भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 572, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 572

५४० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्यायां स्यादेतत्, किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितान- भिहितव्यवस्थाऽभावादिति चेत् । न, चैत्रमिति प्रथमान्तस्यासाधुत्वात् । द्विती- प्रकाशः। यत्नस्य परम्परया तण्डुला विशेष्याः । एवं यद्यप्युभयत्र चैत्रः कर्त्ता तण्डुलाः कर्माणि, तथापि यत्नविशेष्ये सङ्ख्याऽन्वयः । अचेतनेऽपि रथो ग्रामं गच्छतीत्यत्र ग्रामवृत्तिफलजनकव्यापाराश्रयो रथः प्रतीयते, रथेन गम्यते ग्राम इत्यत्र रथवृत्तिव्यापारजन्यफलाश्रयो ग्राम इति, तत्रापि विशेष्ये सङ्ख्याऽन्वयः । चैत्रेण सुप्यते इत्यत्र न चैत्रो भावनाविशेष्यः, तृतीयार्थाविरुद्धत्वात्, कर्म तत्र नास्त्येव । अतो धात्वर्थ एव भावनाविशेष्यः, फलत्वाद्दिषयत्वाच्चेति तत्र सङ्ख्याऽन्वयः । न च प्रातिपदिकार्थे भावनाऽन्वयेऽपि न सङ्ख्याऽन्वयः, प्रथमोपनीतसङ्ख्याऽन्वयेन च तस्य तदनाकाङ्क्षत्वादिति वाच्यम् । प्रथमाऽऽख्याताभ्यामेकस्या एव सङ्ख्याया अभिधानात्, चैत्रो दण्डीत्यत्रेव सामाना- धिकरण्यानुरोधात् । अन्यथा तन्मते प्रथमाऽर्थसङ्ख्याऽन्वयश्चैत्रे न स्यात्, आख्यातेनैव स्ववा- च्यकर्तृसङ्ख्याऽभिधानात् । नापि पचतीत्यत्र पाकयत्नवानिति विवरणात् कर्त्ता आख्यातवाच्यः । कर्तुरनन्यलभ्यत्वेनावाच्यत्वस्थितौ विवरणस्य तात्पर्य्यविषयपरत्वात्, द्वन्द्वादिसमासस्य विप्रेहेण विव- रणोऽपि तत्र शक्त्यभावाच्च । अत्रास्मत्पितृचरणाः—कृतिरूपकर्त्तृत्ववत् कर्म्मत्वमपि लकारवाच्यम्, तद्धर्मिणोरन्यत एव लाभात् । तण्डुलान् पचतीत्यत्र (१) द्वितीयात इव चैत्रेणौदनः पच्यते इत्यत्रान्यतः कर्म्मत्वाला- भादित्याहुः । कर्तृकर्मकरणादीनामभिहितानभिहितत्वविशेषाभावे कटं करोति चैत्र इत्यत्र विभक्तिपरिणामे प्रयोगः किं न स्यादित्याह—किमिति । चैत्रशब्दस्य पुंलिङ्गत्वात् प्रथमायां तद्रूपमसाधित्याह प्रकाशिका। धात्वर्थः फलं च कर्म्मत्वरूपमाख्यातार्थः कृतिजन्यत्वादिकश्च संसर्ग इति भावः । न चैवं कर्म्मत्व- स्याख्यातवाच्यत्वे चिन्तामणिकारीयमतभेदः, आख्यातवाच्यकर्त्तृत्वे कर्म्मत्वाधिकरणत्वं संख्यान्व- यनियामकमित्येतावता चिन्तामणिकारीयमतभेदात् । कर्म्मत्ववाचकता तु कर्माख्यातस्योभयमतेऽपीति भावात् , एषा च रीतिः फलोपलक्षितव्यापारवाचकत्वे धातोः, यदा तु फलविशिष्टव्यापार एव धात्व- र्थोऽन्यथा त्यजिगत्योः पर्यायतापत्तिरिति मतं, तदाश्रयत्वरूपमेव कर्मत्वं द्वितीयायाः आख्यातस्य चार्थः, तत्प्रकारकप्रतीत्यनुरोधादन्वयश्च पूर्ववदेवेत्यवधेयम् । केचित्तु फलस्य विशेषरूपेण धातुवा- च्यत्वं सामान्येन तु द्वितीयादिवाच्यत्वमिति फलस्य धातुवाच्यत्वपक्षेऽपि पूर्वैव रीतिरित्याहुः । तद्धर्म्मिणोरिति । कर्त्तृत्वधर्मित्वधर्मिणोः, कर्त्तृधर्मिणोरित्यर्थः। द्वितीयाया इति। तथा च वाच्यतया चैत्रोपस्थितेः तथात्वेन कटं नापेक्षते किन्तु भावकत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः । मकरन्दः। तद्धर्मिणोरिति । कर्त्तृत्वकर्मत्वधर्मिणोः कर्त्तृकर्म्मणोरित्यर्थः । इत्याहुरित्यस्वरसोद्भावनम् । तद्बीजन्तु-तथाप्याश्रयत्वमात्रमनन्यलभ्यतया लकारवाच्यं, पर- स्यचैतक्रियाफलशालित्वं हि कर्म्मत्वमिति चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयत्वमेव तस्य कर्म्मत्वं वाच्यम् । तत्र तृतीयया यत्नस्य धातुना फलावच्छिन्नव्यापारस्याभिधानेऽपरस्यानन्यलभ्यत्वादिति । द्वितीयाया इति । तथा च भाव्यतया चैत्रस्योपस्थितेस्तथात्वेन कटं नापेक्षते, किन्तु भाव- कत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः । ( १ ) अत्र द्वितीयाया इति प्रकाशिकामकरन्दाभिमतः पाठः ।