भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 554, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 554

५२२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां

सावाक्यत्वात् परिणतिसुरसमास्रफलमित्यादिलोकवाक्यवदिति । एवं निन्दा- वाक्यानि हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् परिणतिचिरसं पनसफलमित्या- दिवाक्यवत् , अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम् । अपि च नो चेदेवं, श्रुतार्थापत्तिरपि हीयेत । सिद्धो ह्यर्थः प्रमाणविषयो, न तु तेनैव कर्त्तव्यः। न च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र रात्रौ भुङ्क्त इति वाक्यशेषोऽस्ति , अनुपलब्धबाधितत्वात्-उत्पत्त्यभिव्यक्तिसामग्रीतालवा- दिव्यापारविरहात् , अयोग्यस्याशङ्कितुमप्यशक्यत्वात् । तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात् । स चैद्वेदे नास्ति, नास्ति श्रुतार्थापत्तिरिति तद्- व्युत्पादनानर्थक्यप्रसङ्गः। तस्मात् कार्यात्तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति । आयोजनात् खल्वपि । न हि वेदाद्व्याख्यातात् कश्चिदर्थमधिगच्छति । न चैकदेशदर्शिनो व्याख्यानमादरणीयम् । पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम् । इति न्यायानाश्वासात् । त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणोऽन्यथा- र्थप्रत्ययः स्यात् , किमुतातीन्द्रियानन्तरवाक्यसम्मेलदुरधिगमात् । ततः सकलवेदवेदार्थदर्शी कश्चिदेवाभ्युपेयोऽन्यथाऽन्धपरम्पराप्रसङ्गात् । स च श्रुताऽधीतावधृतस्मृतसाङ्गोपाङ्गवेदवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति । को ह्यप्रत्यक्षीकृतविश्वस्तदनुष्ठान एतावानेवायमाम्नाय इति निश्चिनु- यात् । कश्चाऽर्वाग्दृग् निःशेषाः श्रुतीर्ग्रन्थतोऽर्थतो वाऽधीयीत, अध्यापयेद्वा । अत्रापि प्रयोगः - वेदाः कदाचित् सर्ववेदार्थविद्व्याख्याताः अनुष्ठातृमति-

प्रकाशः।

पक्षत्वेऽप्येत्राऽस्मदादिनाऽर्थान्तरत्वं, स्वरूपाख्यानपरपुत्रस्तुतिवाक्ये चानैकान्तिकम् । अत्राहूः- वैदिकप्रशंसावाक्यानि वेदसमानविषयकतात्पर्यपूर्वकतात्पर्यविषयकाणि सतात्पर्यवाक्यत्वात् लौकि- कप्रशंसावाक्यवत् । यदि च वेदे न स्वतन्त्रपुरुषाभिप्रायपूर्वकता, तदा भट्ठानां श्रुतार्थापत्त्या शब्दः कल्प्यते इति राद्धान्तव्याघात इत्याह - अपि चेति । ननु मा भूच्छ्रुतार्थापत्त्या शब्दकल्पनं, योग्यार्थकल्पनयैवो- पपत्तेः । मैवम् । क्रियाकारकपदानामन्योन्योपस्थापिताऽर्थान्वयबोधकत्वनियमव्युत्पत्तेः । अन्यथा गौः कर्मत्वमानयनं कृतिरित्यतोऽपि गामानयेत्यस्मादिवान्वयबोधापत्तेः, पुष्पेभ्य इत्यादौ स्पृहय- तीत्यादिशब्दसमभिव्याहारं विना चतुर्थ्यनुपपत्तेश्च । न च स्पृहयतिशब्दार्थयोग एव चतुर्थी साधुः । पुष्पमिच्छतीत्यत्रापि चतुर्थ्यापत्तेः । तथापि स्वयं स्मृतानामेव योग्यासन्नसाकाङ्क्षपदानां श्रुतपदैः सहैकार्थप्रतिपादने तात्पर्यकल्पनं श्रुतार्थापत्तिविषयः स्यादिति चेन्न । वेदे परस्परसमभिव्याहृतपदानामेकार्थप्रतिपादने तात्पर्येप- लब्धेः । तस्य चोच्चारणाभिप्रायान्यतरनियतविषयत्वेनोभयथाऽपि ईश्वरसिद्धिरित्याशयेनाह गत्यन्तराभावादिति । कार्येत्यादिकारिकायां धृत्यादेरित्यापि व्याचष्टे स चेति । श्रुतः-श्रोत्रेण साक्षात्कृतः । अधीतो-ज्ञानविषयार्थः । धृतः-सतताभ्यासेन दृढसंस्कारः । तद्विपरीतो विनैवाध्ययनं ज्ञातसकलाङ्गो- पाङ्गवेदार्थः, अध्यापितधारितादिवेदार्थो वा । कदाचिदिति बाधनिरासाय । एकदेशदर्शि-

प्रकाशिका ।

एकदेशदर्शीति । पक्षसमेऽपि व्यभिचार इति मतेनेदम् । वस्तुत इदं विशेषणं त्याज्यमेव

मकरन्दः।

एकदेशदर्शीति । नन्दीश्वरव्याख्यानमादाय तस्यापि पक्षसमतया कथमनेकान्तिकम्,