न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 555, कुल 608 में से
संदर्भ में पढ़ेंचलनेऽपि निश्चलार्थानुष्ठानत्वात् , यदेवं तत्सर्वं तदर्थविद्भिर्व्याख्यातं, यथा मन्वा- दिसंहितेति । अन्यथा त्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदना- देशिकत्वात् । अनुष्ठातार एवादेष्टार इति चेत् । न तेषामनियतबोधत्वात् । वेद- च्छेदानुष्ठानमप्यनादीति चेत् । न । तद्धि स्वतन्त्रं वा, वेदार्थबोधतन्त्रं वा ? । आद्ये निर्मूलत्वप्रसङ्गः । द्वितीये त्वनियमापत्तिः । न ह्यसर्वज्ञाविशेषे पूर्वेषां तदवबोधः प्रमाणं, न त्विदानीन्तनानामिति नियामकम्स्ति । पदात् खल्वपि । श्रूयते हि प्रणवेश्वरेशानादिपदम् , तच्च सार्थकम् , अवि- गानेन श्रुतिस्मृतीतिहासेषु प्रयुज्यमानत्वात् घटादिपदवदिति सामान्यतः सिद्धे कोऽस्यार्थः ? इति व्युत्पित्सोर्विमर्शे सति निर्णयः, स्वर्गादिपदवत् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ इत्यर्थवादात् , यववराहादिवाक्यशेषाद्वा । तद् यथा ईश्वरप्रणिधानमुप- क्रम्य श्रूयते— प्रकाशः । व्याख्यातवेदात् , शिष्याणां श्रद्धया प्रवर्त्तमानानां निश्चलानुष्ठानमस्तीत्यनैकान्तिकमित्यत उक्तम् अनुष्ठात्रिति । तत्राऽनुष्ठातृणामव्यवस्थितमतिस्वाभावादित्यर्थः ॥ अननुष्ठानहेतुमाह अव्यव- स्थानादिति । अर्थनिश्चयस्येति शेषः । अन्यथा त्वनियतानुष्ठानं स्यादित्याह अव्यवस्था वेति । अर्थनिश्चयाव्यवस्थानादित्यर्थः । अनादेशिकत्वात्-अनौपदेशिकत्वादित्यर्थः । ननु पूर्वेषामेव स्वतन्त्रवेदार्थज्ञानं प्रमाणमाधुनिकानान्त्वप्रमाणं स्यादित्यत आह न हीति । न च कश्चित् वेदार्थोऽस्तीत्यनेन रूपेणास्मदादिभिरेव व्याख्यानादनुमाने सिद्धसाधनं, येन रूपेण वेदार्थो व्याख्यात इति लोके व्यवहारः, ताद्रूप्येण व्याख्यानस्य विवक्षितत्वात् । यद्वा वेदा व्याख्यानानुकूल- तद्विषयानित्यज्ञानभिन्नज्ञानसमानविषया वाक्यत्वाद्, वेदा एतद्विषयाऽनित्यज्ञानान्यज्ञानविधृता धृतवाक्यत्वादिति भावः । अविगानेनेति । निरर्थकतया प्रसिद्धभावेनेत्यर्थः । अत एव स्तोभैर्न व्यभिचारः, निरर्थकत्वेनैव तेषां प्रसिद्धेरिति भावः । यथा स्वर्गपदे विधिशेषीभूतार्थवादाच्छक्ति- ग्रहस्तथा प्रकृतेऽपीत्याह निर्णय इति । अर्थवादमाह उत्तम इति । यववराहादिवदिति । 'यवमयश्चरुर्भवति' 'वाराही चोपानहू' 'वैतसे कटे प्रजापत्यं घिनोती'त्यत्र यववराहवेतसशब्दाः किं कङ्गुवायसजम्बूनां वाचकाः, उत दीर्घशूकशूकरवञ्जुलानामिति म्लेच्छार्य- व्यवहारदर्शनाद्विप्रतिपत्तौ मुख्यार्थानिश्चयसायेऽननुष्ठानापत्त्या तत्पदवच्छेदप्रामाण्यसंशये, पूर्वपक्षः— व्युत्पत्तिग्राहकव्यवहाराविशेषात् कङ्गवादावपि शक्तिरेव, पिकनेमतामरसपदेषु म्लेच्छप्रसिद्धेरादर- णाच्चेति । राद्धान्तस्तु-वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः प्रकाशिका । पक्षसमे च न व्यभिचार इति मतेनैवायं हेतुः, तद्विशेषणपि व्यभिचारापत्तेरिति ध्येयम् । धृत्यादे- रित्यभिप्रायेणाह वेदा एतद्विपयेति । सर्वज्ञतेत्यादिमूलस्थकारिकायां स्वतन्त्रता-नित्येच्छा, अनन्तशक्तिः,-कार्यमात्रकारणत्वम् । ननूपदेशादिरेव विधिरस्तीत्यतो मूलं विधिः प्रेरणेत्यादि । मकरन्दः । अन्यथा तादृशस्थले कदाचिदनुष्ठातृमतिचलनस्यापि सम्भवेन तत्पदोपादानेऽपि व्यभिचारा- पत्तेरिति चिन्त्यम् । धृत्यादेरित्यभिप्रायेणाह वेदा इति ।