश्वरासिद्धिदशायां परमाणुवृत्तिद्वित्व- मसिद्धं परिमाणञ्च सिद्धमिति कॢप्तकल्पनालाघवेन परिमाणमेव कारणमुचितमिति मन्तव्यम् । यद्वेति । अत्रापि परमाणोरणुतमत्वात्परिमाणेऽपि सजातीयनिरूपितोत्कर्षाश्रयत्वमस्त्येवेत्यरुचि- बीजमिति केचित् । तदयुक्तम् उत्कर्षो ह्यत्राधिकदेशव्यापकत्वं न तु तारतम्यं द्वित्वादावभावात्, तदभावस्य च सजातीयापेक्षया परमाणुपरिमाणे एकत्वे च समानत्वादिति । इदन्त्वरुचिबीजं परिमाणजनकतावच्छेदकरूपाभाव एव एकत्वस्य परिमाणानारम्भप्रयोजकः, अन्यथा विभागादेरपि तदारम्भकतापत्तेः जनकतावच्छेदकञ्चावयववृत्त्यनेकवृत्तिसंख्यात्वमेवेति । ऋजवस्त्विति । अत्रोभ- यहेतुकल्पनेमानाभावः । न चावयवानेकवृत्तिसंख्यात्वमवयवपरिमाणत्वञ्च परिमाणजनकतावच्छेदक- मित्येव मानमिति वाच्यम् । तथा सत्यणुत्तमत्वापत्तेरुक्तादित्यरुचिबीजम् । त्वनिमित्तान्तरमदृष्टं वेदसमानविषयकत्यादितात्पर्यविषयकत्वं तात्पर्यविषयविषयकत्वं तावन्मात्रे च साध्ये अध्याप- कतात्पर्येणार्थान्तरमिति तात्पर्यापूर्वकत्वं तात्पर्यविशेषणम् तथाप्यस्मदादेरेव स्वतन्त्रं मकरन्दः । प्रसिद्धेति । एतच्च सामान्यलक्षणाभ्युपगन्तृमते दूषणम् । स्वमते त्वप्रयोजकत्वमित्यंत्र तात्पर्यम् । साम्प्रदायिकास्त्विति । न चेश्वरासिद्धिदशायां द्वित्वस्य कल्पनीयतया धर्मिकल्पनात् इति न्यायेन परिमाणमेव विषयीकरोतीति वाच्यम् । मानान्तरेणेश्वरस्य साधितत्वात् तदवष्टम्भे- नेदमित्येके । अत्र कल्पेऽस्वरस एवायमित्यन्ये । परमाणोरणुतरत्वात् तत्परिमाणेऽपि सजातीयनिरूपितोत्कर्षाश्रयत्वमस्त्येवेत्यस्वरसादाह इत्याहुरिति । उभयहेतुत्वे गौरवमित्यस्वरसमाविस्करोति ऋजवस्त्विति । निमित्तान्तरम्—अदृष्टादि । वेदसमानविषयकेत्यादि । अत्र वेदपदं स्वपरं, तेन लौकिकप्रशंसावाक्ये न व्यभिचारः ।