न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 551, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरसाधनम् । ५१६ चेन्न । इतरेतराश्रयप्रसङ्गात् । जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानं, तस्मिन् सति द्यणुकादिक्रमेण स्थूलोत्पत्तिः । अस्मद्दृष्टादेव परिमाणं कृतमपेक्षाबुद्धयेति. चेत्। न। अस्तु तत एव सर्वं, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति ॥ ५ ॥ अथवा, कार्येत्यादिकमन्यथा व्याख्यायते— उद्देश एव तात्पर्यं व्याख्या विश्वदृशः सती । प्रकाशः । रनाशेन नाश इति भावः ॥ जाते.हीति ॥ महत्त्वोत्पत्तेः पूर्वं द्यणुकस्याप्रत्यक्षत्वेन लिङ्गा- भावादित्यर्थः ॥ अत्र कार्यमुद्देश्यत्वम्, उद्देशश्च तात्पर्यम् । तद्विषय. एव वेदस्य प्रामाण्यम् । तच्च परिशेषा- द्वक्तुरिच्छा । सा च वेदार्थे नास्मदादीनामिति तदाश्रयेश्वरसिद्धिरित्याह— उद्देश एवेति ॥ वेदस्यायोजनमासमन्ताद्भावेन योजनं व्याख्यानम् । तच्चास्मदादीनां सर्व- वेदादर्शिनां न निष्कम्पप्रवृत्तिहेतुरिति तद्व्याख्यातृतयेश्वरसिद्धिरित्याह । व्याख्येति ॥ ईश्वरादि- प्रकाशिका । पदार्थगोचरतात्पर्यमादायार्थान्तरमिति वेदसमानविषयकत्वं द्वितीयतात्पर्यविशेषणं, तच्च वैदिकवाक्यार्थगोचरत्वम् । न चैवं लौकिकवाक्ये व्यभिचारः, समभिव्याहृतवाक्यपर- त्वाद्द्वेदपदस्य हेतौ च सतात्पर्यकपद्ं बाधितार्थकशुकवाक्ये व्यभिचारवारणाय प्रमाणवाक्यस्य सर्वस्य पक्षसमत्वाच्चेति ध्येयम् । तादृशेति । तथा च धृत्यादेरित्यत्र धृतिपदेन वेदधा- रकत्वं युक्तमिति, तदाश्रयेश्वरसिद्धिरिति भावः । मकरन्दः । अध्यापकतात्पर्यविषयत्वेनार्थान्तरमत उक्तं तात्पर्यापूर्वकेति तात्पर्यविशेषणम् । तात्पर्यविषय- काणीत्यत्र तात्पर्यविषयो विषयो यस्येति मध्यमपदलोपी समास इत्याहुः । न च हेतौ सतात्पर्य- कपदं व्यर्थम्, ईश्वरतात्पर्यमादाय वाक्यमात्रस्य पक्षसमत्वेन व्यभिचाराभावादिति वाच्यम् । बाधितार्थके तत्तात्पर्याभावेन व्यभिचारसम्भवात् । सा चेतीति । तथा च धृत्यादेरित्यनेन वेदधारकत्वादिकमुक्तमिति तदाश्रयेश्वर- सिद्धिरिति भावः । टिप्पणी । मीमांसकमुद्दिश्य प्रकारान्तरमाह अथवेति । उद्देश एवेत्यादि । तथाच वेदे यस्य तात्पर्यं स एवेश्वरः सिध्यति । इदं तु तात्पर्यवतीश्रुतिः प्रत्यक्षाद्वलीयसी न श्रुतिमात्रम् , अन्यथार्थवादस्थले प्रमाणान्तरविरुद्धोऽप्यर्थः सिध्येदिति यजमानः प्रस्तर इत्यादिश्रुतिबलात् यजमानादेः प्रस्तरादिरूपताऽपि स्यात् , तात्पर्यवत्या एव श्रुतेः प्राबल्योपगमे तु यजमानादौ प्रस्तरार्थभेदबोधने श्रुतेस्तात्पर्याभावान्न प्राबल्यं किंतु प्रत्यक्षस्यैवेति न काचिदापत्तिरनुपपत्तिर्वेत्या- चार्यवाचस्पतिमिश्राणाम्मतमनुसरति । आयोजनपदं व्याख्याति व्याख्येति । नत्वेवं सर्वज्ञानाकारस्य प्रदीपवत्सर्वार्थत्वद्योतिनः ऋग्वे- दादेरल्पज्ञाज्जीवात् व्याख्या सती समीचीना भवितुमर्हतीत्यतस्तद्व्याख्यातृतया विश्वदृशः सर्वज्ञस्य ईश्वरस्य सिद्धिः । एवं तत्कारिकाघटकधृत्यादेरित्यत्र धृतिर्धारणम् अध्ययनम् वेदाध्ययनम् स्वतन्त्र- पुरुषप्रयोज्यम् शिष्टैरनुष्ठीयमानत्वात् इत्यनुमानेन साध्यघटकतयेश्वरः सिध्यति । धृत्यादेरित्यादिपदेनो- पासनं संगृह्यते, तथाच ईश्वरोपासनं सद्विषयकं शिष्टैरनुष्ठीयमानत्वादित्यनुमानेनेश्वरसिद्धिः । पदादीश्वरं