न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 571, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरबाधनम् । ५३६ सम्बन्धमपेक्षते, भावनाऽपि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्व- यहेतुः । कटं कटेनेत्यादि तु कारक तयैव फलसमन्वितं न व्यापारात्तरमपेक्षते इति निराकाङ्क्षमिति । अत एवो'ऽऽस्यते सुप्यते' इत्यादौ नाक्षिप्तेनान्वयः। न हि चैत्रेणेति तृतीयान्त- शब्दस्य भावनायामाकाङ्क्षाऽस्ति । भाव्याकाङ्क्षाऽस्तीति चेत् । न, फलेन शयना- दिधात्वर्थेनान्वयात् । फलसम्बन्धिनश्चात्र कत्र्र्ननतिरेकात्, न हि शयनादयो धात्वर्थाः कत्र्र्तातरेकिसंबन्धाः । न च फलतत्संबन्धिब्यतिरेकेणान्यो भाव्यो नाम यमपेक्षेत ।
प्रकाशः । पदिकार्थ इति । फलेन-धात्वर्थेन, क्रियासम्बन्धं व्यापारसम्बन्धमित्यर्थः । कटं कटेनेति । अत्र द्वितीयातृतीयाभ्यां कारकविभक्तिभ्यां क्रियाऽनुकूलव्यापारसहितस्यैवो पस्थितेर्न भावनाऽऽका- ङ्क्षेत्यर्थः । ननु यदि स्वपिति इत्यादावाक्षिप्तेन कर्त्राऽन्वयस्तदा सुप्यते इत्यादावपि तथा स्यादित्यत आह अत एवेति । अत एव उभयाकांक्षा निवन्धनोऽन्वय इत्यर्थः । भाव्यं भावनाजन्यं, फलञ्चेत्तत्राहं फलेनेति । अथ फलसम्बन्धि कर्म भाव्यं, तत्राह फलेति । धातूनामकर्म्मकत्वात् तदाश्रयत्वं कत्र्तुरेवेत्यर्थः । तस्य च चैत्रेणेति तृतीयया कर्तृत्वोपस्थितेर्न भाव्यत्वेनान्वयान्तरमिति भावः । ननु चैत्रस्तण्डुलान् पचति इत्यत्र भावनाऽन्वयश्चैत्रे सम्भवत्याश्रयत्वात् । चैत्रेण पच्यन्ते तण्डुला इत्यत्र तण्डुलानां न तावद्विषयत्वेन भावनाऽन्वयः, यत्नस्य विक्लित्त्यनुकूलव्यापारविषयत्वात् । विषयत्वेनान्वये वा चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां विषयत्वेन भावनाऽन्वयापत्तौ सङ्ख्याया अपि तदन्वयापत्तेः । नाप्याश्रयतया, भावनाया अतदाश्रितत्वात् । न च चैत्रेण भावनाऽन्वयः, तृतीयार्थयत्नेनावरुद्धतया भावनायास्तदनन्वयात् । अचेतने वा कथं सङ्ख्याऽन्वयनियमः ? । तत्र भावनाया अनन्वयात् । यत्र च पचतीत्येव प्रयुज्यते, तत्र कथं भावनायाः कर्त्रन्वयः ? । यत्र वा चैत्रः कर्त्ता पचत्योदनम् इति प्रयोगः, तत्र चैत्रेणेतिवत् कर्तृत्वेनैवोपस्थितावाकाङ्क्षाविरहा- द्भावनाऽनन्वये कथं कर्त्तरि सङ्ख्याऽन्वयः ? । उच्यते—यत्र यद्विशेष्यं, तेन सङ्ख्याऽन्वयः । तथा हि चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां कर्मत्वेनान्वयात् तण्डुलवृत्तिफलजनकव्यापारजनकयतनाश्रयश्चैत्र इति प्रतीतेः स विशेष्यः । चैत्रेण पच्यन्ते तण्डुला इत्यत्र चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयास्तण्डुलाः प्रतीयन्ते इति
प्रकाशिका । तृतीयार्थयत्नेनेति । ‘कर्त्तृकरणयोस्तृतीये’त्यनेन कर्त्तरि तृतीयानुशासनादिति भावः । ननु तत्राक्षिप्तेनैव चैत्रादिना भावनान्वयोऽन्यथा तदनन्वय एवेत्यरुचेराह यत्र वा चैत्र इति । यत्र यद्विशेष्यमिति । आख्यातवाच्यविशेष्यमित्यर्थः । आख्यातवाच्यश्च कचिद्यत्नः क्वचिद्व्यापार इति । तण्डुलवृत्तीत्यादि । फलं द्वितीयार्थः, तदेव कर्मत्वं, वृत्तिस्तु संसर्गः, व्यापारश्च धात्वर्थः, जनकत्वं च संसर्गः, यत्नश्चाख्यातार्थः, तस्य च व्यापारेण समं जनकत्वं देवदत्तेन सममाश्रयत्वं संसर्ग इति भावः । चैत्रवृत्तीत्यादि । अत्र च यत्नस्तृतीयार्थः व्यापारो
मकरन्दः । तृतीयेयेति । ‘कर्तृकरणयोस्तृतीये’ति कर्तृत्वे तृतीयाऽनुशासनादिति भावः । ननु अत्राक्षिप्तेन चैत्रादिना भावनाऽन्वयः, अन्यथा तदनन्वय इष्ट एवेत्यरुचेराह यत्र चेति । यद्विशेष्यमिति । आख्याततात्पर्यविषयीभूतार्थविशेष्ये इत्यर्थः। अत एवाह अचेतनेऽपीति ।