न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 553, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरसाधनम् । ५२१ 'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥' इति, मुख्यार्थाबाधनेऽपि वारणे तात्पर्यम् । न च परं व्यापकमेव, अव्या- पकेऽपि तात्पर्यदर्शनात् । तद् यथा-मञ्चाः क्रोशन्तीति पुरुषे तात्पर्यम् । न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः । नापि तृतीयः । तद्धि प्रतिपाद्यापेक्षितं, प्रतिपादकापेक्षितं वा स्यात् । नाद्यः शब्दप्रामाण्यस्यातदधीनत्वात् , तथात्वे वाऽतिप्रसङ्गात् । यस्य यदपेक्षितं, तं प्रति तस्य परत्वप्रसङ्गात् । तदर्थसाध्यत्वेनाऽपेक्षानियम इति चेत् । न, कार्यज्ञा- प्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात् । धूमस्य हि प्रदेशश्यामलतमशकनिवृत्त्याद्यनेकं कार्यम् । आर्द्रेन्धनदहनाद्यनेकं ज्ञाप्यम् । तथा चेह प्रदेशे धूमोऽय इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्, चेतना- पेक्षाया नियन्तुमशक्यत्वात् । नाऽपि प्रतिपादकापेक्षितं, वेदे तदभावात् । चतुर्थस्तु स्यात् । यदुद्देशेन यः शब्दः प्रवृत्तः स तत्परः, तथैव लोकव्यु- त्पत्तेः । तथाहि-प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते, तदुपादानपरम् । निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते, तद्धानपरम्, एवमन्यत्रापि स्वयमूहनीयम् । तस्माल्लोकानुसारेण वेदेऽप्येवं स्वीकरणीयम् , अन्यथा अर्थवादानां सर्वथै- वानर्थक्यप्रसङ्गात् । स चोद्देशो व्यवसायोऽधिकारोऽभिप्रायो भाव आशय इत्य- नर्थान्तरमिति तदाधारप्रणोतृपुरुषधौरेयसिद्धिः । तथा च प्रयोगः-वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि प्रशंस- प्रकाशः । प्रवृत्त्यादावपि तात्पर्यात्तद्व्यापकत्वादित्यर्थः । न च यदर्थज्ञानजनकत्वं यस्य, तस्य तत्र तात्पर्य- मिति वाच्यम् । धूमोऽस्तीति वाक्यस्याग्निज्ञानजनकत्वेऽप्यग्नौ तात्पर्यात्तद्व्यापकत्वादिति भावः ॥ तद्धीति । प्रयोजनं न वक्तुः श्रोतुर्वेत्यर्थः । यत्र वक्तुस्तात्पर्यं तत्र शब्दस्य प्रामाण्यमिति स्थितेराह शब्देति । अतिप्रसङ्गमेवाह यस्येति । तथाच तात्पर्यभेदेन वाक्यभेदः स्यादिति भावः । तदर्थेति । शब्दस्य योऽर्थस्तस्य यत्साध्यं प्रतिपाद्यस्य चापेक्षितं तत्परं, न तु तद्- साध्यमपीत्यर्थः । कार्येति । साध्यं जन्यं ज्ञाप्यं वा ? उभयस्याप्यनेकत्वात् । तथापि तात्पर्यभेदाद्वाक्यभेद एव स्यादित्यर्थः । न च प्रकरणादिना तात्पर्यनियमान्न वाक्यभेदापत्तिः । प्रकरणं हि न साध्यं नियमयति, अशक्यत्वात् । न हि धूमं जिज्ञासमानस्य प्रतीयमान- धुमाद्धूमकेतुप्रतीतिवन्मशकादिनिवृत्तिर्न भवति, प्रतिपादकाभिप्रायनियमे च सिद्धं वेदस्य सकर्तृकत्वमिति भावः । चेतनेति । एक एवार्थः सर्वेषां चेतनानामपेक्षित इत्यत्र नियामकाभावाद्भिन्नभिन्नार्थापेक्षायां तात्पर्यभेदाद्वाक्यभेदः स्यादिति भावः । वेदे इति । तव दर्शने इति शेषः । अर्थवेति । लोके हि पदानां स्वतन्त्राभिप्रायपूर्वकतया स्वार्थप्रतिपाद- कत्वदर्शनाद्वेदेऽपि तथात्वं तत्पूर्वकतयैव युज्यते । न च लौकिकशब्देभ्यो वैदिकाः शब्दा अन्ये एवेति लोकमर्यादाऽतिक्रमः स्यात् । यतोऽनेनैव न्यायेन लौकिकानामेव शब्दानामर्र्थविशेषे शक्ति- ग्रहाद् वैदिकानां तद्भिन्नत्वादगृहीतशक्तिकत्वादर्थाप्रतिपादकत्वप्रसङ्गः । अत एव य एव लौकिकास्त एव वैदिकास्त एव चामीपामर्था इत्याहुरित्यर्थः । ननूद्देश्यत्वं नेच्छाविषयत्वं, किन्तु वस्त्वन्तरमेवे- त्यत आह स चेति । लोके तथैव निधयादित्यर्थः । वैदिकानीति । ननु सर्गाद्यकालीनवैदिकवाक्यपक्षतायामाश्रयासिद्धिः, इदानीन्तनस्य तस्य ६६ न्या० कु०