न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 556, कुल 608 में से
संदर्भ में पढ़ें५२४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः पदाहुरङ्गानि महेश्वरस्य ॥ इति ॥ एवम्भूतोऽर्थः प्रमाणवानिति चेन्न । प्रागेव प्रतिषेधात् । तथापि न तत्र प्रमाणमस्तीति चेत् । स्वर्गे अस्तीति का श्रद्धा । न ह्युक्तविशेषणे सुखे किञ्चित् प्रमाणमस्त्यस्मदादीनाम् । याज्ञिकप्रवृत्त्यन्यथानुपपत्त्या तथैव तदित्यवधार्यते इतिचेद् । न । इतरेत- राश्रयप्रसङ्गात्—अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः, प्रवृत्त्यन्यथानुपपत्त्या च तदवधारणमिति । पूर्ववृद्धप्रवृत्त्या तदवधारणेऽयमदोष इति चेन्न । अन्धपरम्प- राप्रसङ्गात् । विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवंविधमपि सुखं स्यादिति नास्ति विरोधः, तन्निषेधे प्रमाणाभावादिति चेत् । तुल्यमितरत्रापि । अत्रापि प्रयोगः—यः शब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्रयुज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेषे प्रयुज्यमानस्तस्य वाचकः, प्रयुज्यते चायं जगतकर्त्तरीति । अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुप- पत्तिरिति । एतेन-रुद्रोपेन्द्रमहेन्द्रादिदेवताविशेषवाचका व्याख्याताः । अपिच अस्मत्पदं लोकवद्वेदेऽपि प्रयुज्यते, तस्य च लोके नाचैतनेष्वन्य- तमदर्थः, तत्र सर्वथैवाप्रयोगात् । नाप्यात्ममात्रमर्थः, परात्मन्यपि प्रयोगप्रस- ङ्गात् । अपि तु यस्तं स्वातन्त्र्येणोच्चारयति, तमेवाह तथैवान्वयव्यतिरेका- भ्यामवसायात् । ततो लोकव्युत्पत्तिमनातिक्रम्य वेदेऽप्यनेन स्वप्रयोक्तैव वक्तव्यः, अन्यथाऽप्रयोगप्रसङ्गात् । न च यो यदोच्चारयति वैदिकमहंशब्दं, स एव तदा तस्यार्थ इति युक्तम् । तथा सति मामुपासीतेत्यादौ स एवोपास्यः स्यात् । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते, इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधि- गच्छेत्, तथा च उपासनां प्रत्युन्मत्तकेलिः स्यात् । लोकव्यवहारश्चोच्छिद्येत । तस्मान्नानुवक्ताऽस्य वाच्योऽपि तु वक्तैवेति स्थिते प्रयुज्यते-वेदे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्रोकवदिति । प्रकाशः । कणिशशालिनः॥ 'वराहं गावोऽनुधावन्ति' 'अप्सुजो वेतसः' इत्यादिवाक्यशेषरूपवेदविरोधिनी म्लेच्छ- प्रसिद्धेर्हियेति म्लेच्छप्रसिद्धौ निरस्तायां निष्प्रतिपक्षार्थव्यवहाराच्छक्तिग्रहः । यत्र तु वेदविरोधो नास्ति, तत्र पिकादिपदेष्वभियोगवत्त्वानम्लेच्छानां तत्प्रसिद्धिरेवादरणीयेत्यर्थः । प्रकृते विधिशेषीभूतं वाक्यशेषमाह सर्वज्ञतेति । तृप्तिः-स्वभोगेच्छाविरहः । अङ्गानि- धर्माः । उक्तविशेषणे-दुःखादिसम्भिन्नत्वाभावादिविशिष्टे । याज्ञिकेति । लौकिकसुखाऽतिशय- सुखं विना बहुवित्तव्ययायाससाध्ये कर्मणि प्रवृत्तिर्न स्यादित्यर्थः । एतेनेति । रुद्रादिपदेष्वपि रुद्रस्त्र्यम्बक इत्यादिवाक्यशेषाण्निर्णय इत्यर्थः । यदि अस्मच्छब्दस्योच्चारयितरि शक्तिस्तदा 'वाच्यस्त्वया मद्वचनात् स राजे'त्यत्र कविरेवास्म- च्छब्देनोच्येतेत्यत उक्तं स्वातन्त्र्येणेति । अन्यकर्तृकत्वेनोच्चारणाभावः स्वातन्त्र्यम् । अत एव 'गृभ्णामि ते सौभगत्वायै'त्यादावपि नेश्वरवाचकत्वम्, अस्यान्यपरतयैव ईश्वरेणोच्चारितवात् । अस्मच्छब्दत्वादिति । अनन्यपरास्मच्छब्दत्वादित्यर्थः । तेषामिति क्रमेण यच्छब्दादीनामर्थ-