भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 557, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 557

पंचमस्तवके ] ईश्वरसाधनम् । ५२५ एवमन्येऽपि यः कः स इत्यादिशब्दा द्रष्टव्याः । तेषां बुद्धयुपक्रमप्रश्नपराम- र्शाद्युपहितमर्यादत्वात् , तस्य च वक्तृधर्मत्वात् । बुद्धयपक्रमो हि प्रकृतत्वं, जिज्ञासाऽऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति । एवञ्च संशयादिवा- चका अप्युन्नेयाः । न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् । शिष्यप्रतिबोधनाया- हार्यत्वेनाविरोधात् । को धर्मः कथंलक्षणक इत्यादिभाष्यवदिति । एतेन धिगहो बत हंतेत्यादयो निपाता व्याख्याताः ॥ ६ ॥ प्रत्ययादपि । लिङादिप्रत्यया हि पुरुषधौरेयनियोगाथी भवन्तस्तं प्रतिपाद- यन्ति । तथाहि— प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा । तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥ ७ ॥ प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम् , आत्मा ज्ञातव्य इत्याद्यव्यापनात् । नापीच्छामात्रम् , तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् । ततः प्रयत्नः परिशिष्यते । आत्मज्ञानभूतदयादावपि तस्याभावात् । तदुक्तं- ‘प्रवृत्तिरारम्भः’ इति । सैयं प्रवृत्तियतः सत्तामात्रावस्थिताद् , नासौ विधिः, तत्र शास्त्रवैयर्थ्यात् । अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् । न च प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् । न च प्रवृत्तिहेतुजननार्थं तदुप- योगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् । ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्य- त्वात् , तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्त्तकत्वाच्च , नियामकाभावात् । प्रकाशः । कथनम् । धर्म इति । ‘अथातो धर्मजिज्ञासा’ इत्यनेन शास्त्रप्रयोजनमभिधाय विशेषेण धर्मजिज्ञासोः शास्त्रारम्भे शिष्यजिज्ञासामुपादाय मीमांसाभाष्यम्-‘को धर्मः कथं लक्षणकः कान्यस्य साधनानीति’ यथेत्यर्थः । एतेन-बुद्ध्युपक्रमादीनां वक्तृधर्मत्वकथनेन । गर्हाविस्मयखेदानुशयानां वक्तृधर्म- त्वादित्यर्थः ॥ ६ ॥ लोके लिङादीनामाप्तेच्छायां शक्तिग्रहाद्वेदेऽपि स एवार्थः । न च वेदार्थे अस्मदादीनामिच्छा सम्भवतीति तदाश्रयेश्वरसिद्धिरित्याह—लिङादीति । नियोगोऽभिप्रायः । अन्येषां लिङर्थत्वे बाधकस्य वक्तव्यत्वादित्यर्थः । प्रवृत्तिरिति । अन्यत्र ज्ञानादेरपि प्रवृत्तिपदवाच्यत्वेऽत्र कृतिरेव सा विवक्षितेत्यर्थः । तथाच कृतिकारणेच्छाज्ञानविषयो विधिरित्यन्येषां मतम् । स्वमतमाह तज्ज्ञापक इति । यथा चाप्तेच्छाविषयत्वेन प्रवर्त्तकज्ञानविषय इष्टसाधनत्वमनुमीयते, तथा वक्ष्यति । तच्च परमतनिरासं विना न भवतीति तन्निराकर्तुमाह प्रवृत्तिः खल्विति । विधिकार्या-विधिज्ञानकार्ये- त्यर्थः । आत्मेति । चेष्टां विनाऽपि विध्यर्थसत्त्वादित्यर्थः । तत एवेति । इच्छामात्रेण विध्यर्थनि- र्वाहे बहुवित्तव्ययायाससाध्ययागाद्यकरणप्रसङ्गादित्यर्थः । तत इति । कृतौ नायम् , क्रियमाणयाग- स्योपयोगादित्यर्थः । आत्मज्ञानेति । मोक्षकामस्य ज्ञानविधाने भूतेषु दयाविधाने च चेष्टाया टिप्पणी । विषयस्तस्येति । तस्य ज्ञानस्य विषयः कृतिसाध्यत्वमिष्टसाधनत्वं च । विधिः विधिप्रत्ययस्यार्थः।