भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

५२४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः पदाहुरङ्गानि महेश्वरस्य ॥ इति ॥ एवम्भूतोऽर्थः प्रमाणवानिति चेन्न । प्रागेव प्रतिषेधात् । तथापि न तत्र प्रमाणमस्तीति चेत् । स्वर्गे अस्तीति का श्रद्धा । न ह्युक्तविशेषणे सुखे किञ्चित् प्रमाणमस्त्यस्मदादीनाम् । याज्ञिकप्रवृत्त्यन्यथानुपपत्त्या तथैव तदित्यवधार्यते इतिचेद् । न । इतरेत- राश्रयप्रसङ्गात्—अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः, प्रवृत्त्यन्यथानुपपत्त्या च तदवधारणमिति । पूर्ववृद्धप्रवृत्त्या तदवधारणेऽयमदोष इति चेन्न । अन्धपरम्प- राप्रसङ्गात् । विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवंविधमपि सुखं स्यादिति नास्ति विरोधः, तन्निषेधे प्रमाणाभावादिति चेत् । तुल्यमितरत्रापि । अत्रापि प्रयोगः—यः शब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्रयुज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेषे प्रयुज्यमानस्तस्य वाचकः, प्रयुज्यते चायं जगतकर्त्तरीति । अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुप- पत्तिरिति । एतेन-रुद्रोपेन्द्रमहेन्द्रादिदेवताविशेषवाचका व्याख्याताः । अपिच अस्मत्पदं लोकवद्वेदेऽपि प्रयुज्यते, तस्य च लोके नाचैतनेष्वन्य- तमदर्थः, तत्र सर्वथैवाप्रयोगात् । नाप्यात्ममात्रमर्थः, परात्मन्यपि प्रयोगप्रस- ङ्गात् । अपि तु यस्तं स्वातन्त्र्येणोच्चारयति, तमेवाह तथैवान्वयव्यतिरेका- भ्यामवसायात् । ततो लोकव्युत्पत्तिमनातिक्रम्य वेदेऽप्यनेन स्वप्रयोक्तैव वक्तव्यः, अन्यथाऽप्रयोगप्रसङ्गात् । न च यो यदोच्चारयति वैदिकमहंशब्दं, स एव तदा तस्यार्थ इति युक्तम् । तथा सति मामुपासीतेत्यादौ स एवोपास्यः स्यात् । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते, इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधि- गच्छेत्, तथा च उपासनां प्रत्युन्मत्तकेलिः स्यात् । लोकव्यवहारश्चोच्छिद्येत । तस्मान्नानुवक्ताऽस्य वाच्योऽपि तु वक्तैवेति स्थिते प्रयुज्यते-वेदे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्रोकवदिति । प्रकाशः । कणिशशालिनः॥ 'वराहं गावोऽनुधावन्ति' 'अप्सुजो वेतसः' इत्यादिवाक्यशेषरूपवेदविरोधिनी म्लेच्छ- प्रसिद्धेर्हियेति म्लेच्छप्रसिद्धौ निरस्तायां निष्प्रतिपक्षार्थव्यवहाराच्छक्तिग्रहः । यत्र तु वेदविरोधो नास्ति, तत्र पिकादिपदेष्वभियोगवत्त्वानम्लेच्छानां तत्प्रसिद्धिरेवादरणीयेत्यर्थः । प्रकृते विधिशेषीभूतं वाक्यशेषमाह सर्वज्ञतेति । तृप्तिः-स्वभोगेच्छाविरहः । अङ्गानि- धर्माः । उक्तविशेषणे-दुःखादिसम्भिन्नत्वाभावादिविशिष्टे । याज्ञिकेति । लौकिकसुखाऽतिशय- सुखं विना बहुवित्तव्ययायाससाध्ये कर्मणि प्रवृत्तिर्न स्यादित्यर्थः । एतेनेति । रुद्रादिपदेष्वपि रुद्रस्त्र्यम्बक इत्यादिवाक्यशेषाण्निर्णय इत्यर्थः । यदि अस्मच्छब्दस्योच्चारयितरि शक्तिस्तदा 'वाच्यस्त्वया मद्वचनात् स राजे'त्यत्र कविरेवास्म- च्छब्देनोच्येतेत्यत उक्तं स्वातन्त्र्येणेति । अन्यकर्तृकत्वेनोच्चारणाभावः स्वातन्त्र्यम् । अत एव 'गृभ्णामि ते सौभगत्वायै'त्यादावपि नेश्वरवाचकत्वम्, अस्यान्यपरतयैव ईश्वरेणोच्चारितवात् । अस्मच्छब्दत्वादिति । अनन्यपरास्मच्छब्दत्वादित्यर्थः । तेषामिति क्रमेण यच्छब्दादीनामर्थ-

पंचमस्तवके ] ईश्वरसाधनम् । ५२५ एवमन्येऽपि यः कः स इत्यादिशब्दा द्रष्टव्याः । तेषां बुद्धयुपक्रमप्रश्नपराम- र्शाद्युपहितमर्यादत्वात् , तस्य च वक्तृधर्मत्वात् । बुद्धयपक्रमो हि प्रकृतत्वं, जिज्ञासाऽऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति । एवञ्च संशयादिवा- चका अप्युन्नेयाः । न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् । शिष्यप्रतिबोधनाया- हार्यत्वेनाविरोधात् । को धर्मः कथंलक्षणक इत्यादिभाष्यवदिति । एतेन धिगहो बत हंतेत्यादयो निपाता व्याख्याताः ॥ ६ ॥ प्रत्ययादपि । लिङादिप्रत्यया हि पुरुषधौरेयनियोगाथी भवन्तस्तं प्रतिपाद- यन्ति । तथाहि— प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा । तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥ ७ ॥ प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम् , आत्मा ज्ञातव्य इत्याद्यव्यापनात् । नापीच्छामात्रम् , तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् । ततः प्रयत्नः परिशिष्यते । आत्मज्ञानभूतदयादावपि तस्याभावात् । तदुक्तं- ‘प्रवृत्तिरारम्भः’ इति । सैयं प्रवृत्तियतः सत्तामात्रावस्थिताद् , नासौ विधिः, तत्र शास्त्रवैयर्थ्यात् । अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् । न च प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् । न च प्रवृत्तिहेतुजननार्थं तदुप- योगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् । ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्य- त्वात् , तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्त्तकत्वाच्च , नियामकाभावात् । प्रकाशः । कथनम् । धर्म इति । ‘अथातो धर्मजिज्ञासा’ इत्यनेन शास्त्रप्रयोजनमभिधाय विशेषेण धर्मजिज्ञासोः शास्त्रारम्भे शिष्यजिज्ञासामुपादाय मीमांसाभाष्यम्-‘को धर्मः कथं लक्षणकः कान्यस्य साधनानीति’ यथेत्यर्थः । एतेन-बुद्ध्युपक्रमादीनां वक्तृधर्मत्वकथनेन । गर्हाविस्मयखेदानुशयानां वक्तृधर्म- त्वादित्यर्थः ॥ ६ ॥ लोके लिङादीनामाप्तेच्छायां शक्तिग्रहाद्वेदेऽपि स एवार्थः । न च वेदार्थे अस्मदादीनामिच्छा सम्भवतीति तदाश्रयेश्वरसिद्धिरित्याह—लिङादीति । नियोगोऽभिप्रायः । अन्येषां लिङर्थत्वे बाधकस्य वक्तव्यत्वादित्यर्थः । प्रवृत्तिरिति । अन्यत्र ज्ञानादेरपि प्रवृत्तिपदवाच्यत्वेऽत्र कृतिरेव सा विवक्षितेत्यर्थः । तथाच कृतिकारणेच्छाज्ञानविषयो विधिरित्यन्येषां मतम् । स्वमतमाह तज्ज्ञापक इति । यथा चाप्तेच्छाविषयत्वेन प्रवर्त्तकज्ञानविषय इष्टसाधनत्वमनुमीयते, तथा वक्ष्यति । तच्च परमतनिरासं विना न भवतीति तन्निराकर्तुमाह प्रवृत्तिः खल्विति । विधिकार्या-विधिज्ञानकार्ये- त्यर्थः । आत्मेति । चेष्टां विनाऽपि विध्यर्थसत्त्वादित्यर्थः । तत एवेति । इच्छामात्रेण विध्यर्थनि- र्वाहे बहुवित्तव्ययायाससाध्ययागाद्यकरणप्रसङ्गादित्यर्थः । तत इति । कृतौ नायम् , क्रियमाणयाग- स्योपयोगादित्यर्थः । आत्मज्ञानेति । मोक्षकामस्य ज्ञानविधाने भूतेषु दयाविधाने च चेष्टाया टिप्पणी । विषयस्तस्येति । तस्य ज्ञानस्य विषयः कृतिसाध्यत्वमिष्टसाधनत्वं च । विधिः विधिप्रत्ययस्यार्थः।

५२६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायो तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते, सोऽर्थविशेषस्तज्ज्ञापको वाऽर्थविशेषो विधिः प्रेरणा प्रवर्त्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति स्थिते विचार्यते । स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा, नियोक्तृधर्मो वेति ! न प्रथमः । इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः । असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात् ॥८॥ प्रकाशः । अभावेऽपि यत्नस्य सत्त्वादित्यर्थः । आरम्भो-यत्नः। तत्प्रत्यायनार्थमिति । शास्त्रस्य ज्ञापकतया स्वरूपसद्धेतौ शास्त्रानुपयोगादित्यर्थः । तदिदं परमतनिराकरणं विना न सिद्ध्यति, तदर्थमुपन्य- स्यति स हीति । कर्तृधर्मः-प्रवर्त्त्यपुरुषधर्मः । स्पन्द इच्छा प्रयत्नो वा । कर्मधर्मोऽपूर्वस्य क्रियाया वा धर्मः कार्यत्त्वादिः । करणधर्म इष्टसाधनत्वं शब्दव्यापारो भावना वा । नियोक्तृधर्म आप्ताभिप्रायः । तत्र स्पन्दस्य विधित्वं दूषयति इष्टहानेरिति । अन्यादृष्ट्यतिव्याप्तिमित्यर्थः । यत्नस्य विधित्वं दूषयति अप्रवृत्तेरिति । यत्नमात्रस्यानि- ष्टसाधनसाधारण्यादित्यर्थः । इच्छाया विधित्वे बाधकमाह विरोधत इति । इच्छाया विधित्वे तयैव तज्जननाद्विरोध इत्यर्थः । न चेच्छा ज्ञाता प्रयत्नजननी, किन्तु सत्तया । न च लिङ्श्रवणकाले सा सतीत्याह असत्त्वादिति । न च लिङेव तां जनयति । तत्र ज्ञानकारणत्वत्यागापत्तेः, लिङं प्रकाशिका । कर्त्तृधर्म इति मूलम् । स्पन्दो वा प्रयत्नो वा इच्छैवेत्यर्थः, स्पन्दश्च परम्परासम्बन्धेन कर्तृधर्म इत्यवधेयम् । कर्म्मधर्मो विति मूलम् । फलधर्मो वा अपूर्वधर्मो वा क्रियाधर्मो वेत्यर्थः । करण- धर्मो वेति मूलम् । शब्दधर्मोऽभिधा वा शब्दार्थीभूतप्रयत्नधर्मेष्टसाधनत्वं वेत्यर्थः । नियोक्तृ- मकरन्दः । स्पन्द इति । यद्यपि स्पन्दो न पुरुषधर्मस्तथापि तदवच्छिन्नशरीरे स्पन्द इति तथोक्तम् । टिप्पणी । तज्ज्ञापक इति । याग इष्टसाधनम् आप्ताभिप्रायविषयत्वात् इति रीत्येष्टसाधनत्वानुमापकः कैवलोऽनन्यलभ्य आप्ताभिप्राय एव विधिप्रत्ययार्थः, नत्विष्टसाधनत्वं तथा तस्यानुमानलभ्यत्वात्, अनन्यलभ्यस्यैव शब्दार्थत्वात्, तथाच यजेदित्यादौ विध्यर्थानुमापकतया विध्यर्थतया चाऽपेक्षणी- यस्यानुप्रायस्याश्रय ईश्वरः सिध्यति । शब्दप्रमाणातिरिक्तस्थलसाधारणप्रवृत्तिकारणचिकीर्षाजनकज्ञानविषयमिष्टसाधनत्वमेवेति परि- शेषात्साधयति इष्टहानेरिति । चिकीर्षारूपेच्छाविशेषस्य विधित्वं दूषयति विरोधत इति । विध्यर्थज्ञानादिच्छा जायते ततः प्रवृत्तिरिति निर्विवादम्, इत्थं च यदीच्छा विध्यर्थः स्यात्तदा विध्यर्थज्ञानात् इच्छाज्ञानात् प्रवृत्त्यनुकूलेच्छा जायेत तदिदमिच्छाज्ञानं मानसप्रत्यक्षरूपमेव, प्रत्यक्षे च विषयस्य कारणत्वादिच्छया जायेतेत्यन्योऽन्याश्रय इति भावः। ननु लौकिकप्रत्यक्षे एव विषयस्य कारणत्वं न तु शाब्दे ज्ञानेऽतो लिङा इच्छाज्ञानं जायेत ततः प्रवृत्तिरिति नान्योऽ- न्याश्रयोऽत आह असत्त्वादिति । इच्छाया ज्ञानं लिङा जायतां नाम इच्छा तु क्लृप्तकार- णेनेष्टसाधनताज्ञानादिनेव जायते नतु लिङाऽतस्तदानीमिच्छाया अनुत्पत्त्या प्रवृत्तिं प्रति स्वरूपस- त्कारणीभूताया इच्छाया अभावात् प्रवृत्तिर्न स्यादित्यर्थः। नन्वस्तु लिङपीच्छाकारणमत आह प्रत्यय- त्यागादिति । इष्टसाधनताज्ञानस्येच्छां प्रति कारणत्वं सर्ववादिसिद्धमेव, तत्र यदि लिङादिरपि कारणं

पंचमस्तवके ] ईश्वरसाधनम् । ५२७ स हि न स्पन्द एव, आत्मानमनुपश्येदित्याद्यन्वयातेः । ग्रामं गच्छतीत्याद्याव- तिव्याप्तेश्च । नाऽपि तत्कारणं प्रयत्नः । तस्य सर्वाख्यातसाधारणत्वात् । ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः । करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्त- स्याभावात् । संख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात् । ततो लिङादि- वाच्य एव प्रयत्न इति । न, कुर्यादित्यत्रापि तुल्यत्वात् । प्रयत्नमात्रस्य प्रकृत्यर्थ- त्वेऽपि तस्य पराङ्गताऽऽपन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत् । न, तथापि तुल्यत्वात् । न चैकस्य तद्वाचकत्वेऽन्यस्य तद्विपर्यय आपद्येत । एको द्वौ बहव एषिपतीत्यादौ व्यभिचारात् । तत्र द्वितीयसंख्येच्छादिकल्पने करोति प्रयतते

प्रकाशः । विनाऽपीच्छोत्पत्तेश्चेत्याह प्रत्ययेति । उपायगोचरप्रवृत्ताविष्टसाधनत्वज्ञानस्य हेतुत्वनिश्चयात् तत्स- ङ्कीर्णेच्छायाः प्रवर्त्तकत्वे लाघवादिष्टसाधनतैव विधिरित्याह सङ्करादिति । करोतीत्यत्र यत्नस्य कृधातुनैवोक्तत्वादाख्यातमात्रस्य यत्नार्थत्वे पौनरुक्त्यं स्यादिति नाख्या- तमात्रं यत्नमभिधत्ते, किन्तु लिङेवेत्याह नन्विति । ननु यदि प्रकृत्यर्थातिरिक्तो नाख्यातार्थः, तदा तत्प्रयोगो व्यर्थ इत्यत आह संख्येति । एकत्वादिसंख्यामात्रमाख्यातार्थः, तत्प्रत्यायनार्थमेव तत्प्रयोग इत्यर्थः । तर्हि लिङपि न यत्नार्थः, कुर्यादित्यत्र पौनरुक्त्यापत्तेः । अथाख्यातात् कृतेरुप- स्थितावपि तात्पर्याभावात् सा नान्वीयते, किन्तु संख्यामात्रम्, तर्हि करोतीत्यादावपि तुल्यमित्याह कुर्यादित्यत्रेति । यदि कुर्यादित्यत्र यत्नमात्रं कृधात्वर्थः, तस्य च चैत्रादिसमन्वितत्वमनुकूलत्वं वा प्रत्ययार्थ इति विशेषः, तदा करोतीत्यादावपि तुल्यमिति शब्दोत्तराभ्यामाह प्रयत्नमात्रस्येति । अपि च कृतेर्धात्वर्थत्वेऽपि प्रत्ययस्य तदर्थत्वं न दोषाय, प्रकृतिप्रत्यययोरन्यत्र समानार्थ- त्वदर्शनादित्याह न चेति । एकस्य प्रकृतिरूपस्य, अन्यस्य प्रत्ययरूपस्य, तद्विपर्ययस्तद्वाचक- त्वमित्यर्थः । अर्थैक इत्यादौ प्रकृत्यर्थातिरिक्तं द्वितीयमेकत्वादिकम् , एषिषतीत्यत्रापरेच्छा प्रत्य- यार्थः, तदा करोतीत्यत्र यत्नान्तरमेवाख्यातार्थ इत्यस्त्वित्याह तत्रेति । ननु द्वितीयसंख्येच्छा य-

प्रकाशिका । धर्म्मो वेति मूलम् । वक्तुरभिप्राय इत्यर्थः । तत्र न प्रथम इति मूलं कर्त्तृधर्म्मो वेत्यनेनैव कारिकाभागेन यद्यपि गतार्थं तथाप्यस्य प्रतिज्ञात्वं कारिकाभागस्य चोपसंहारत्वमिति मन्तव्यम् । यद्वा स्पन्दादौ कर्त्तृधर्म्मो न प्रथम इत्येवंपरत्वेन कारिकोत्तरं योजनीयम् । इष्टहानेरित्यादिमूलम् । स्पन्दस्य विधित्वेऽव्याप्तिरात्मानं पश्येदित्यत्रातिव्याप्तिश्च, ग्रामंगच्छतीत्यत्र यत्नस्य विधित्वे ग्रामं गच्छेदित्यत्र यत्नप्रतीत्यावश्यप्रवृत्तिः, इच्छाया विधित्वे इच्छाया इवेच्छाजनकत्वे विरोधो, लिङश्रुतिक्राले तस्या असत्त्वन्न लिङ्वेच्छाजनने प्रत्ययत्यागोऽन्यत्र प्रतीतकारणत्यागः, इच्छादिज्ञानस्य चेच्छादिजनकत्वे यागचिकीर्षावानित्पतोऽपि प्रवृत्त्यापत्तिरित्यप्रवृत्तिरेव दूषणम् । इष्टसाधनतासहितेच्छाया विधित्वे

मकरन्दः । तत्र न प्रथम इति मूलं कर्त्तृधर्म्मो नेति कारिकया गतार्थमिति यद्यपि, तथापि स्पन्दादित्रिके प्रथमः स्पन्दो नेत्यर्थः । उपसंहारश्च कर्त्तृधर्म्मो नेत्येके ।

टिप्पणी मन्येत तदा तद्व्यतिरेकेऽपि लिङादिरिच्छां जनयेदतो व्यतिरेकव्यभिचारः स्यात्, ततश्च प्रत्ययस्य इष्टसाधनताज्ञानस्य कारणत्वं परित्यज्येतातो नेच्छापि विध्यर्थः किंतु संकरात् दृष्टसाधनाज्ञान- संकीर्णेच्छाया उपायगोचरप्रवृत्तौ कारणत्वात् इष्टसाधनतैव विध्यर्थ इत्यर्थः ॥

[५२८] व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायां

इत्यादावपि तथा स्यात्। प्रत्येकमन्यत्र सामर्थ्यावधृतौ सम्भेदे तथा कल्पना- यास्तुल्यत्वात्। रथो गच्छतीत्यादौ तदसम्भवे का गतिरिति चेत्, तन्तवः पटं कुर्वन्तीत्यत्र था। लोकोपचारोऽयमपर्य्यनुयोज्य इति चेत्तुल्यम्। लिङः कार्यत्वे वृद्धव्यवहा- राद्व्युत्पत्तौ सर्वं समञ्जसम्। आख्यातमात्रस्य तु न तथेति चेत्। न विवरणा- देरपि व्युत्पत्तेः। अस्ति च तदिह—किं करोति? पचति, पाकं करोतीत्यर्थः इत्यादिदर्शनात्। तथापि फलानुकूलताऽपन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानक-


प्रकाशः।

त्नाननुभवान्न तथा, प्रकृतिप्रत्यययोः साम्येनान्वयानुपत्तेरित्यत आह प्रत्येकमिति। तथा चोभयो- पस्थितेरावश्यकत्वेनैकस्यानन्वयेऽप्यदोषादित्यर्थः। रथो गच्छतीत्यादावित्यादिपदाज्जानाति यतते निद्रातीत्यादेर्ग्रहणम्। तत्र धात्वर्थानुकूलयत्ना- भावेऽप्याख्यातप्रयोगात्। यदि चाऽचेतने व्यापारमात्रमाख्यातार्थः, तदा चेतनेऽपि तथेत्यर्थः। कृधातोर्यत्नार्थत्वस्योभयसिद्धत्वादचेतने यथा करोतेः प्रयोगो लाक्षणिकः, तथा रथो गच्छतीत्यादा- वाख्यातस्येत्याह तुल्यमिति। लिङः स्वाऽऽत्मनि प्रवर्त्तकत्वेन ज्ञाते कार्यताज्ञाने वृद्धव्यवहारेण शक्तिग्रहात्तस्य प्रयत्नार्थत्वे मानमस्ति, न त्वाख्यातमात्रस्येत्याह लिङ इति। पचति पाकं करो- तीत्यादौ यत्नार्थककरोतिना सर्वाख्यातविवरणाद् वृद्धव्यवहारादिव बाधकं विना विवरणादपि व्युत्पत्तेः। किं करोतीति यत्नविशेषप्रश्ने, पचतीत्युत्तरस्य यत्नार्थत्वं विनानुपपत्तेश्च प्रकृतेऽपि मान- मस्तीत्याह विवरणादेरिति। ननु धातुः स्वरूपेण स्वार्थं भावमाह, आख्यातन्तु यावता कर्मक्षणनिश्चयेन फलं सिद्ध्यति तावति वर्त्तते, ओदनं पचतीति दर्शनात्, न ह्येकेन कर्मक्षणेनोदनः सिद्धयति, अतः फलार्थो व्यापारसमूहो भाव्यत्वाद्भावनेत्युच्यते, भाव्यमानस्तु तस्य फलसाधनत्वात्, फलानुकूलता- विशिष्टयत्नवाच्यत्वे तु कल्पनागौरवमिति शङ्कते तथापीति। पचेस्तावत्तुषबुषप्रक्षेपणादिव्या- पारकलाप एवार्थः। तस्यैव रूपपरावृत्तिलक्षणफलं प्रत्यनुकूलता आख्यातवाच्या। अधिकयत्न- स्यापि वाच्यत्वे गौरवमिति शङ्कार्थः। तावन्मात्रपरं-धात्वर्थस्य फलानुकूलतामात्रपरं, न तु यत्न- परमित्यर्थः। ओदनं पचतीत्यत्र धात्वर्थः पाक ओदनानुकूल इत्यर्थे काष्ठेनौदनं पचतीतिवदोदनेन पाकेन करोतीति प्रयोगप्रसङ्गात्। न चेष्टापत्तिः। किं करोति। पचति, पाकं करोतीत्यनुभवस्य सार्वलौकि-


प्रकाशिका।

चावश्यकल्पनीयेष्टसाधनतासङ्कर इति लाघवादिष्टसाधनतैव विधिरस्त्वित्यर्थः। काष्ठेनौदनं पचती- तिवदिति। यद्यपि तत्र काष्ठकरणकः पाकः ओदनानुकूल इत्यन्वयसम्भवेऽपि न तादृशप्रयोगेऽपि पाके पाककरणत्वानन्वयात् पाकेन च पचतीति न प्रयोगः, तथापि पाकं करोतीति विवरणेन स्यादित्यत्रैव तात्पर्यम्। वस्तुत ओदनं पचतीत्यत्र ओदनानुकूलः पाक इत्यर्थे ओदनं पाकेनेति विवरणं स्यात् तृतीयानुकूलत्वलाभादिति मूलार्थः, एवञ्चौदनं पचतीति वक्तव्ये ओदनं पाकेनेति प्रयोगः स्यादिति प्रकाशस्यापि तदनुसारिणी व्याख्येति न कदाचिन्मूलप्रकाशयोरसङ्गतिरित्यवधेयम्।


मकरन्दः।

. . काष्ठेनौदनं पचतीतिवदिति। यद्यपि काष्ठकरणकः पाक ओदनानुकूल इत्यन्वयसम्भवात् प्रयोगेऽपि पाकेन पचतीति न प्रयोगप्रसङ्गः, पाके पाककरणत्वानन्वयात्, तथापि पाकं करोतीति

पंचमस्तबके ] ईश्वरसाधनम् । ५२६ ल्पनायां कल्पनागौरवं स्यात्, अतो विवरणमपि तावन्मात्रपरमिति चेत् । भवे- दप्येवं, यदि पाकेनेति विवृणुयात्, न त्वेतदस्ति । धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात् । ततस्तं प्रत्येव किञ्चिदनुकूलताऽऽपन्नं प्रत्ययेनाभिधानीय- मिति युक्तम् । तथापि तेन प्रयत्ननैव भवितव्यं, न त्वन्येनेति कुत इति चेत् । नियमेन तथा विवरणात् । बाधकं विना तस्यान्यथाकर्तुमशक्यत्वात् । अन्यथाऽतिप्रसङ्गात् ॥८॥ स्यादेतत्, यस्य कस्यचित् फलं प्रत्यनुकूलताऽऽपत्तिमात्रमेव करोत्यर्थः, न तु प्रयत्न एव, सोऽपि ज्ञानेनैवोपाधिना प्रत्ययेन वक्तव्यो, न तु यत्नत्वमात्रेण, प्रयत्नपदेनाविशेषप्रसङ्गात्, तद्वरं तावन्मात्रमेवास्तु लाघवाय, अन्यथा त्वनु- कूलत्वप्रयत्नत्वे द्वावुपाधी कल्पनीयौ, अचेतनेषु सर्वत्र गौणार्थास्तिष्ठोऽसति बाधके कल्पनीया इति चेत् । अत्रोच्यते— प्रकाशः । कत्वात्, कर्तृन्वयानुपपत्तेश्चेति परिहरति भवेदप्येवमिति । एवमप्यनुकूलव्यापारमात्रमाख्या- तार्थोऽस्तु, न त्वनुकूलयत्नः, तथात्वे बाधकं विनैवाख्यातमचेतनेषु गौणं कल्प्यमिति गौरवमित्याह तथापीति । यत्नार्थकरोतिनाऽऽख्यानार्थस्य विवरणात् तस्य चाबाधितत्वात् प्रमाणवतो गौरवस्या- पि न्याय्यत्वादित्याह नियमेनेति ॥ ८ ॥ ननु करोतिर्न यत्नार्थः, किन्त्वनुकूलव्यापारमात्रार्थः, यत्नोऽप्यनुकूलत्वेनैवाख्यातार्थः । अन्यथा आख्यातार्थस्य यत्नपदपर्यायतापत्तेः । अत एव—यत्न एवाख्यातार्थः, आनुकूल्यन्त्वन्व- यलभ्यम्-इत्यपास्तम् । एवञ्च धात्वर्थस्य पाकादेः साध्यताऽप्युपपद्यते। न च धातुर्नैव स्वार्थः साध्य- त्वेनोच्यते इति वाच्यम् । पाक इत्यत्रापि तत्प्रतीत्यापत्तेः । यत्नस्य वाच्यत्वेन गौरवापत्तेः । मुख्ये बाधकं विनैव रथो गच्छतीत्यादावाख्यातस्य गौणत्वापाताच्चेत्याह—यस्य कस्यचिदिति । क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वप्रतिसन्धानेन घटाङ्कुरयोः कृताकृतव्यवहारात् तृजन्त- कृधातुव्युत्पन्नकर्तृपदस्य कृत्याश्रयवाचकत्वाच्च कृञो यत्नार्थत्वम् । क्रियामात्रार्थत्वे तु क्रियाऽऽश्रयः कर्तृपदार्थः स्यादिति कारकेमात्रेऽतिप्रसङ्गः । एवञ्च कृञो यत्नार्थत्वात् तेन चाख्यातविवरणात्तस्यापि प्रकाशिका । कर्तृन्वयानुपपत्तेश्चेति । चैत्र ओदनं पचतीत्यत्रेति शेषः ॥ ८ ॥ परिमलस्तु तथापि पाकसिद्धता प्रतीयेत, न तु साध्यतेति सिद्धताज्ञापकप्रयोगोपलक्षणपरं पाकेनेत्युक्तमिति । अत एवेति । यत्नपदपर्यायतापत्तेरेवेत्यर्थः । नन्वेत्रेष्टापत्तिरित्यत आह गौरवापत्तेरिति । यत्नत्वापेक्षया व्यापारत्वस्य सामान्यत्वादिति भावः । मकरन्दः । विवरणं न स्यादित्यत्रैव तात्पर्यम् । यद्वा एतदस्वरसादेव स्वयं हेत्वन्तरमाह कर्तृन्वयानुपपत्ते- श्चेति, चैत्र ओदनं पचतीति शेषः । परिमलस्तु एवं पाकस्य साध्यता न प्रतीयेत, किन्तु सिद्धता, ततः पाकसिद्धताज्ञापकप्रयोगोपलक्षणपरं पाकेनेत्युक्तमिति ॥ ८ ॥ अत एवेति । यत्नपदपर्यायतापत्तेरित्यर्थः । नन्वेष्टापत्तावपि न क्षतिरित्याशङ्कयाह गौरवापत्तेरिति । व्यापारस्य सामान्यतया लघुत्व- मित्यभिमानेनेदम् । ६७ न्या० कु०

५३० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ९ कारिकाव्याख्यायां कृताकृतविभागेन कर्त्तृरूपव्यवस्थया । यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना ॥ ९ ॥ यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् । हेतुसत्त्वप्रति- सन्धानेऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणामङ्कुरादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते । अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषाद् घटा- दयः कृताः, न कृतास्त्वङ्कुरादय इति कुतो व्यवहारनियमः । तेन च सर्वमाख्या- तपदं विधीयते इति सर्वत्र स एवार्थ इति निर्णयः । तथा च समुदिते प्रवृत्तं पदं तदेकदेशेऽपि प्रयुज्यते, विशुद्धिमात्रं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् । प्रकाशः । यत्नार्थकत्वमित्याह कृताकृतेति । कृतिश्च करोत्यर्थः । एवमाख्यातस्य यत्नपदपर्यायताऽऽपत्तिं निरस्यति पूर्वेति । परस्मिन्नुत्तरकालवर्त्तिनि धात्वर्थे सति सैव कृतिरेव पूर्वा साधनीभूता भावनेत्युच्यते । तेन फलसाधनीभूतः प्रयत्नो भावना, सैव चाख्यातवाच्या । यद्वा फलानुकूलधात्वर्थपूर्वापरव्यापारप्रचयजनिका पूर्वापरस्मिन् पूर्वापरीभूतत्वे सति कृतिराख्याताथो भावना । भाव्यते फलमनयेति व्युत्पत्तेरित्यर्थः । नन्वेवं पूर्वापरीभूतत्वं यत्नत्वमनुकूलत्वञ्चेति त्रितयमाख्यातवाच्यमिति तदभावे कथमाख्यात- पदमचेतनेषु प्रयुज्यते इत्यत आह तथा चेति । यत्नस्य पूर्वापरीभूतत्वानुकूलत्वे प्रवृत्तमाख्यातं, धात्वर्थस्य फलानुकूलतामात्रे रथो गच्छतीत्यादौ प्रयुज्यते इति लाक्षणिकमित्यर्थः । समुदितप्रवृत्तस्य पदस्यैकदेशे प्रयोगे निदर्शनमाह विशुद्धिमात्रमिति । श्रोत्रियश्छन्दोऽधीते इत्यनुशासनाच्छन्दो- ऽध्येतृब्राह्मणव्यक्तिः, जन्मना ब्राह्मणो ज्ञेय इति स्मृतेर्जन्मसंस्कारविद्यासमुदायवद्ब्राह्मणव्यक्तिर्वा श्रोत्रियपदशक्या अतो विशुद्धब्राह्मणमात्रे यथा लक्षणया प्रयोगः, विशिष्टशक्तपदस्य विशेषणे शक्यसम्बन्धिनि तात्पर्यादित्यर्थः । ननु शक्यैकदेशे प्रयोगो न लाक्षणिकः, उपस्थित्यर्थं हि लक्षणा, विशिष्टशक्तपदाद्विशिष्टोपस्थितौ विशेषणमप्युपस्थितमेवेत्ययोग्यतया विशेष्यांशमपहाय विशेषणा- न्वयस्य मुख्यवृत्त्यैवोपपत्तेः । मैवम् । तस्य धर्म्यन्तरान्वितत्वेनोपस्थितस्येतरधर्म्येनाकाङ्क्षिततया स्वतन्त्रतदुपस्थित्यर्थं लक्षणाया न्याय्यत्वात् । अत एव 'पुरोडाशकपालेन तुषानुपवपती'त्यत्र पुरोडाशप्रयोजनकत्वेनोपस्थितस्य कपालस्य प्रयोजनान्तरानाकाङ्क्षितत्वात् स्वतन्त्रकपालोपस्थितयेऽधिष्ठानलक्षणा । पङ्कजं कुमुदमित्यत्र प्रकाशिका । योजनामात्रभेदायाह यद्वा फलानुकूलेति । अर्थप्रदर्शनपूर्वकं योजयति पूर्वापरस्मिन्निति । नन्वेवमिति । यद्यपि कृताकृतेत्यादिना यत्नत्वस्य यत्नपदपर्यायतापत्त्यानुकूलत्वस्य वाच्यतापरं प्रतीयते न तु पूर्वापरीभूतत्वस्यापि वाच्यत्वे काचन युक्तिरुक्ता, तथापि तत्प्रकारकप्रतीत्यनुरोधेन पूर्वापरीभूतत्वमपि वाच्यमिति त्रितयमपि वाच्यमित्युक्तम् । मकरन्दः । नन्वेवमिति । यद्यपि द्वयवाच्यतयैव यत्नपदपर्यायतानिरासस्तथापि पूर्वापरीभूतत्वप्रकारक- प्रतीतिमभ्युपेत्य तदप्याख्यातपदवाच्यमित्युक्तमिति ध्येयम् । टिप्पणी । करोत्यर्थो यत्न एवेति । यत्तु शाब्दिकाः कृञो यत्नार्थत्वे यतधातोरिवाकर्मकत्वापत्तिरिति, तन्न, द्वितीयार्थप्रकारकान्वयबोधं प्रति यतधातुजन्ययत्नविषयकोपस्थितित्वेनैव प्रतिबन्धकत्वं कल्प्यते न तु कृञ्धातुजन्योपस्थितित्वेनेति नास्त्यनुपपत्ति ।

अन्यथाऽपि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्था एवाचेतनेषु । न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता । अन्याय्यश्चानेकार्थत्वमिति स्थितेः। अत एवो- भयोऽपि-यावदुक्तं भवति पाकानुकूलवर्त्तमानप्रयत्नवांस्तावदुक्तं भवति पच- तीति । एवं तथाभूतार्तिवृत्तप्रयत्नोऽपाक्षीदिति । एवं तथाभूतभाविप्रयत्नः पक्ष्य- तीति । न तु पचतीति पाकानुकूलयत्किञ्चिदिति । अन्यथाऽतिश्रावेऽपि परिश्रम- शयाने पचतीति प्रत्ययप्रसङ्गात् । अपि च कर्तृव्यापार एव कृञर्थश्चेत्तन्न कर्त्ता, अन्यथा तद्व्यवस्थाऽनुपपत्तेः। न ह्यभिधीयमानव्यापारवत्त्वं कर्तृत्वम्, अनभिधानदशायां कुर्वतोऽप्यकर्तृत्व- प्रसङ्गात् । नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वं, योग्यताया एवानिरूपणात् । फलानुगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात्। नापि विव- क्षातो नियमः अविवक्षादशायामनियमप्रसङ्गात् । स्वव्यापारे नेदमनिष्टमिति चेत्। एवं तर्हि 'स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्ति कारके' इति न्यायेन करणादिवि- लोपप्रसङ्गः। न स्वव्यापारापेक्षया करणादिव्यवहारः, किन्तु प्रधानक्रियापेक्षया । अस्ति हि काञ्चित् क्रियामुद्दिश्य प्रवर्त्तमानानां कारकाणामवान्तरव्यापारयोगो,


प्रकाशः । पङ्कगतत्वेन उपस्थितस्य पङ्कजनिकर्तृत्वस्य धर्म्यन्तरनिराकाङ्क्षितत्वात् कुमुदपरत्वे पङ्कजपदस्य लक्षणेति विवक्षितं द्वितीयाध्याये । अपिच अचेतनेषु सर्वत्राख्यातस्य गौणत्वं मा भूदिति मानिनस्तव यत्नस्याख्यातवाच्यत्वान- भ्युपगमः, तच्च तवाप्यापतितमित्याह अन्यथाऽपीति । मध्यमोत्तमपुरुषलिङैः सम्बोध्यवक्तृ- विषयत्वाच्चित्रस्यादौ तत्प्रयोगः । प्रथमपुरुषेऽपि जानातीत्यादिप्रयोगश्चाऽचेतने त्वन्मते यथा गौणस्तथाऽस्मन्मते रथो गच्छतीत्यादावपि प्रयोग इत्यर्थः । न चाक्षादिपदवदनेकार्थत्वम् । अक्षादिपदवैधर्म्येण एकत्रैव वाचकता, अन्यत्र वृत्त्यन्तरेणापि प्रयोगोपपत्तेरित्याह न चेति । अत्रैवानुभवं प्रमाणयति अत एवेति । अतिश्रावेऽपीति । श्रमाच्छयानस्य श्रमशान्तेः पाकानुकूलत्वादित्यर्थः । कर्तृरूपव्यवस्थयेति व्याचष्टे अपि चेति । यस्य व्यापारं धातुराख्यातं वा प्राधान्येनाभिधत्ते, स्वतन्त्रश्चेतनोऽचेतनश्च स कर्तेत्यत्राभिधानं यदि विशेषणं, तत्राह न हीति । कर्तृत्वमज्ञात्वा तत्र कर्तृपदप्रयोगाभावादवगते कर्तृत्वे शब्देन तदभिधानम् , तेन कर्तृत्वावगम इत्यन्योन्याश्रयश्चेति भावः । अथाभिधानमुपलक्षण- मुपलक्ष्या च तयोग्यता, तत्राह नापीति । योग्यतावच्छेदकरूपाज्ञाने अह्या ज्ञानादित्यर्थः । न च प्रधानक्रियानुकूलव्यापारत्वमेव तदवच्छेदकमित्याशङ्केत्याह फलेति । फलानुकूलव्यापार- वत्तया यत्कारकं विवक्ष्यते, स कर्तेति नोक्तदोष इति मतं निरस्यति नापीति । ननु स्वव्यापारे सर्वेषां कर्तृत्वमिष्टमेवान्यत्र करणत्वादित्याह स्वव्यापार इति । तर्हीति । प्रधानक्रियापेक्षयैव

प्रकाशिका । अक्षादिपदवैधर्म्येणेति । तत्रैवात्र तुल्यवत्प्रयोगाभावेनेत्यर्थः । धातुराख्यातं चेति । धातोर्व्यापारफलवाचकत्वविकल्पेनायं विकल्पः ।

मकरन्दः । अक्षादिपदवैधर्म्येणेति । विनिगमकाभावात्तत्रोभयत्र शक्त्या नानार्थत्वमत्र चैकत्रैव निरु- पाधिप्रयोग इत्यत्र लक्षणा, अन्यथा गङ्गादिपदस्यापि तीरादौ लक्षणा न स्यादित्यर्थः ।

५३२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १० कारिकान्याख्यायां न त्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत् । तर्हि तदपेक्षयैव कर्तृकर्मादि- व्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम् । स्वातन्त्र्यादीति चेत् । ननु तदेव किमन्यत् प्रयत्नादिसंमचायादिति विविच्यभिधीयतामिति । तस्मात् सर्वत्र समानव्यापार एवाख्यातार्थः ॥ ६ ॥ तथापि फलानुकूलतैव प्रत्ययस्य प्रवृत्तिनिमित्तं, प्रयत्नस्त्वाक्षेपो लप्स्यते इति चेत्, न- भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः । तया विवरणश्रौव्यादाक्षेपानुपपत्तितः ॥ १० ॥ केन हि तदाक्षिप्येत । न तावदनुकूलत्वमात्रेण, तस्य प्रयत्नत्वेनाव्यापनात् । न हि यत्नत्वैकार्थसमवायेनेवानुकूलत्वम् । अत एव न संख्यया, तस्याः संख्येय- मात्रपर्यवसायित्वात् । कर्त्रेति चेत् । न । द्रव्यमात्रस्याकर्तृत्वात् । व्यापारवतश्चा- भिधाने व्यापाराभिधानस्यावश्याभ्युपगमनीयत्वात् । नापि धात्वर्थेन तदाक्षेपः । विद्यते इत्यादौ तदसम्भवात् । न ह्यत्र धात्वर्थो भावनाऽपेक्षी, सत्ताया नित्यत्वात् । तत्र न भविष्यतीति चेत् । न । पूर्वापरीभूतभावनाऽनुभवस्याविशेषात् । भावनो- परागेण ह्यतथाभूतोऽप्यर्थस्तथा भासते इति । न च पदान्तरलब्धयां भावनायांऽ- प्रकाशः। तत्कर्तृत्वं करणादिव्यावृत्तं तस्यैव किं लक्षणमित्यर्थः। स्वातन्त्र्यादीति । ‘स्वतन्त्रः कर्तेति’ पाणि- निलक्षणादित्यर्थः । तस्यान्यस्य व्यवस्थाबीजस्याभावाज्ज्ञानचिकीर्षाकृतिसमवायित्वमेव तद्वाच्य- मित्यह नन्विति ॥ ९ ॥ आक्षेपेति । पाकादीनां यत्नं विनाऽनुपपत्तेरित्यर्थः । पादत्रयस्य प्रागेव विवृतत्वार्दन्तिमं पादं व्याचष्टे केन हीति । तत्प्रयत्नत्वमित्यर्थः । न हीति । प्रयत्नस्याप्यनुकूल- त्वात् , तथात्वे वा रथो गच्छतीत्यादि तत्रापि गौणं स्यादित्यर्थः । तस्या इति । सङ्ख्यया सङ्ख्येय- मात्राक्षेपेऽपि न प्रयत्नाक्षेपः, प्रयत्ने सङ्ख्याया अभावादित्यर्थः । कर्त्रेति । आख्यातवाच्येनेत्यर्थः । परमते तस्याऽऽख्यातवाच्यत्वात् । कर्ता न द्रव्य- मात्रं, द्रव्यमात्रस्यायत्नवत्त्वात् तेन यत्नस्यानाक्षेपादित्याह द्रव्यमात्रस्येति । नापि व्यापारव- न्मात्रं, यत्नरहितंस्याप्यचेतनस्य व्यापारवत्त्वात् , यत्नरुपन्यापारवदभिधाने तु प्रयत्नोऽपि वाच्य एव स्यादित्याह व्यापारवतश्चेति । तत्रेति । आक्षेप इति शेषः । पूर्वेति । पचतीत्यादाविव धात्वर्थानुकूलयत्नानुभवादित्यर्थः । ननु सत्ताया नित्यत्वे पूर्वापरीभावो विरुद्ध इत्यत आह भाव- प्रकाशिका । अनुपस्थितेन कर्त्रा कथमाक्षेप इत्यत आह आख्यातवाच्येनेत्यर्थ इति । पचतीत्यादाविवैति । तथा च तत्रापि तदाक्षेप आवश्यक इति भावः । ननु यत्न- . मकरन्दः। ननु कर्ताऽप्यनुपस्थितः कथमाक्षेपहेतुः स्यादत आह आख्यातवाच्येनेति । पचतीत्यादाविवैति । तथा च तत्रापि तदाक्षेप आवश्यक इति भावः । टिप्पणी व्याप्येन व्यापकमाक्षिप्यते अनुकूलत्वन्तु क्रियान्तरसाधारणं न यत्नत्वव्याप्यमित्याह तस्येति । यत्नत्वैकार्थसमवायीति । यत्नत्वाश्रयमात्रवृत्तीत्यर्थः । तत्र नेत्यादि । अन्यत्र तु स्यादिति शेषः । नित्याया अपि सत्तायाः तिङन्तधात्वर्थतया साध्यत्वेन प्रतीयमानतया पचतीत्यादाविव भावनान्वयाविशेषेऽपि भावनाक्षेपकत्वाभावादित्यर्थः ।

पञ्चमस्तवके ] ईश्वरसाधनम्। ५३३ नुकूलतायाः प्रत्ययार्थस्यान्वयः। तदसम्भवात्। न खलु प्रकृत्यैव साऽभिधीयते। धातूनां क्रियाफलमात्राभिधायित्वात्। अन्यथा पाक इत्यादावपि भावनाऽनुभव- प्रसङ्गात्। नापि चैत्र इत्यादिना पदान्तरेण। प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थ- त्वात् ॥ ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात् तेनाभिधानमाक्षेपो वा, कथमन्यथौदनमित्युक्ते, किं भुङ्क्ते पचति वेति विशेषाकाङ्गेति चेन्न। पच- तीत्युक्ते किमोदनं तेमनं वेति विशेषाकाङ्क्षादर्शनात्। सा चाक्षेपाभिधानयोरन्यतर- मन्तरेण न स्यात्। तस्यां दशायां न चेदाक्षेपो नूनमभिधानमेवेति ॥ प्रकाशः। नेति। तदसम्भवादिति। ओदनं पचति चैत्र इत्यत्र पदान्तरेण भावनाऽनुपस्थानादित्यर्थः। अस्माकन्तु अनुकूलयत्नोपस्थितावपि अयोग्यतया स नान्वीयते इति भावः। न हि धातुनेव भावनोपरक्तार्थोऽभिधीयते इत्यत आह न खल्विति। प्रकृत्या धातुनेत्यर्थः। फलस्य धात्वर्थतया पच्यर्थो विक्कित्तिर्लाघवाद्, न तु तत्फलको व्यापारोऽधःसन्तापन्नादिः। न चैवं व्यापारविगमे फलसत्त्वकाले पचतीति प्रयोगापत्तिः। धात्वर्थानुकूलव्यापारवत्त्वस्याख्याता- र्थतया व्यापारकाल एव पचतीति प्रयोगात्। अथैवं धात्वर्थतया फलं क्रियेति तण्डुलादेः कर्मता न स्याद्, विक्कित्त्यादिजन्यफलभागित्वाभावादिति चेन्न। परसमवेतव्यापारफलशालिनः कर्मत्वात्। स च व्यापारो धात्वर्थ आख्याताथॊ वा, उभयथाऽपि समवेतव्यापारफलशालिनस्तण्डुलादेः कर्मत्वात्। विक्कित्त्यनुत्पादे व्यापाराविगमदशायां पाको वर्त्तते इत्यत्र पाकपदे व्यापारलक्षणेति मतमाश्रित्योक्तं दूषणमिदम्। अन्यथेति। यदि धातूनामेव भावनाऽभिधायकत्वमित्यर्थः। प्रकृतीति। प्रकृतिश्चैत्रपदं, प्रत्ययः प्रथमा, तयोरुभयोरपि शुद्धप्रातिपदिकार्थतया न कारकार्थत्वं, व्यापारवतः कारकत्वेन कारकार्थस्य भावनार्थत्वं सम्भाव्येतापीत्यर्थः। कथमिति। ओदनमित्युक्ते भावनाविशेषजिज्ञासा तत्सामान्यज्ञानं विना न स्यादित्यर्थः। कर्मपदादाक्षेपात्तोऽभिधानतो वाऽऽवश्यकी तदुपस्थितिरिति भावः। पचतीत्युक्त इति। कर्मपदानुच्चारणेऽपि तदभिधानाक्षेपयोरभावे पचतीत्यत्र भावनाधीर्न स्यादिति भावनाऽभिधायकमाख्यातपदं कल्प्यमित्यर्थः। ननु बीजेनाङ्कुरः कृतो बीजमङ्कुरं करोतीति यत्नं विनाऽपि कृञः प्रयोगाद् न यत्नो वाच्यः। नापि कर्तृपदं यौगिकं, तथा सति कृञो यत्नार्थत्वे तृजश्च कर्तृर्थत्वे धातुप्रत्ययार्थयोः कृतिकर्त्रोः परस्परमनन्वयापत्तेः, कृतिविशिष्टस्य कृतिनिराकाङ्क्षत्वात्। एवं कृञः क्रियार्थत्वे तृजश्च तदाश्रयवाचकत्वे तयोः परस्परमन्वय एवेत्युभयदर्शने कर्मपदवत् कर्तृपदं रूढमेव। तथाच कृताकृतविभागेन कर्तृरूपव्यवस्थया च कृञो यत्नोऽर्थ इति न तेन विवरणादा- ख्यातस्य यत्नार्थत्वं, किन्त्वनुकूलत्वेन व्यापार एव तद्वाच्यः। तेन चेतनाचेतनयोर्धात्वर्थानुकूल- व्यापारवत्त्वादाख्यातप्रयोगो मुख्यः। न चैवं पथि श्रमशयानेऽपि पचतीति प्रयोगापत्तिः, यत्नवाच- कत्वेऽपि तण्डुलक्रियानुकूलयत्नवति पचतीति प्रयोगापत्तेः। यदि तु तस्य प्रयत्नविशेषो वाच्यः, प्रकाशिका। स्याद्यातवाच्यत्वे विद्यते व्योम इत्यादौ सर्वत्र भावनान्वयः स्यादित्यत आह अस्माकन्त्विति। न च तत्रापि भावनानुभवो भवत्येवेति पूर्वोक्तेन विरोध इति वाच्यम्। वर्त्तमानत्वादिविशिष्ट- भावनानुभवेऽपि सत्त्वादौ धात्वर्थे भावनानन्वयात् इत्याशयात्। ननु कारकत्वेऽपि न यत्नवाचकत्वं व्यापारमात्रगर्भत्वात्कारकत्वस्येत्यत आह व्यापारतः कारकत्वेनेत्यादि।

५३४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां प्रकाशः । तदा ममापि व्यापारविशेषो वाच्य इत्यस्तु, यत्नधीस्त्ववाक्षेपात् धात्वर्थविशेषस्य पाकादेस्तेन विनाऽनुपपत्तेः । न चाख्यातस्य यत्नो वाच्यः, पचतीत्यस्य पाकानुकूलयत्नवानिति विवरणादिति वाच्यम् । तथा सति कर्तुरपि तद्वाच्यताऽऽपत्तेः । न हि पाकयत्न इत्येव विवरणम् । अथ तात्पर्य- विवरणस्याऽऽक्षेपादिनाऽपि निर्वाहः, तुल्यं यत्नेऽपि । अत एव रथो गच्छति विद्यते व्योमेत्यत्र न भावनाऽनुभवः । भावनाया धात्वर्थान्वयायोग्यतया त्वयाऽपि तत्र गौणत्वाङ्गीकारादिति । अत्र वदन्ति-चैत्रः पचतीत्यत्र पाकानुकूलयत्नानुभवात् सं एवाख्यातवाच्यः, लाघवात् । न त्वनुकूलव्यापारः, यत्नत्वजात्यपेक्षया व्यापारत्वस्योपाधित्वेन गुरुत्वात् । न चाचेतनेऽप्याख्यात- स्य मुख्यत्वार्थमनुगतो व्यापार एव शक्य इति वाच्यम् । शक्तिग्राहकेण लघुनि शक्तिग्रहात् । मुख्यत्वार्थं शक्तिकल्पने वृत्त्यन्तरोच्छेदापत्तेः । न च पाकस्य यत्नसाध्यत्वानुमित्या यत्नस्यापि लाभादन्यलभ्यत्वेन स नाख्यातवाच्यः । चैत्रः पचतीत्यत्र चैत्रः पाकानुकूलवर्त्तमानयत्नवान् प्रतीयते । न च पाकस्य वर्त्तमानयत्नेन प्राप्तिरस्ति, अतीतादौ व्यभिचारात् । नापि धात्वर्थेनानु- मिते यत्ने आख्यातेन वर्त्तमानत्वान्वयवोधः सम्भवी, यत्नस्यापदार्थत्वात् , स्वार्थव्यापारवर्त्तमान- त्ववोधनेनाख्यातस्य पर्यवसितत्वाच्च । न चाचेतने आख्यातस्य व्यापारावाचकत्वावधारणादेवं कल्पनेति युक्तम् । गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोपपत्तेः । यत्नविगमदशायां तज्जन्यव्यापारकाले पचतीत्यत्र वर्त्तमानव्यापाराभिधानमाख्यातेन लक्षण्या, रथो गच्छतीत्यत्र यथा, अतोऽन्यलभ्यत्वान्न तदनुरोधेन व्यापारे शक्तिः, अन्यथा तवापि यत्नकाले पचतीति न स्यादिति । ननु धात्वर्थानुकूलयत्नस्याख्यातशक्यत्वे एककृतिकाल पचतीतिवत् कृतेर्ध्वंसे अग्रिमकृतेर- नुत्पाददशायां मध्येऽप्यपाक्षीत् पक्ष्यतीति स्यात् । यत्नप्रचयस्य च शक्यत्वे पचतीति न स्यादेव, एकदा तस्याभावात् । अथ भूतभविष्यतोर्यत्नाभावनिरूप्यत्वात् यत्नकाले तदभावान्नरोक्तदोष इति चेन्न । ध्वंसानुत्पादयोर्यत्नविशेषप्रतियोगिकतया यत्नकालेऽपि तत्सत्त्वात् , तयोः सकलकृतिप्रति- योगिकत्वाभावात् । मैवम् । यत्राख्यातवाच्ये प्रचये एकैकस्य वर्त्तमानव्यवहारनिमित्तत्वं, तत्र तावतां ध्वंसैः प्राग- भावैश्च भूतभविष्यद्व्यवहारः, न तु वर्त्तमानव्यवहारनिमित्तकिञ्चिदभावात् , चेतनाचेतनभोजन- गमनादौ तथैव प्रयोगात् , प्रयोगे सति निमित्तानुसरणात् । धातोराख्यातस्य चानुकूलव्यापारवाच- कत्त्वादिभिरनन्यगतिकतया तथैव स्वीकाराच्चेति । चैत्र ओदनं पचति चैत्रेण पच्यते ओदन इत्यत्र कर्त्तरि कर्मणि आख्यातार्थसङ्ख्याऽन्वयात् कर्तृकर्मणी लकारवाच्ये, तेन वाच्यगामिनी सङ्ख्येति नियमो भवति, अन्यथाऽऽक्षिप्तसङ्ख्यान्वये प्रकाशिका । धात्वर्थविशेषस्येति । विद्यते व्योमेत्यत्र; भावनानुभवो न भवत्येवेत्यग्रे वाच्यमेवेति भावः । अन्यथा तत्रापि यत्नकाल इत्यादि, इदञ्च यत्नातिरिक्तस्यैव व्यापारस्य शक्यत्वमिति मतेन दूषणम्, अन्यथा यत्नस्यापि व्यापारतया शक्यत्वेनासङ्गतेः, पच्यते इत्यत्र तु कर्मवाचकत्व इष्टापत्तिरत आह- मकरन्दः । अन्यथा तथापि यत्नकाले पचतीत्यादि न स्यादिति । यद्यपि व्यापारत्वेन यत्न- स्यापि शक्यत्वात्तत्काले पचतीति स्यादेव, तथापि तेनापि रूपेण यदि यत्नो न शक्यस्तदेवं दूषणं वोध्यम् । अपरं शब्दप्रकाशे प्रपञ्चितम् ।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५३५ स्यादेतत्, अभिधीयतां तर्हि कर्त्ताऽपि । तदनभिधाने हि सङ्ख्येयमात्रमा- क्षिप्य सङ्ख्या कथं कर्त्तारमन्वियात्, न तु कर्मादिकमपि । शाकसूपौ पचति शाकसूपौदनम् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्त्तारमविरुद्धमनुग- च्छतीति चेत् । चैत्र ओदनं पचतीत्यत्र का गतिः । एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि तथा, यववराहादिवदिति चेत् । न, पच्यते इत्यादावपि तथाभावप्रसङ्गात् । चैत्राभ्यां चैत्रैरिति विरोधनिरस्ता सूप इत्य- विरुद्धं कर्म्म समनुक्रामतीति चेत् । चैत्रमैत्राभ्यां शाकसूपौ पच्येते इत्यत्र का गतिः । अन्यत्र निर्णीतेनार्थेन व्यवहार इति चेत् । न, पचतीत्यादावपि तथाभावप्रस- ङ्गात् । तत्र पूर्व्वक एव निर्णयः, पच्यते इत्यत्र त्वपर इति चेत् । न, विशेषाभा- वात् । आत्मनेपदपरस्मैपदाभ्यां विशेष इति चेत् । न, पच्यते पचते पद्यते इत्यादि विप्लवप्रसङ्गादिति । प्रकाशः । नियमो न स्यादिति वैयाकरणमतमाह—अभिधीयतामिति । का गतिरिति । ओदनमित्ये- कत्वेनोपस्थितेनैकत्वसङ्ख्याऽन्वयविरोध इति पचतीत्येकत्वमोदनान्वितं किन्न स्यादित्यर्थः । यववराहादीति । यवमयश्चरुर्भवतीत्यत्र दीर्घशूकस्य यवपदार्थतया निर्णीतस्य यवैर्यजेते- त्यादौ न यत्र वाक्यशेषस्तत्रापि तस्यैव यवपदवाच्यता यथेत्यर्थः । तथाभावेति । आख्याताभि- हितभावनायाः कर्त्रन्वयप्रसङ्गादित्यर्थः । तथा चौदनः पच्यते देवदत्त इति प्रयुज्येतेति भावः । अन्यत्रेति । चैत्राभ्यां चैत्रैः सूपः पच्यते इत्यत्र कर्मणि सङ्ख्याऽन्वयस्य निर्णीतत्वादत्रापि तथेत्यर्थः । पचतीत्यादाविति । देवदत्त ओदनं पचतीत्यादावपि कर्मगतैकत्वान्वयप्रसङ्ग इत्यर्थः । तत्रेति । पचतीत्यत्र सङ्ख्याऽन्वयः कर्त्रा, पच्यते इत्यत्र कर्मणेत्यर्थः । विशेपेति । क्वचित् कर्त्तरि क्वचित् कर्मणि सङ्ख्याऽन्वयस्य दृष्टत्वादन्यतरत्र नियामकाभावादित्यर्थः । पच्यत इति । पच्यत इति दृष्टान्तार्थम् । अतो यथात्मनेपदात् पच्यते इत्यत्र कर्मणा सङ्ख्यान्वयः, तया पचते इत्य- त्रापि स्यादित्यर्थः । नन्वाख्यातवाच्यत्वे कर्तुस्तद्वाच्यया सङ्ख्ययाऽन्वयबोधो न स्यात्, एकपदोपस्थापितपदार्थ- योर्मियोऽन्वयबोधस्याव्युत्पन्नत्वात् , अन्यत्र भिन्नपदोपस्थापितानामेवान्वयबोधादित्यत आह— प्रकाशिका । पच्यत इति । दृष्टान्तार्थमिति । तत्र प्रथम पृष्टेनैवेति । इदञ्च द्वयोस्तुल्यबलवत्तया- मित्यवधेयम् । टिप्पणी । वैयाकरणः शंकते स्यादेतदिति । इत आरभ्य एवं प्राप्ते इत्यतः प्राक्तनेन सन्दर्भेण, तन्मते चैत्रः पचतीत्यादावाख्यातेन कर्ता संख्या चाभिधीयते, तथाचैकत्ववच्चैत्राभिन्नकर्तृको वर्तमानकालिकः पाक इत्यन्वयबोधः । यदि तत्राख्याताभिहितायाः संख्यायाः संख्येयाविनाभूततयाऽऽक्षिप्तेन कर्त्रा सहान्वयो भवतीति ब्रूयात्, तदा कर्मणोऽपि संख्येयतया तत्रैव कुतो नान्त्रय इति शंकाऽनिवार्या स्यात् । कर्तुराख्यातवाच्यत्वे तु समानपदोपात्तत्वेन तत्रैव संख्याऽन्वय उपपद्यत इत्यर्थः । न तु कर्मादिकमिति । अन्वियादिति पूर्वेणान्वयः । का गतिरिति । कथं नोदने आख्यातार्थ- संख्यान्वयः ॥

५३६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां दृश्यते च समानप्रत्ययाभिहितेनान्वयः सङ्ख्यायाः । तद् यथा–भूयते सुप्यते इत्यादौ । न हि तत्र कर्त्रा कर्मणा वा अन्येनैव वा केनचिदन्वयः, किन्तु भावेनैव । अनन्वये तदभिधायिनोऽनर्थकत्वप्रसङ्गात् । आक्षिप्तेन चान्वये तत्रापि कर्त्रैवान्वयापत्तेः । को हि सुप्यते स्वपितीत्यनयोः कर्त्राक्षेपं प्रति विशेषः । स्यादेतत्, भावकर्मणोरित्याद्यनुशासनबलात्तावत् भावकर्मणी प्रत्यय- वाच्ये, ततस्तदभिहिता सङ्ख्या ताभ्यामन्वीयते । यस्तु प्रत्ययो न तत्रोत्पन्नः, तदभिहिता सङ्ख्या, 'मुख्यं वा पूर्वचोदनाल्लोकवद्' (मी० १२, २, २३,) इति न्यायेन कर्त्तारमेवाश्रयते इति नियमः । न । विपर्ययप्रसङ्गात् । 'शेषात् कर्त्तरि परस्मैपदं' 'कर्त्तरि शबित्यनुशासनबलाद्भावकर्त्तारौ प्रत्ययवाच्यौ, ततस्तदभिहिता सङ्ख्याऽपि ताभ्यामन्वीयते । यस्तु प्रत्ययो न तत्रोत्पन्नस्तदभिहिता संख्या तेनैव न्यायेन कर्म्म समाश्रयेदिति नियमोपपत्तेः । तस्मान्मतिकर्द्दममपहाय यथाऽनु- शासनमेव गृह्यते इति प्राप्तम् । एवं प्राप्तेऽभिधीयते— प्रकाशः । दृश्यते चेति । यथा भाववाचकाख्याताभिधेयसङ्ख्या तेनैवान्वीयते नत्वाक्षिप्तेन कर्त्रा, साका- ङ्क्षयोग्यसन्नपदार्थमात्रस्यैवान्वयप्रतियोगित्वात् , भिन्नपदोपस्थापितस्य गौरवेणाप्रयोजकत्वात् , तथाऽऽख्यातवाच्ययोः कर्तृसङ्ख्ययोरप्यन्वय इत्यर्थः । न हीति । अन्वये वा कर्तुरनेकत्वे द्विवहुवच- नयोः प्रयोगः स्यादिति भावः । यदि च भावसङ्ख्ययोरन्योन्यमनन्वयः तदा निश्चितान्वयपदत्त्वेनाख्यातमनर्थकं स्यादित्याह अनन्वय इति । यथाक्षिप्तेन कर्त्रान्वयः सङ्ख्यायाः स्यात् , तदा स्वपितीत्यत्रेव सुप्यत 'इत्यत्रापि तेनैव तदन्वयः स्यादित्याह आक्षिप्तेन वेति । को हीति । आक्षेपहेतोर्भावनाऽभिधानस्योभयत्रा- विशेषादित्यर्थः । मुख्यं वेति । 'आग्नावैष्णवमेकादशकपालं चरुं निर्वपेत्, संग्रामे सरस्वतीमप्याज्यस्य यजेते'- त्यत्राग्नावैष्णवधर्मा अग्रतो भवन्त्याहो सारस्वतधर्माः ? इत्यनियमे आग्नावैष्णवधर्मा एव प्रथमं भवन्ति । अत्र हेतुः-पूर्वचोदनात्-प्रथममुपस्थितत्वात् अस्योदाहरणं-लोकवदिति । यथा लोके यत्र विवादपदे साक्षिद्वयसत्त्वान्मुख्यः साक्षी पृष्टस्तमनुजानाति, द्वितीयश्च पृष्टस्तमपलपति । तत्र प्रथमपृष्टेनैव व्यवहारः तस्य मुख्यत्वात् , तथा कारकाणां प्रथमं कर्त्तैव देशित इति बाधकं विना तेनैव सङ्ख्याऽन्वीयते इत्यर्थः । भावकर्त्ताराविति द्वन्द्वः तेनैव, मुख्यं वेत्यादिनैवेत्यर्थः । कर्मैवेति । तथा च पद्यते ओदनं देवदत्त इति न स्यात् , किन्तु पद्यते ओदन देवदत्तेन इत्येव स्यादित्यर्थः । यथाऽनु- शासनं, व्याकरणानतिक्रमेणोत्यर्थः । तथा च कर्त्तरि विहितस्याख्यातस्य सङ्ख्या कर्त्रा कर्मणि च विहितस्य सा कर्मणाऽन्वेतीति नियम उपपद्यते इति भावः । प्रकाशिका । मुख्यं वेत्यादिनैवेत्यर्थ इति । ननु कारकेषु कर्तुः प्रथमं दर्शनादस्तु तथा कर्म्मणस्तु न प्रथमोपस्थितिरिति न तत्रास्य न्यायस्यावतार इति चेत् । न कर्तृविशेषविध्यवरुद्धतया तद- तिरिक्तविशेषानाकाङ्क्षत्वात् विशेषविध्यनवरुद्धेषु च कर्म्मण एव प्रथमोपस्थितत्वादित्याशयात् । मकरन्दः । मुख्यं वेत्यादिनैवेत्यर्थ इति । ननु तत्र कारके कर्तुः प्रथमं देशनादस्तु तथा, प्रकृते तु न तस्य न्यायस्यावतारः कर्मणः प्रथममदेशनादिति चेन्न । यथा कारकेषु प्रथमं देशनात् कर्तुर्गुख्यत्वं तयोद्देश्यतया कर्मणो मुख्यत्वमित्याशयादित्याहुः ।

पञ्चमस्तवके ] ईश्वरसाधनम्। ५३७ आक्षेपलभ्ये सङ्ख्येये नाभिधानस्य कल्पना । सङ्ख्येयमात्रलाभेऽपि साकाङ्क्षेण व्यवस्थितिः ॥ ११ ॥ सङ्ख्याऽपि तावदियं भावनाऽनुगामिनी; यं यं भावनान्वेऽति, तं तं सङ्ख्याऽ- पीति स्थितेः एकप्रत्ययवाच्यत्वनियमात् । भावना च शुद्धं प्रातिपदिकार्थमात्रमा- प्रकाशः । समानप्रत्ययोपात्तत्वे प्रत्यासत्त्यान्तरङ्गत्वात् सङ्ख्येयमात्रसाकाङ्क्षाऽपि सङ्ख्या भावनाऽन्वयिनै- वान्वेति । अग्निना चैत्र ओदनं पचतीत्यत्र चैत्रपदार्थस्य निर्व्यापारत्वेनोपस्थितस्य भावनाऽऽ- त्मकव्यापारसाकाङ्क्षत्वाद् भावनायाश्चाश्रयाकाङ्क्षत्वात् तेनैव भावनाऽन्वेति, न कर्मकरणादिना । द्वितीयादिना तस्य व्यापारवत्तयोपस्थितेर्व्यापारान्तरनिराकाङ्क्षत्वात्, भावनायाः साकाङ्क्षत्वेऽ- प्यन्यतराकाङ्क्षाया आन्वयानङ्गत्वात् । ओदनः पच्यते चैत्रेणेत्यत्र तु कर्तुर्व्यापारवत्त्वेनोपस्थिते न तत्र भावनाऽन्वयः किन्तु प्रथमानिर्दिष्टेण कर्मणा, तस्य व्यापारवत्त्वेनानुपस्थितेस्तत्साकाङ्क्षत्वात् । चैत्रेण सुप्यते इत्यत्र तु कर्तुर्निराकाङ्क्षत्वात् कर्मणश्चाभावाद् धात्वर्थेनैव सङ्ख्याया अन्वय इति आक्षेपादेव कर्तृकर्मणोर्लाभे सङ्ख्याऽन्वयो, नियमस्य चान्यथोपपत्तौ न ते लकारवाच्ये इत्याह सङ्ख्याऽपि तावदिति । शुद्धं-निर्व्यापारत्वेनोपस्थितम् । इदञ्च कर्तृकर्मणोराक्षेपलभ्यत्वं यद्भावनाविशेष्यत्वे सति प्रथमान्तपदोपस्थाप्यत्वं, न तु सङ्ख्यालिङ्गानुमितिविषयत्वम्, अनुमित्या सङ्ख्येयमात्रगतत्वेन सङ्ख्याप्रतीतेः । शब्दोपस्थापितसङ्ख्यायास्तदुपस्थापितेनैवान्वयनियमाच्चेति तत्त्वम् । किं तद्व्यापार- विशिष्टे तद्व्यापाराश्रयणम् , उत व्यापारान्तरविशिष्टे ? तत्र नाद्य इत्याह आत्माश्रयत्वादिति । अन्त्ये, त्वनवस्थितेरिति भावः । प्रकाशिका । केचित्तु यथा कर्तुः प्रथमोपस्थितत्वं प्राधान्यं तथा च कर्म्मण उद्देश्‍यत्वं प्राधान्यमित्याशय इति वदन्ति । ततुच्छम्-तेनैवेति ग्रन्थविरोधात् एवमपि विनिगमकाप्राप्तेश्चेति । यद्भावनाविशेष्यत्वे सतीति । भावनाविशेष्यस्य कर्तुः कर्म्मणो वा प्रथमान्त- पदोपस्थाप्यत्वमेवाक्षेपलभ्यत्वमित्यर्थः । मिश्रास्तु विशिष्टमेव पारिभाषिकमाक्षेपलभ्यत्वमितरकारक- व्यावृत्तं, तत्र च क्तान्तपदोपस्थाप्येऽतिव्याप्तिरिति सत्यन्तम् । सुप्यत इत्यादिभावप्रत्ययान्तोपस्था- मकरन्दः । यद्भावनेति । भावनाविशेष्यस्य कर्तुः कर्मणो वा प्रथमान्तपदेनोपस्थाप्यत्वमेवाक्षेपलय- त्वमिति भावः । टिप्पणी । आक्षेपलभ्य इति । संख्येये कर्तरि, आक्षेपलभ्ये सति, अभिधानस्य शक्तेः, कल्पना आख्यातस्य न भवति अनन्यलभ्यो हि शब्दार्थ इति न्यायात् । नन्वेवमाख्याताभिहित- संख्यायाः कर्त्तर्येवान्वयो न कर्मणीति कुतोऽत आह संख्येयमात्रेत्यादि । तुशब्दोऽ- प्यर्थकः, संख्यायाः संख्येयमात्राक्षेपित्वेऽपि यं यं पदार्थं भावनाऽन्वेति तं तं संख्यापीति व्युत्पत्त्या व्यवस्थितिः संख्याऽन्वयनियमः, तथाच कर्तृविवक्षिताख्यातोपस्थाप्यसंख्यायाः कर्तरि, कर्म्म- विहिताख्यातोपस्थाप्यसंख्यायाः कर्मण्यन्वय इति भावः । ६८ न्या० कु०

५३८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकान्यायार्थो काङ्क्षति । न हि व्यापारवन्तं व्यापार आश्रयते, आत्माश्रयत्वात् , समवायं प्रति तदनुपयोगात् , विजातीयव्यापारवतोऽकर्तृत्वाच्च । न च द्वितीयाद्याः प्रातिपदिकविभक्तयः । ततः प्रथमानिर्दिष्टेनैव भावनाऽन्वीयते इति तस्यान्वय- योग्यतानियमात् सङ्ख्याऽपि तदनुगामिनी तेनैवान्वीयते इति नातिप्रसङ्गः, नञर्थवत् । यथा हि चैत्रो न गौरो न स्पन्दते न कुण्डलीत्यादौ विशेषण- विशेष्यसमभिव्याहारविशेषेऽपि नञा तदनभिधानावशेषेऽपि नञर्थस्य विशेष- णांशैरेवान्वयो न विशेष्यांशेन । ननु बाघात्तत्र तथा, न हि विशेष्येण तदन्वये विशेषणोपादानमर्थवद्भवेत् , तन्निषेधेनैव विशेषणनिषेधोपलब्धेः । उभयनिषेधे चावृत्तौ वाक्यभेदादनावृत्तौ निराकाङ्क्षत्वादिति चेत् । न, तुल्यत्वात् । समानप्रत्ययोपात्तभावनाऽन्वित्तान्वयो- पपत्तौ बाधकं विना सन्निहितत्यागे व्यवहितपरिग्रहस्य गुरुत्वात् । भावनायाश्च सामान्याक्षेपेऽपि साकाङ्क्षपरित्यागे निराकाङ्क्षान्वयानुपपत्तेः । न ह्यन्यतराकाङ्क्षा अन्वयहेतुः, अपि त्बुभयाकाङ्क्षा । प्रातिपदिकार्थो हि फलेनान्वयमलभमानः क्रिया-

प्रकाशः । युक्त्यन्तरमाह समवायं प्रतीति । तदनुपयोगाद् = व्यापारवदनुपयोगात् । भावनाया इव तत्समवायस्यापि शुद्धप्रातिपदिकार्थापेक्षतया भावनादिविशिष्टनिराकाङ्क्षत्वादित्यर्थः । यद्वा समवायो मेलकः । यन्मेलकस्य पूर्वापरीभूतभावनावचाकेनाख्यातेनैव बोधितत्वाद् न तदन्वयाय भावनान्तरापेक्षेत्यर्थः । नन्वात्माश्रयानवस्थाभ्यां सजातीयव्यापारवदनाकाङ्क्षेऽपि द्वितीयाद्युपनीतविजातीयव्यापारवत् साकाङ्क्षत्वं स्यादित्यत आह विजातीयेति । तथासत्यऽयोग्य- त्वादनन्वयापत्तिः, न हि घटानुकूलव्यापारेण पाककर्तृत्वं दृष्टमित्यर्थः । ननु शुद्धप्रातिपदिकार्थापेक्षिण्यपि भावना कुतो न द्वितीयाद्युपनीतेनान्वेतीत्यत आह न चेति । उभयोपस्थितावपि साकाङ्क्षेण सहान्वयो भावनाया न निराकाङ्क्षेणेति दृष्टान्तेन स्पष्ट- यति नञर्थवदिति । न चैत्र इत्यादिना क्रमेण जातिगुणकर्मद्रव्याणां विशेषणानां निषेध्यत्वमुक्तम् । आवृत्ताविति । उभयनिषेधे च सकृदुच्चरितस्य नञोऽन्यतरनिषेधेनैव निराकाङ्क्षत्वात् तदर्था- न्वयार्थमावृत्तिकल्पने पदावृत्तिरूपवाक्यभेदापत्तिरित्यर्थः । अनावृत्ताविति । सकृदुच्चरितनञो येन केनचिदेकेनैव चरितार्थत्वाद् निराकाङ्क्षत्वादित्यर्थः । भावनाऽन्वयिनैव सङ्ख्याऽन्वेतीत्यत्राभिमतं नियामकं स्पष्टयति समानेति । यद्यपि व्यापारा- त्मिका भावना व्यापारिामान्यमाकाङ्क्षति आक्षिपति, तथापि साकाङ्क्षेण व्यापारिणा प्रातिप- दिकार्थेनान्चीयते, न तु निराकाङ्क्षेण कारकान्तरेणेत्याह सामान्येति । उभयाकाङ्क्षामह प्राति-

प्रकाशिका । प्येऽतिव्याप्तिरिति प्रथमान्तेत्यादि व्याचक्षते भावनादिविशिष्टेति । सजातीयव्यापारमभिप्रेत्य । ननु भावनासमवायस्यापदार्थत्वेन तदन्वयो न शब्दान्पदमपीत्यरुचेराह यद्वेति । भावनान्तरापेक्षेति । तथा च शुद्धप्रातिपदिकमात्राकाङ्क्षैवेति भावः ।

मकरन्दः । भावनादिविशिष्टेति । सजातीयव्यापारमभिप्रेत्य । ननु भावनासमवायो न पदार्थः, किन्तु तदन्वय इति तस्यान्वयप्रतियोगित्वाभावान्निराकाङ्क्ष- त्वेऽप्यदोष इत्यरुचेराह यद्वेति । भावनान्तरेति । तथा च शुद्धप्रातिपदिकार्थगात्राकाङ्क्षैवेति भावः ।

पञ्चमस्तवके ] ईश्वरबाधनम् । ५३६ सम्बन्धमपेक्षते, भावनाऽपि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्व- यहेतुः । कटं कटेनेत्यादि तु कारक तयैव फलसमन्वितं न व्यापारात्तरमपेक्षते इति निराकाङ्क्षमिति । अत एवो'ऽऽस्यते सुप्यते' इत्यादौ नाक्षिप्तेनान्वयः। न हि चैत्रेणेति तृतीयान्त- शब्दस्य भावनायामाकाङ्क्षाऽस्ति । भाव्याकाङ्क्षाऽस्तीति चेत् । न, फलेन शयना- दिधात्वर्थेनान्वयात् । फलसम्बन्धिनश्चात्र कत्र्र्ननतिरेकात्, न हि शयनादयो धात्वर्थाः कत्र्र्तातरेकिसंबन्धाः । न च फलतत्संबन्धिब्यतिरेकेणान्यो भाव्यो नाम यमपेक्षेत ।


प्रकाशः । पदिकार्थ इति । फलेन-धात्वर्थेन, क्रियासम्बन्धं व्यापारसम्बन्धमित्यर्थः । कटं कटेनेति । अत्र द्वितीयातृतीयाभ्यां कारकविभक्तिभ्यां क्रियाऽनुकूलव्यापारसहितस्यैवो पस्थितेर्न भावनाऽऽका- ङ्क्षेत्यर्थः । ननु यदि स्वपिति इत्यादावाक्षिप्तेन कर्त्राऽन्वयस्तदा सुप्यते इत्यादावपि तथा स्यादित्यत आह अत एवेति । अत एव उभयाकांक्षा निवन्धनोऽन्वय इत्यर्थः । भाव्यं भावनाजन्यं, फलञ्चेत्तत्राहं फलेनेति । अथ फलसम्बन्धि कर्म भाव्यं, तत्राह फलेति । धातूनामकर्म्मकत्वात् तदाश्रयत्वं कत्र्तुरेवेत्यर्थः । तस्य च चैत्रेणेति तृतीयया कर्तृत्वोपस्थितेर्न भाव्यत्वेनान्वयान्तरमिति भावः । ननु चैत्रस्तण्डुलान् पचति इत्यत्र भावनाऽन्वयश्चैत्रे सम्भवत्याश्रयत्वात् । चैत्रेण पच्यन्ते तण्डुला इत्यत्र तण्डुलानां न तावद्विषयत्वेन भावनाऽन्वयः, यत्नस्य विक्लित्त्यनुकूलव्यापारविषयत्वात् । विषयत्वेनान्वये वा चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां विषयत्वेन भावनाऽन्वयापत्तौ सङ्ख्याया अपि तदन्वयापत्तेः । नाप्याश्रयतया, भावनाया अतदाश्रितत्वात् । न च चैत्रेण भावनाऽन्वयः, तृतीयार्थयत्नेनावरुद्धतया भावनायास्तदनन्वयात् । अचेतने वा कथं सङ्ख्याऽन्वयनियमः ? । तत्र भावनाया अनन्वयात् । यत्र च पचतीत्येव प्रयुज्यते, तत्र कथं भावनायाः कर्त्रन्वयः ? । यत्र वा चैत्रः कर्त्ता पचत्योदनम् इति प्रयोगः, तत्र चैत्रेणेतिवत् कर्तृत्वेनैवोपस्थितावाकाङ्क्षाविरहा- द्भावनाऽनन्वये कथं कर्त्तरि सङ्ख्याऽन्वयः ? । उच्यते—यत्र यद्विशेष्यं, तेन सङ्ख्याऽन्वयः । तथा हि चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां कर्मत्वेनान्वयात् तण्डुलवृत्तिफलजनकव्यापारजनकयतनाश्रयश्चैत्र इति प्रतीतेः स विशेष्यः । चैत्रेण पच्यन्ते तण्डुला इत्यत्र चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयास्तण्डुलाः प्रतीयन्ते इति


प्रकाशिका । तृतीयार्थयत्नेनेति । ‘कर्त्तृकरणयोस्तृतीये’त्यनेन कर्त्तरि तृतीयानुशासनादिति भावः । ननु तत्राक्षिप्तेनैव चैत्रादिना भावनान्वयोऽन्यथा तदनन्वय एवेत्यरुचेराह यत्र वा चैत्र इति । यत्र यद्विशेष्यमिति । आख्यातवाच्यविशेष्यमित्यर्थः । आख्यातवाच्यश्च कचिद्यत्नः क्वचिद्व्यापार इति । तण्डुलवृत्तीत्यादि । फलं द्वितीयार्थः, तदेव कर्मत्वं, वृत्तिस्तु संसर्गः, व्यापारश्च धात्वर्थः, जनकत्वं च संसर्गः, यत्नश्चाख्यातार्थः, तस्य च व्यापारेण समं जनकत्वं देवदत्तेन सममाश्रयत्वं संसर्ग इति भावः । चैत्रवृत्तीत्यादि । अत्र च यत्नस्तृतीयार्थः व्यापारो


मकरन्दः । तृतीयेयेति । ‘कर्तृकरणयोस्तृतीये’ति कर्तृत्वे तृतीयाऽनुशासनादिति भावः । ननु अत्राक्षिप्तेन चैत्रादिना भावनाऽन्वयः, अन्यथा तदनन्वय इष्ट एवेत्यरुचेराह यत्र चेति । यद्विशेष्यमिति । आख्याततात्पर्यविषयीभूतार्थविशेष्ये इत्यर्थः। अत एवाह अचेतनेऽपीति ।

५४० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्यायां स्यादेतत्, किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितान- भिहितव्यवस्थाऽभावादिति चेत् । न, चैत्रमिति प्रथमान्तस्यासाधुत्वात् । द्विती- प्रकाशः। यत्नस्य परम्परया तण्डुला विशेष्याः । एवं यद्यप्युभयत्र चैत्रः कर्त्ता तण्डुलाः कर्माणि, तथापि यत्नविशेष्ये सङ्ख्याऽन्वयः । अचेतनेऽपि रथो ग्रामं गच्छतीत्यत्र ग्रामवृत्तिफलजनकव्यापाराश्रयो रथः प्रतीयते, रथेन गम्यते ग्राम इत्यत्र रथवृत्तिव्यापारजन्यफलाश्रयो ग्राम इति, तत्रापि विशेष्ये सङ्ख्याऽन्वयः । चैत्रेण सुप्यते इत्यत्र न चैत्रो भावनाविशेष्यः, तृतीयार्थाविरुद्धत्वात्, कर्म तत्र नास्त्येव । अतो धात्वर्थ एव भावनाविशेष्यः, फलत्वाद्दिषयत्वाच्चेति तत्र सङ्ख्याऽन्वयः । न च प्रातिपदिकार्थे भावनाऽन्वयेऽपि न सङ्ख्याऽन्वयः, प्रथमोपनीतसङ्ख्याऽन्वयेन च तस्य तदनाकाङ्क्षत्वादिति वाच्यम् । प्रथमाऽऽख्याताभ्यामेकस्या एव सङ्ख्याया अभिधानात्, चैत्रो दण्डीत्यत्रेव सामाना- धिकरण्यानुरोधात् । अन्यथा तन्मते प्रथमाऽर्थसङ्ख्याऽन्वयश्चैत्रे न स्यात्, आख्यातेनैव स्ववा- च्यकर्तृसङ्ख्याऽभिधानात् । नापि पचतीत्यत्र पाकयत्नवानिति विवरणात् कर्त्ता आख्यातवाच्यः । कर्तुरनन्यलभ्यत्वेनावाच्यत्वस्थितौ विवरणस्य तात्पर्य्यविषयपरत्वात्, द्वन्द्वादिसमासस्य विप्रेहेण विव- रणोऽपि तत्र शक्त्यभावाच्च । अत्रास्मत्पितृचरणाः—कृतिरूपकर्त्तृत्ववत् कर्म्मत्वमपि लकारवाच्यम्, तद्धर्मिणोरन्यत एव लाभात् । तण्डुलान् पचतीत्यत्र (१) द्वितीयात इव चैत्रेणौदनः पच्यते इत्यत्रान्यतः कर्म्मत्वाला- भादित्याहुः । कर्तृकर्मकरणादीनामभिहितानभिहितत्वविशेषाभावे कटं करोति चैत्र इत्यत्र विभक्तिपरिणामे प्रयोगः किं न स्यादित्याह—किमिति । चैत्रशब्दस्य पुंलिङ्गत्वात् प्रथमायां तद्रूपमसाधित्याह प्रकाशिका। धात्वर्थः फलं च कर्म्मत्वरूपमाख्यातार्थः कृतिजन्यत्वादिकश्च संसर्ग इति भावः । न चैवं कर्म्मत्व- स्याख्यातवाच्यत्वे चिन्तामणिकारीयमतभेदः, आख्यातवाच्यकर्त्तृत्वे कर्म्मत्वाधिकरणत्वं संख्यान्व- यनियामकमित्येतावता चिन्तामणिकारीयमतभेदात् । कर्म्मत्ववाचकता तु कर्माख्यातस्योभयमतेऽपीति भावात् , एषा च रीतिः फलोपलक्षितव्यापारवाचकत्वे धातोः, यदा तु फलविशिष्टव्यापार एव धात्व- र्थोऽन्यथा त्यजिगत्योः पर्यायतापत्तिरिति मतं, तदाश्रयत्वरूपमेव कर्मत्वं द्वितीयायाः आख्यातस्य चार्थः, तत्प्रकारकप्रतीत्यनुरोधादन्वयश्च पूर्ववदेवेत्यवधेयम् । केचित्तु फलस्य विशेषरूपेण धातुवा- च्यत्वं सामान्येन तु द्वितीयादिवाच्यत्वमिति फलस्य धातुवाच्यत्वपक्षेऽपि पूर्वैव रीतिरित्याहुः । तद्धर्म्मिणोरिति । कर्त्तृत्वधर्मित्वधर्मिणोः, कर्त्तृधर्मिणोरित्यर्थः। द्वितीयाया इति। तथा च वाच्यतया चैत्रोपस्थितेः तथात्वेन कटं नापेक्षते किन्तु भावकत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः । मकरन्दः। तद्धर्मिणोरिति । कर्त्तृत्वकर्मत्वधर्मिणोः कर्त्तृकर्म्मणोरित्यर्थः । इत्याहुरित्यस्वरसोद्भावनम् । तद्बीजन्तु-तथाप्याश्रयत्वमात्रमनन्यलभ्यतया लकारवाच्यं, पर- स्यचैतक्रियाफलशालित्वं हि कर्म्मत्वमिति चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयत्वमेव तस्य कर्म्मत्वं वाच्यम् । तत्र तृतीयया यत्नस्य धातुना फलावच्छिन्नव्यापारस्याभिधानेऽपरस्यानन्यलभ्यत्वादिति । द्वितीयाया इति । तथा च भाव्यतया चैत्रस्योपस्थितेस्तथात्वेन कटं नापेक्षते, किन्तु भाव- कत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः । ( १ ) अत्र द्वितीयाया इति प्रकाशिकामकरन्दाभिमतः पाठः ।

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५४१ यान्तस्य तु कर्म्मवचनत्वेन तत्संबन्धाद्भाव्यानपेक्षणीभावेन भावकमात्रमपे- क्षेत । न च कटस्य चैत्रं प्रति भावकत्वं, विपर्ययात् । अनाप्तेन तु विवक्षायां प्रयु- ज्यत एव । प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि । न, नित्यसन्दिग्धत्वेन वाक्यार्थास- मर्षकत्वात् । ततस्तदुपपत्तये विशेषस्य व्यञ्जनीयत्वात् । व्यज्यतां तर्हि तृतीयया चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत् । न, अप्रयो- गात् । न ह्यनाप्तेनाऽप्येवंप्रायाणि प्रयुज्यन्ते । लक्षणाविरोघेन कुत एतदेवेति चेत् । लोकस्यापर्य्यनुयोज्यत्वात् । न हि गार्गिक्येति पदं साध्विति श्लाघाऽभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते । तस्य तदुपाधिनैव विहितत्वादिति चेत् । एतदेव कुतः ? लोके तथैव प्रयोगदर्शना- दिति चेत् । तुल्यम् । करोतीत्यादिकर्म्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते, क्रियते इति कर्तृविभक्तिसमभिव्याहारेणैवेति किमत्र क्रियताम् । इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेनेह्येतावान् परामर्शः सर्वेषां हृदि पदमादधातीत्यभिधानानिभिधानविभाग एव व्युत्पादनदशायां पेशल इति । स्यादेतत्, भवतु सर्वाख्यातसाधारणी भावना, कालविशेषसंबन्धिनी सा लडाद्यर्थः, कालत्रयापरामृष्टा लिङर्थ इति चेत् । न, यत्नपदेन समानार्थत्वप्रस- ङ्गात् । विषयोपरागानुपरागाभ्यां विशेष इति चेत् । न, यागयत्न इत्यनेन पर्याय- प्रकाशः । चैत्रमितीति । भाव्यानपेक्षिणीति । द्वितीयायाः कर्मत्वाभिधायकत्वेन भाव्यानपेक्षिणी भाव- नेत्यर्थः । नित्येति । कर्तृकर्मभावे इति शेषः। लोकस्येति । व्याकरणस्याप्यनादिप्रयोगानुपजीव्यैव शब्दान्वाख्यायकत्वादित्यर्थः । तुल्यमिति । अनादिः प्रयोगोऽस्माकमप्युपजीव्य इत्यर्थः । इममेवेति । बालव्युत्पत्त्यर्थं प्रकृतिप्रत्ययविभागस्येवाभिहितानभिहितत्वस्यापि व्युत्पादन- मित्यर्थः । वस्तुतो यत्पदस्य यत्पदसमभिव्याहारेणैव प्रयोगनियमः, तस्य तत्पदं विना न प्रयोग इत्यर्थः । कर्तृधर्मस्य यत्नस्य विधित्वे सर्वाख्यातसाधारयेनोक्तातिप्रसङ्गे समाधिं शङ्कते— स्यादेतदिति । लडादीनां वर्त्तमानादिकालनियमवच्छिन्नस्तदभावादिति नातिप्रसङ्ग इत्यर्थः । यत्नज्ञानस्याप्रवर्त्तकतया प्रागुक्तप्रवृत्तेरिति स्मारणेन परिहरति यत्नपदेनेति । अथ लिङा न प्रकाशिका । यत्नस्येति । यद्यपि यत्नस्य लिङर्थत्वे तज्ज्ञानं प्रवर्त्तकमिति, न तु स्वात्मनि वृत्तिविरोध- दोषः, तथापि यत्नवानित्यतोऽप्रवृत्तिरेव तत्पक्षे दूषणमित्यवधेयम् । न वा तत्साधनमिति । पर- मकरन्दः । यत्नस्येति । यद्यपि यत्नस्य लिङर्थत्वे तज्ज्ञानं प्रवर्त्तकमिति न स्वात्मनि वृत्तिविरोधी दोषः, तथापि प्रवृत्तिहेतौ सङ्कल्पे शक्तेरित्युक्तत्वात् तद्दूषणे तात्पर्य्यम् । न वा तत्साधनमिति । यद्यपि परम्परया तत्साधनत्वं वक्ष्यति, तथापि साक्षान्न तथेत्या- पातत इदम् । यद्वा कुम्भकारपितृवदन्यथासिद्धतया न साधनमिति भावः । टिप्पणी । नित्यसंदिग्धत्वेन-कोऽत्र कर्ता किं कर्मेति संदिग्धत्वेन । गार्गिक्येत्यादि । गोत्रचरणाच्छ्लाघाऽऽन्याकारतदवतेषु ( ५-१-१३४ ) इति पाणिनी- यसूत्रेण गोत्रप्रत्ययान्तात् गार्ग्यशब्दात् भावे वुञ्प्रत्ययेन केवलं गार्गिकशब्‍दो व्युत्पादितोऽपि गार्गि-

५४२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकान्याख्यायां ताऽऽपत्तेः । कर्तृसङ्ख्याऽभिधानानभिधानाभ्यां विशेष इति चेत् । न, यागयत्न- वानित्यनेन साम्यापत्तेः। इष्ट एवायमर्थ इति चेत् । न, इतो वत्सरशतेनाप्यप्रवृत्तेः। फलसमभिव्याहाराभावान्न प्रवर्त्तते इति चेत्। न, स्वर्गकामो यागयत्नवानित्यतोऽ- प्यप्रवृत्तेः। तत् कस्य हेतोः ? न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतिर्वा यत्नस्य कारणं, अपि त्विच्छा। न च साऽपि प्रतीता यत्नजननी येन सैव विध्यर्थ इत्य- नुगम्यताम्, अपि तु सत्येव। न च लिङः श्रुतिकाले सा सती। न च लिङेव तां जनयति। अर्थविशेषमप्रत्याययन्त्यास्तस्यास्तज्जनकत्वे व्युत्पत्तिग्रहणवैयर्थ्यात्। अनुपलब्धलिङाश्चेच्छाऽनुत्पत्तिप्रसङ्गादिति । एतेन-वृद्धव्यवहाराद् व्युत्पत्तिर्भ- वन्ती बालस्यात्मनि प्रवृत्तिहेतुर्योऽवगतस्तमेवावगमयेत्, स्वयञ्च कुर्यामिति सङ्क- ल्पादेवाय प्रवृत्तः, ततः स एव लिङर्थ-इति निरस्तम्। कुर्यामिति प्रयत्नो वा स्यादिच्छा वा ? नाद्यः, स्वात्मनि वृत्तिविरोधात्। न द्वितीयः, सा हि सत्त्यैव प्रयत्नोत्पादिनी, न च लिङः श्रुतिकाले सा सतीत्युक्तम्। फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्नं प्रति हेतुः। अन्यविषयत्वात्। तदर्थञ्च शास्त्रवैयर्थ्यात्। तस्याः कारणान्तरत एव सिद्धेः, तत्प्रतीत्यर्थमपि प्रकाशः। यत्नः क्रियते अपि तु यत्नज्ञानमिति, तत्राह यत्नप्रतीतिर्वेति । अत्रापि न हीति योज्यम् । अस्तु कर्तृधर्म इच्छैव लिङ्वाच्येत्यत आह न चेति। प्रवृत्तिहेतुज्ञानविषयस्य लिङर्थत्वादित्यर्थः। असत्त्वादिति विवृणोति न च लिङ इति । प्रत्ययत्यागादिति हेतुं व्याचिख्यासुर्भूमिकामा- रचयति न च लिङेवेति । अथ विषयज्ञानमनुत्पाद्य लिङपि नेच्छां जनयति, अन्यथा व्युत्प- न्नस्येवाव्युत्पन्नस्यापि लिङ्श्रवणादिच्छा स्यादित्याह अर्थेति । स्वयञ्चेति । इष्टसाधनं ममेति मत्वा कुर्यामिति यः सङ्कल्पः, तज्ज्ञानादहं प्रवृत्तः, अतः प्रयोज्यवृद्धोऽपि तत एव प्रवृत्तः, ततः सङ्कल्पज्ञानं लिङ्च्चारणानन्तरं जातमिति लिङेव तत्करणमित्यवगच्छति व्युत्पद्यमानो बाल इत्यर्थः । स्वात्मनीति । यत्नस्य यत्नहेतुत्वे स्वात्मनि वृत्तिविरोध इत्यर्थः । अनेन विरोधात इति कारिकांशो विवृतः । इच्छा साधनगोचरा प्रवृत्तिहेतुरपि न ज्ञाता सतीति न लिङर्थ इत्याह सा हीति । न चेति । लिङः श्रवणात् प्रागिच्छाहेत्विष्टसाधनताज्ञानाभावादित्यर्थः । सङ्कल्पादिति कारिकाऽशं विवरीतुं, सुखादीच्छा लिङः श्रुतिकालैऽप्यस्तीति सा लिङर्थः प्रय- त्नहेतुश्च स्यादिति निरस्यति फलेच्छा त्विति। निसर्गवाहित्वं-निरुपाधित्वम्। अन्यविषयत्वा- दिति । फलसाधने हि पुरुषः प्रवर्त्तते, न फले अन्येच्छायाश्चान्यत्र प्रवृत्तिहेतुत्वेऽतिप्रसङ्ग इत्यर्थः। अपि च फलेच्छां शास्त्रमुत्पादयेत् , ज्ञापयेद्वा ? तन्न नाद्य इत्याह तदर्थञ्चेति । फले- च्छायाः फलज्ञानादेवोत्पत्तेः, तस्य स्वविषयेच्छाजनकत्वस्वभावत्वादित्यर्थः । अतएव यज्ज्ञातं स्ववृत्तितयेष्यते, तदेव स्वतः प्रयोजनमिति भावः । द्वितीयमाशङ्क्य निराकरोति तदिति । प्रकाशिका । म्परासाधनत्वेऽपि साक्षादसाधनत्वाभिप्रायेण वा कुम्भकारपितृवदन्यथासिद्धयभिप्रायेण वेदमू- क्तम् । न चेति । तथा च संकल्पविषयः संकल्पो न भवत्येवेति भावः ॥११॥ मकरन्दः। न चेति । तथा च सङ्कल्पविषयः सङ्कल्पो न भवत्येवेति भावः ॥११॥ टिप्पणी । कया श्लाघते इत्येव प्रयुज्यते, तन्न श्लाघतेपदसमभिव्याहारमन्तरेणापि कुतो न प्रयोग इति प्रश्ने तथैव व्यवहारः शरणमित्यर्थः ॥११॥

पंचमस्तबके ] ईश्वरसाधनम् । ५४३ शास्त्रानपेक्षणात् , तस्या मनोवेद्यत्वात् । अप्राप्ते च शास्त्रानवकाशात् । तद- भिधाने च स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात् , तदा हि यजेतेत्यस्यैव याग- कर्त्ता स्वर्गकाम इत्यर्थः स्यात् । यदि च फलविषयैव साधनविषयं प्रयत्नं जनयेत्; अन्यत्रापि प्रसुवीत, निया- मकाभावात् । हेतुफलभाव एव नियामक इति चेत् । न । अज्ञातस्य तस्य निया- मकत्वे लिङं विनाऽपि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात् । ज्ञातस्य तु तत्साधन- त्वस्य नियामकत्वे तदिच्छयैव तत्र प्रवर्त्तयतु । यो यत्कामयते स तत्साधनमपि कामयत एवेति नियमात् । न च सा तदानीं सती । न च तज्ज्ञानमेव प्रयत्नजनकं, तच्च लिङा क्रियते इति युक्तम् । स्वर्गकामो यागचिकीर्षावानित्यतोऽपि प्रवृत्ति- प्रसङ्गात् । लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्त्तेत । स्वसम्बन्धितया तद्वग- मस्तथा न तु सामान्यत इति चेत् । न । प्रथमपुरुषेण तदभिधाने तस्याविध्यर्थत्व- प्रसङ्गात् । ओदनकामस्त्वं पाकचिकीर्षावानित्यतोऽपि प्रवृत्त्यापत्तेश्च । अपि च, सङ्कल्पज्ञानात् यदि प्रयत्नो जायेत तथापि सङ्कल्पस्य कुतो जन्म किमर्थञ्च ? सङ्कल्पज्ञानादेव, प्रयत्नार्थञ्चेति चेत् । नन्विच्छाविशेषः सङ्कल्पः; स तावत् सुखे स्वभावतः, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम् ? तत्साध- नत्वादेवेति चेत् । तर्हि तत्साधनत्वज्ञानात् न तु सङ्कल्पस्वरूपज्ञानाद्भवितुमर्हतीति । प्रकाशः । किमतो यद्येवमित्यत आह अप्राप्ते चेति । अवकाशे वा फलेच्छाया लिङैवोक्तत्वात् स्वर्गकाम इति पुनरुक्तरूपसङ्कारापत्तिरित्यत आह तदभिधान इति । ननु समानविषयक तयेच्छाप्रवृत्त्योर्हेतु हेतुमद्भाव एव कुतः इत्यत आह— यदि चेति । अन्यत्राप्यसाधनेऽपीत्यर्थः । नियामकमाह हेतुफलेति । फलेच्छा तत्सा- धन एव प्रयत्नमुत्पादयति नान्यत्रेत्यर्थः । यदि स्वरूपसन्नेव हेतुफलभावः प्रवृत्तिनियामकः, तदा स्वर्गकामो यजेतेत्यादिविधिजन्यज्ञानं विनाऽपि स्वर्गसाधने प्रवृत्त्यापत्तिरित्याह अज्ञातस्येति । भ्रमादसाधनेऽप्रवृत्त्यापत्तेश्चेति भावः । अथ ज्ञातः, तदा फलसाधनेच्छैव तत्साधने प्रवर्त्तयतु समा- नविषयत्वादित्याह ज्ञातस्य त्विति । ननु साधनविषया नेच्छा तस्य निसर्गसुन्दरत्वाभावादित्यत आह यो यदिति । अस्तु साध- नविषयैवेच्छा प्रयत्नजननी लिङर्थ इत्यत आह न चेति । साधनेच्छा न लिङः श्रुतिकाले सती- त्यर्थः । ननु साधनेच्छायास्तत्काला सत्त्वेऽपि तज्ज्ञानादेव प्रवृत्तिः स्यादित्यत आह न चेति । तच्चेति । साधनविषयेच्छाज्ञानमित्यर्थः । यदि च साधनेच्छाज्ञानादेव प्रवृत्तिः, तदा स्वेच्छानु- त्पत्तिदशायामपि ततः प्रवर्त्तेतेत्याह लिङो वेति । यजेतेत्यतः साधनेच्छाज्ञानं जातं, न तु स्वस- म्बन्धितया, तादृशश्च प्रवर्त्तरूप , अतो नानिच्छन्नपि प्रवर्त्तेतेत्यत आह स्वसम्बन्धितयेति । एवं यजेतेत्यस्य विध्यर्थत्वं न स्यात्तस्य स्वेच्छाज्ञानाजनकत्वादित्याह प्रथमेति । किमर्थमिति । इच्छाज्ञानादेव प्रवृत्तौ किमर्थमिच्छोत्पादनमित्यर्थः । कुत इति प्रश्ने सङ्क- ल्पज्ञानादित्युत्तरं, किमर्थमित्यत्र तु, प्रयत्नार्थमिति । इच्छाविशेषः,-कुर्यामित्याकारः । स्वभा- वतः-सुखज्ञानस्य स्वविषयविषयकेच्छाजनकस्वभावत्वादित्यर्थः । औपाधिकः-तत्साधनताज्ञानजन्य इत्यर्थः । सङ्कल्पस्तु न फलं न वा तत्साधनमिति नेच्छाविषयः, न च सङ्कल्पज्ञानात् फलसाधन एवेच्छा, ज्ञानस्य स्वसमानविषयकेच्छाजनकत्वनियमादिति भावः । तत्साधनत्वादेवेति । पर- म्परया फलसाधनत्वज्ञानादेवेत्यर्थः । तर्हीति । तथा चेष्टसाधनतैव विधिः स्यान्न सङ्कल्पः, तेन रूपेणाप्रवर्त्तकत्वादिति भावः ।