न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
५४० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्यायां स्यादेतत्, किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितान- भिहितव्यवस्थाऽभावादिति चेत् । न, चैत्रमिति प्रथमान्तस्यासाधुत्वात् । द्विती- प्रकाशः। यत्नस्य परम्परया तण्डुला विशेष्याः । एवं यद्यप्युभयत्र चैत्रः कर्त्ता तण्डुलाः कर्माणि, तथापि यत्नविशेष्ये सङ्ख्याऽन्वयः । अचेतनेऽपि रथो ग्रामं गच्छतीत्यत्र ग्रामवृत्तिफलजनकव्यापाराश्रयो रथः प्रतीयते, रथेन गम्यते ग्राम इत्यत्र रथवृत्तिव्यापारजन्यफलाश्रयो ग्राम इति, तत्रापि विशेष्ये सङ्ख्याऽन्वयः । चैत्रेण सुप्यते इत्यत्र न चैत्रो भावनाविशेष्यः, तृतीयार्थाविरुद्धत्वात्, कर्म तत्र नास्त्येव । अतो धात्वर्थ एव भावनाविशेष्यः, फलत्वाद्दिषयत्वाच्चेति तत्र सङ्ख्याऽन्वयः । न च प्रातिपदिकार्थे भावनाऽन्वयेऽपि न सङ्ख्याऽन्वयः, प्रथमोपनीतसङ्ख्याऽन्वयेन च तस्य तदनाकाङ्क्षत्वादिति वाच्यम् । प्रथमाऽऽख्याताभ्यामेकस्या एव सङ्ख्याया अभिधानात्, चैत्रो दण्डीत्यत्रेव सामाना- धिकरण्यानुरोधात् । अन्यथा तन्मते प्रथमाऽर्थसङ्ख्याऽन्वयश्चैत्रे न स्यात्, आख्यातेनैव स्ववा- च्यकर्तृसङ्ख्याऽभिधानात् । नापि पचतीत्यत्र पाकयत्नवानिति विवरणात् कर्त्ता आख्यातवाच्यः । कर्तुरनन्यलभ्यत्वेनावाच्यत्वस्थितौ विवरणस्य तात्पर्य्यविषयपरत्वात्, द्वन्द्वादिसमासस्य विप्रेहेण विव- रणोऽपि तत्र शक्त्यभावाच्च । अत्रास्मत्पितृचरणाः—कृतिरूपकर्त्तृत्ववत् कर्म्मत्वमपि लकारवाच्यम्, तद्धर्मिणोरन्यत एव लाभात् । तण्डुलान् पचतीत्यत्र (१) द्वितीयात इव चैत्रेणौदनः पच्यते इत्यत्रान्यतः कर्म्मत्वाला- भादित्याहुः । कर्तृकर्मकरणादीनामभिहितानभिहितत्वविशेषाभावे कटं करोति चैत्र इत्यत्र विभक्तिपरिणामे प्रयोगः किं न स्यादित्याह—किमिति । चैत्रशब्दस्य पुंलिङ्गत्वात् प्रथमायां तद्रूपमसाधित्याह प्रकाशिका। धात्वर्थः फलं च कर्म्मत्वरूपमाख्यातार्थः कृतिजन्यत्वादिकश्च संसर्ग इति भावः । न चैवं कर्म्मत्व- स्याख्यातवाच्यत्वे चिन्तामणिकारीयमतभेदः, आख्यातवाच्यकर्त्तृत्वे कर्म्मत्वाधिकरणत्वं संख्यान्व- यनियामकमित्येतावता चिन्तामणिकारीयमतभेदात् । कर्म्मत्ववाचकता तु कर्माख्यातस्योभयमतेऽपीति भावात् , एषा च रीतिः फलोपलक्षितव्यापारवाचकत्वे धातोः, यदा तु फलविशिष्टव्यापार एव धात्व- र्थोऽन्यथा त्यजिगत्योः पर्यायतापत्तिरिति मतं, तदाश्रयत्वरूपमेव कर्मत्वं द्वितीयायाः आख्यातस्य चार्थः, तत्प्रकारकप्रतीत्यनुरोधादन्वयश्च पूर्ववदेवेत्यवधेयम् । केचित्तु फलस्य विशेषरूपेण धातुवा- च्यत्वं सामान्येन तु द्वितीयादिवाच्यत्वमिति फलस्य धातुवाच्यत्वपक्षेऽपि पूर्वैव रीतिरित्याहुः । तद्धर्म्मिणोरिति । कर्त्तृत्वधर्मित्वधर्मिणोः, कर्त्तृधर्मिणोरित्यर्थः। द्वितीयाया इति। तथा च वाच्यतया चैत्रोपस्थितेः तथात्वेन कटं नापेक्षते किन्तु भावकत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः । मकरन्दः। तद्धर्मिणोरिति । कर्त्तृत्वकर्मत्वधर्मिणोः कर्त्तृकर्म्मणोरित्यर्थः । इत्याहुरित्यस्वरसोद्भावनम् । तद्बीजन्तु-तथाप्याश्रयत्वमात्रमनन्यलभ्यतया लकारवाच्यं, पर- स्यचैतक्रियाफलशालित्वं हि कर्म्मत्वमिति चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयत्वमेव तस्य कर्म्मत्वं वाच्यम् । तत्र तृतीयया यत्नस्य धातुना फलावच्छिन्नव्यापारस्याभिधानेऽपरस्यानन्यलभ्यत्वादिति । द्वितीयाया इति । तथा च भाव्यतया चैत्रस्योपस्थितेस्तथात्वेन कटं नापेक्षते, किन्तु भाव- कत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः । ( १ ) अत्र द्वितीयाया इति प्रकाशिकामकरन्दाभिमतः पाठः ।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५४१ यान्तस्य तु कर्म्मवचनत्वेन तत्संबन्धाद्भाव्यानपेक्षणीभावेन भावकमात्रमपे- क्षेत । न च कटस्य चैत्रं प्रति भावकत्वं, विपर्ययात् । अनाप्तेन तु विवक्षायां प्रयु- ज्यत एव । प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि । न, नित्यसन्दिग्धत्वेन वाक्यार्थास- मर्षकत्वात् । ततस्तदुपपत्तये विशेषस्य व्यञ्जनीयत्वात् । व्यज्यतां तर्हि तृतीयया चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत् । न, अप्रयो- गात् । न ह्यनाप्तेनाऽप्येवंप्रायाणि प्रयुज्यन्ते । लक्षणाविरोघेन कुत एतदेवेति चेत् । लोकस्यापर्य्यनुयोज्यत्वात् । न हि गार्गिक्येति पदं साध्विति श्लाघाऽभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते । तस्य तदुपाधिनैव विहितत्वादिति चेत् । एतदेव कुतः ? लोके तथैव प्रयोगदर्शना- दिति चेत् । तुल्यम् । करोतीत्यादिकर्म्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते, क्रियते इति कर्तृविभक्तिसमभिव्याहारेणैवेति किमत्र क्रियताम् । इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेनेह्येतावान् परामर्शः सर्वेषां हृदि पदमादधातीत्यभिधानानिभिधानविभाग एव व्युत्पादनदशायां पेशल इति । स्यादेतत्, भवतु सर्वाख्यातसाधारणी भावना, कालविशेषसंबन्धिनी सा लडाद्यर्थः, कालत्रयापरामृष्टा लिङर्थ इति चेत् । न, यत्नपदेन समानार्थत्वप्रस- ङ्गात् । विषयोपरागानुपरागाभ्यां विशेष इति चेत् । न, यागयत्न इत्यनेन पर्याय- प्रकाशः । चैत्रमितीति । भाव्यानपेक्षिणीति । द्वितीयायाः कर्मत्वाभिधायकत्वेन भाव्यानपेक्षिणी भाव- नेत्यर्थः । नित्येति । कर्तृकर्मभावे इति शेषः। लोकस्येति । व्याकरणस्याप्यनादिप्रयोगानुपजीव्यैव शब्दान्वाख्यायकत्वादित्यर्थः । तुल्यमिति । अनादिः प्रयोगोऽस्माकमप्युपजीव्य इत्यर्थः । इममेवेति । बालव्युत्पत्त्यर्थं प्रकृतिप्रत्ययविभागस्येवाभिहितानभिहितत्वस्यापि व्युत्पादन- मित्यर्थः । वस्तुतो यत्पदस्य यत्पदसमभिव्याहारेणैव प्रयोगनियमः, तस्य तत्पदं विना न प्रयोग इत्यर्थः । कर्तृधर्मस्य यत्नस्य विधित्वे सर्वाख्यातसाधारयेनोक्तातिप्रसङ्गे समाधिं शङ्कते— स्यादेतदिति । लडादीनां वर्त्तमानादिकालनियमवच्छिन्नस्तदभावादिति नातिप्रसङ्ग इत्यर्थः । यत्नज्ञानस्याप्रवर्त्तकतया प्रागुक्तप्रवृत्तेरिति स्मारणेन परिहरति यत्नपदेनेति । अथ लिङा न प्रकाशिका । यत्नस्येति । यद्यपि यत्नस्य लिङर्थत्वे तज्ज्ञानं प्रवर्त्तकमिति, न तु स्वात्मनि वृत्तिविरोध- दोषः, तथापि यत्नवानित्यतोऽप्रवृत्तिरेव तत्पक्षे दूषणमित्यवधेयम् । न वा तत्साधनमिति । पर- मकरन्दः । यत्नस्येति । यद्यपि यत्नस्य लिङर्थत्वे तज्ज्ञानं प्रवर्त्तकमिति न स्वात्मनि वृत्तिविरोधी दोषः, तथापि प्रवृत्तिहेतौ सङ्कल्पे शक्तेरित्युक्तत्वात् तद्दूषणे तात्पर्य्यम् । न वा तत्साधनमिति । यद्यपि परम्परया तत्साधनत्वं वक्ष्यति, तथापि साक्षान्न तथेत्या- पातत इदम् । यद्वा कुम्भकारपितृवदन्यथासिद्धतया न साधनमिति भावः । टिप्पणी । नित्यसंदिग्धत्वेन-कोऽत्र कर्ता किं कर्मेति संदिग्धत्वेन । गार्गिक्येत्यादि । गोत्रचरणाच्छ्लाघाऽऽन्याकारतदवतेषु ( ५-१-१३४ ) इति पाणिनी- यसूत्रेण गोत्रप्रत्ययान्तात् गार्ग्यशब्दात् भावे वुञ्प्रत्ययेन केवलं गार्गिकशब्दो व्युत्पादितोऽपि गार्गि-
५४२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ११ कारिकान्याख्यायां ताऽऽपत्तेः । कर्तृसङ्ख्याऽभिधानानभिधानाभ्यां विशेष इति चेत् । न, यागयत्न- वानित्यनेन साम्यापत्तेः। इष्ट एवायमर्थ इति चेत् । न, इतो वत्सरशतेनाप्यप्रवृत्तेः। फलसमभिव्याहाराभावान्न प्रवर्त्तते इति चेत्। न, स्वर्गकामो यागयत्नवानित्यतोऽ- प्यप्रवृत्तेः। तत् कस्य हेतोः ? न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतिर्वा यत्नस्य कारणं, अपि त्विच्छा। न च साऽपि प्रतीता यत्नजननी येन सैव विध्यर्थ इत्य- नुगम्यताम्, अपि तु सत्येव। न च लिङः श्रुतिकाले सा सती। न च लिङेव तां जनयति। अर्थविशेषमप्रत्याययन्त्यास्तस्यास्तज्जनकत्वे व्युत्पत्तिग्रहणवैयर्थ्यात्। अनुपलब्धलिङाश्चेच्छाऽनुत्पत्तिप्रसङ्गादिति । एतेन-वृद्धव्यवहाराद् व्युत्पत्तिर्भ- वन्ती बालस्यात्मनि प्रवृत्तिहेतुर्योऽवगतस्तमेवावगमयेत्, स्वयञ्च कुर्यामिति सङ्क- ल्पादेवाय प्रवृत्तः, ततः स एव लिङर्थ-इति निरस्तम्। कुर्यामिति प्रयत्नो वा स्यादिच्छा वा ? नाद्यः, स्वात्मनि वृत्तिविरोधात्। न द्वितीयः, सा हि सत्त्यैव प्रयत्नोत्पादिनी, न च लिङः श्रुतिकाले सा सतीत्युक्तम्। फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्नं प्रति हेतुः। अन्यविषयत्वात्। तदर्थञ्च शास्त्रवैयर्थ्यात्। तस्याः कारणान्तरत एव सिद्धेः, तत्प्रतीत्यर्थमपि प्रकाशः। यत्नः क्रियते अपि तु यत्नज्ञानमिति, तत्राह यत्नप्रतीतिर्वेति । अत्रापि न हीति योज्यम् । अस्तु कर्तृधर्म इच्छैव लिङ्वाच्येत्यत आह न चेति। प्रवृत्तिहेतुज्ञानविषयस्य लिङर्थत्वादित्यर्थः। असत्त्वादिति विवृणोति न च लिङ इति । प्रत्ययत्यागादिति हेतुं व्याचिख्यासुर्भूमिकामा- रचयति न च लिङेवेति । अथ विषयज्ञानमनुत्पाद्य लिङपि नेच्छां जनयति, अन्यथा व्युत्प- न्नस्येवाव्युत्पन्नस्यापि लिङ्श्रवणादिच्छा स्यादित्याह अर्थेति । स्वयञ्चेति । इष्टसाधनं ममेति मत्वा कुर्यामिति यः सङ्कल्पः, तज्ज्ञानादहं प्रवृत्तः, अतः प्रयोज्यवृद्धोऽपि तत एव प्रवृत्तः, ततः सङ्कल्पज्ञानं लिङ्च्चारणानन्तरं जातमिति लिङेव तत्करणमित्यवगच्छति व्युत्पद्यमानो बाल इत्यर्थः । स्वात्मनीति । यत्नस्य यत्नहेतुत्वे स्वात्मनि वृत्तिविरोध इत्यर्थः । अनेन विरोधात इति कारिकांशो विवृतः । इच्छा साधनगोचरा प्रवृत्तिहेतुरपि न ज्ञाता सतीति न लिङर्थ इत्याह सा हीति । न चेति । लिङः श्रवणात् प्रागिच्छाहेत्विष्टसाधनताज्ञानाभावादित्यर्थः । सङ्कल्पादिति कारिकाऽशं विवरीतुं, सुखादीच्छा लिङः श्रुतिकालैऽप्यस्तीति सा लिङर्थः प्रय- त्नहेतुश्च स्यादिति निरस्यति फलेच्छा त्विति। निसर्गवाहित्वं-निरुपाधित्वम्। अन्यविषयत्वा- दिति । फलसाधने हि पुरुषः प्रवर्त्तते, न फले अन्येच्छायाश्चान्यत्र प्रवृत्तिहेतुत्वेऽतिप्रसङ्ग इत्यर्थः। अपि च फलेच्छां शास्त्रमुत्पादयेत् , ज्ञापयेद्वा ? तन्न नाद्य इत्याह तदर्थञ्चेति । फले- च्छायाः फलज्ञानादेवोत्पत्तेः, तस्य स्वविषयेच्छाजनकत्वस्वभावत्वादित्यर्थः । अतएव यज्ज्ञातं स्ववृत्तितयेष्यते, तदेव स्वतः प्रयोजनमिति भावः । द्वितीयमाशङ्क्य निराकरोति तदिति । प्रकाशिका । म्परासाधनत्वेऽपि साक्षादसाधनत्वाभिप्रायेण वा कुम्भकारपितृवदन्यथासिद्धयभिप्रायेण वेदमू- क्तम् । न चेति । तथा च संकल्पविषयः संकल्पो न भवत्येवेति भावः ॥११॥ मकरन्दः। न चेति । तथा च सङ्कल्पविषयः सङ्कल्पो न भवत्येवेति भावः ॥११॥ टिप्पणी । कया श्लाघते इत्येव प्रयुज्यते, तन्न श्लाघतेपदसमभिव्याहारमन्तरेणापि कुतो न प्रयोग इति प्रश्ने तथैव व्यवहारः शरणमित्यर्थः ॥११॥
पंचमस्तबके ] ईश्वरसाधनम् । ५४३ शास्त्रानपेक्षणात् , तस्या मनोवेद्यत्वात् । अप्राप्ते च शास्त्रानवकाशात् । तद- भिधाने च स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात् , तदा हि यजेतेत्यस्यैव याग- कर्त्ता स्वर्गकाम इत्यर्थः स्यात् । यदि च फलविषयैव साधनविषयं प्रयत्नं जनयेत्; अन्यत्रापि प्रसुवीत, निया- मकाभावात् । हेतुफलभाव एव नियामक इति चेत् । न । अज्ञातस्य तस्य निया- मकत्वे लिङं विनाऽपि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात् । ज्ञातस्य तु तत्साधन- त्वस्य नियामकत्वे तदिच्छयैव तत्र प्रवर्त्तयतु । यो यत्कामयते स तत्साधनमपि कामयत एवेति नियमात् । न च सा तदानीं सती । न च तज्ज्ञानमेव प्रयत्नजनकं, तच्च लिङा क्रियते इति युक्तम् । स्वर्गकामो यागचिकीर्षावानित्यतोऽपि प्रवृत्ति- प्रसङ्गात् । लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्त्तेत । स्वसम्बन्धितया तद्वग- मस्तथा न तु सामान्यत इति चेत् । न । प्रथमपुरुषेण तदभिधाने तस्याविध्यर्थत्व- प्रसङ्गात् । ओदनकामस्त्वं पाकचिकीर्षावानित्यतोऽपि प्रवृत्त्यापत्तेश्च । अपि च, सङ्कल्पज्ञानात् यदि प्रयत्नो जायेत तथापि सङ्कल्पस्य कुतो जन्म किमर्थञ्च ? सङ्कल्पज्ञानादेव, प्रयत्नार्थञ्चेति चेत् । नन्विच्छाविशेषः सङ्कल्पः; स तावत् सुखे स्वभावतः, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम् ? तत्साध- नत्वादेवेति चेत् । तर्हि तत्साधनत्वज्ञानात् न तु सङ्कल्पस्वरूपज्ञानाद्भवितुमर्हतीति । प्रकाशः । किमतो यद्येवमित्यत आह अप्राप्ते चेति । अवकाशे वा फलेच्छाया लिङैवोक्तत्वात् स्वर्गकाम इति पुनरुक्तरूपसङ्कारापत्तिरित्यत आह तदभिधान इति । ननु समानविषयक तयेच्छाप्रवृत्त्योर्हेतु हेतुमद्भाव एव कुतः इत्यत आह— यदि चेति । अन्यत्राप्यसाधनेऽपीत्यर्थः । नियामकमाह हेतुफलेति । फलेच्छा तत्सा- धन एव प्रयत्नमुत्पादयति नान्यत्रेत्यर्थः । यदि स्वरूपसन्नेव हेतुफलभावः प्रवृत्तिनियामकः, तदा स्वर्गकामो यजेतेत्यादिविधिजन्यज्ञानं विनाऽपि स्वर्गसाधने प्रवृत्त्यापत्तिरित्याह अज्ञातस्येति । भ्रमादसाधनेऽप्रवृत्त्यापत्तेश्चेति भावः । अथ ज्ञातः, तदा फलसाधनेच्छैव तत्साधने प्रवर्त्तयतु समा- नविषयत्वादित्याह ज्ञातस्य त्विति । ननु साधनविषया नेच्छा तस्य निसर्गसुन्दरत्वाभावादित्यत आह यो यदिति । अस्तु साध- नविषयैवेच्छा प्रयत्नजननी लिङर्थ इत्यत आह न चेति । साधनेच्छा न लिङः श्रुतिकाले सती- त्यर्थः । ननु साधनेच्छायास्तत्काला सत्त्वेऽपि तज्ज्ञानादेव प्रवृत्तिः स्यादित्यत आह न चेति । तच्चेति । साधनविषयेच्छाज्ञानमित्यर्थः । यदि च साधनेच्छाज्ञानादेव प्रवृत्तिः, तदा स्वेच्छानु- त्पत्तिदशायामपि ततः प्रवर्त्तेतेत्याह लिङो वेति । यजेतेत्यतः साधनेच्छाज्ञानं जातं, न तु स्वस- म्बन्धितया, तादृशश्च प्रवर्त्तरूप , अतो नानिच्छन्नपि प्रवर्त्तेतेत्यत आह स्वसम्बन्धितयेति । एवं यजेतेत्यस्य विध्यर्थत्वं न स्यात्तस्य स्वेच्छाज्ञानाजनकत्वादित्याह प्रथमेति । किमर्थमिति । इच्छाज्ञानादेव प्रवृत्तौ किमर्थमिच्छोत्पादनमित्यर्थः । कुत इति प्रश्ने सङ्क- ल्पज्ञानादित्युत्तरं, किमर्थमित्यत्र तु, प्रयत्नार्थमिति । इच्छाविशेषः,-कुर्यामित्याकारः । स्वभा- वतः-सुखज्ञानस्य स्वविषयविषयकेच्छाजनकस्वभावत्वादित्यर्थः । औपाधिकः-तत्साधनताज्ञानजन्य इत्यर्थः । सङ्कल्पस्तु न फलं न वा तत्साधनमिति नेच्छाविषयः, न च सङ्कल्पज्ञानात् फलसाधन एवेच्छा, ज्ञानस्य स्वसमानविषयकेच्छाजनकत्वनियमादिति भावः । तत्साधनत्वादेवेति । पर- म्परया फलसाधनत्वज्ञानादेवेत्यर्थः । तर्हीति । तथा चेष्टसाधनतैव विधिः स्यान्न सङ्कल्पः, तेन रूपेणाप्रवर्त्तकत्वादिति भावः ।
५४४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां अन्यथेटसाधनताज्ञानमप्यनर्थकमापद्येत। तस्मात् सङ्कल्पः प्रवर्त्तक इत्यभ्युपेयते, किन्तु सत्तामात्रेण न तु ज्ञात इति नासौ विधिः। ज्ञानञ्च विषयोपहारेणैव व्यवहार- यतीति तद्विषय एवावशिष्यते इति कर्तृधर्मव्युदासः ॥ ११ ॥ अस्तु तर्हि कर्म्मधर्म्मः। नेत्युच्यते, अतिप्रसङ्गाच्च फलं नापूर्वं तत्त्वहानितः ॥ तदलाभान्न कार्य्यञ्च न क्रियाऽप्यप्रवृत्तितः ॥ १२ ॥ प्रकाशः। यद्वा सङ्कल्पादिति विवृणोति तर्हीति। एवं लाघवादिष्टसाधनतैव विधिः, सङ्कल्पस्य तु तत्स- द्धीनत्वादित्यर्थः। यदि च नैवं तदा भोजनादाविष्टसाधनताज्ञानमिच्छोत्पादकं न स्यादित्याह अन्यथेति। सङ्कल्पस्याप्रवर्त्तकत्वे शास्त्रविरोधं परिहरति तस्मादिति। तर्हि ज्ञानमेव कर्तृधर्मो विधिरस्त्वित्यत आह ज्ञानञ्चेति। तद्विषय एव-ज्ञानविषय एव। विधिरित्यनुषज्यते। यदि हि विषयविशेषान- वच्छिन्नं ज्ञानं प्रवर्त्तयेत्, सर्वत्र प्रवृत्तिप्रसङ्गः। तदवच्छिन्नस्य च तस्य तथात्वे यं विषयमुपन- यत्तत् प्रवर्त्तकं स एवार्थो विधिरिति कृतिहेतुचिकीर्षाकारणज्ञानविषयो विधिरित्यर्थः ॥११॥ क्रियते इति व्युत्पत्त्या कर्मपदेन यदि फलं स्वर्गाद्युच्यते, तस्य च कार्य्यत्वं ज्ञात्वा प्रवर्त्तते तदा अनुपायेऽपि प्रवर्त्तेतेत्याह- अतिप्रसङ्गादिति। अथापूर्वस्य कार्य्यत्वं ज्ञात्वा प्रवर्त्तते, तदा शब्दानुभवात् पूर्वं तदुप- स्थितं न वा ? आद्ये अपूर्वत्वव्याघातः, तस्य शब्दानुभवैकवेद्यत्वादित्यर्थः। अन्त्ये कथं शक्तिग्रह इति भावः। ननु कार्य्यत्वेनोपलक्षिते अपूर्वे कार्य्यत्वेनैव रूपेण शक्तिग्रहः, कार्य्यत्वविशिष्ट- द्योपस्थितमेवेत्याह तदलाभादिति। उपलक्ष्यस्यान्यत्र मानान्तरसिद्धत्वादत्रापि तथात्वे अपूर्व- त्वहानिरन्यथा तु तदलाभ इत्यर्थः। यद्वा कार्य्यत्वविशिष्टे कार्य्ये धर्मिणि शक्तिग्रहः, वाक्यार्थानुभवदशायामयोग्यतया घटादौ निरस्ते च तदतिरिक्तापूर्वलाभः स्यादित्यत आह तदलाभादिति। तथापि नित्यनिषेधापूर्वयो- रलाभः स्यादित्यर्थः। न क्रियाऽपीति। क्रियायाः कार्य्यत्वज्ञानात् न प्रवृत्तिरनिष्टसाधनत्वा- दित्यर्थः। टिप्पणी फलनिष्ठकार्य्यताज्ञानम् अपूर्वनिष्ठकार्य्यताज्ञानं, यागादिनिष्ठकार्य्यताज्ञानं वा प्रवर्त्तकमिति विकल्प्य प्राभाकरमतं क्रमेण दूषयति अतिप्रसङ्गादिति। स्वर्गादिः कार्य इति ज्ञानं यदि प्रवर्त्तकं स्यात्तदा स्वर्गाद्यसाधनेऽपि प्रवृत्तिप्रसङ्गनियामकस्य कस्यचिदप्यभावात्। तत्त्वहानित इति। अपूर्वस्य शाब्दबोधात्प्रागुपस्थितावपूर्वत्वहानिः अनुपस्थितौ च शाब्दबोधानुपपत्तिरि- त्यर्थः। ननु यथा गन्धवत्त्वेनोपलक्षितायां पृथिवीत्वविशिष्टायां घटादिव्यक्तौ पृथिवीपदस्य शक्ति- ग्रहस्तदनन्तरं च पृथिवीत्वेन शाब्दबोधः तथा कार्यं विधिशक्यमिति कार्यत्वोपलक्षितेऽपूर्वे शक्तिग्रह- स्तदनन्तरं चापूर्वत्वेनापूर्वस्य शाब्दवोधः स्यादत आह तदलाभादिति। अपूर्वत्वविशिष्टापूर्वान्य- क्त्यनुपस्थितेरित्यर्थः। अयमाशयः-गन्धवत्वपृथिवीत्वयोः पूर्वानुभवजन्यसंस्कारेण स्मरणस्य सह- चारदर्शनेन पूर्वगृहीतव्याप्तेः स्मरणानानुमितेर्वा संभवात् किमनयोः पृथिवीपदप्रवृत्तिनिमित्तमिति संशये अखण्डपृथिवीत्वजातौ लाघवात् प्रवृत्तिनिमित्तत्वं परिच्छिद्यते नतु गन्धवत्त्वे सखण्डे गौरवात् इह तु अपूर्वत्वस्य प्रागनुपस्थितिः, उपस्थितिश्चेदपूर्वत्वव्याघात इति। क्रिया यागादिस्तद्धर्मोऽपि कार्य्यत्वं न विध्यर्थ इत्याह न क्रियाऽपीति। अप्रवृत्तित इति।
पंचमस्तवके ] ईश्वरसाधनम् । ५४५ कर्म्म हि फलं वा स्यात्, तत्कारणमपूर्वं वा, तत्कारणं क्रिया वा ? न प्रथमः फलेच्छायाः प्रवृत्तिं प्रत्यहेतुत्वात्, अतिप्रसङ्गादित्युक्तत्वात् । न द्वितीयोऽव्युत्पत्तेः। लिङो हि प्रवृत्तिनिमित्तमपूर्व्वत्वं वा स्यात्, उभयं वा ? न प्रथमः । शब्दप्रवृत्ति- निमित्तस्यापूर्व्वत्वस्य प्रमाणान्तरादवगतावपूर्व्वत्वव्याघातात्, अनवगतावव्यु- त्पत्तेः, सम्बन्धिनोऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात् । तत एवावगतावित- रेतराश्रयदोषान् । न च गन्धवत्त्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् अपूर्वे प्रवर्त्तते लिङिति युक्तम् । तत्रोभयोरपि प्रतीयमानत्वेन सन्देहकल्पनागौरवपुरस्कारेण पृथिवीत्व- एव सङ्गतिविश्रान्तेरुपपत्तेः, न त्वत्रापूर्वत्वप्रतीतिः । स्यादेतत् , कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता, तदुपलक्षितश्च यागो वा यत्नो वाऽन्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधन- समर्थः । न चाकाम्यफले कामी नियोक्तुं शक्यते । ततोऽन्यदेवा लौकिकं किञ्चि- दनेनोपलक्ष्यते, यो लिङादिप्रवृत्तिगोचर इति किमनुपपन्नमिति चेत् । उपलक्षणं हि स्मरणमनुमानं वा । उभयमप्यनवगतसम्बन्धेनाशक्यम् , न हि संस्कारवन्म- नोवददृष्टवद्वा कार्यत्वमपूर्वत्वमुपलक्षयति, ज्ञानापेक्षणात् । ततो हस्तीव हस्तिपकं, धूम इव धूमध्वजं, तत्सम्बन्धज्ञानादुपलक्षयेत्, न त्वन्यथा । प्रकाशः । तत्कारणमपूर्वकारणम्। फलेच्छाया इति । स्वर्गादेः कार्य्यतां जानन्नपि उपायज्ञानं विना न प्रवर्त्तते । कथं वाऽन्यज्ञानादन्यत्र साधने प्रवृत्तिः । यदि च साध्यसाधनभावो नियामकः, तदा भ्रमादसाधने न प्रवर्त्तेतेत्यर्थः । प्रमाणान्तरादिति । शब्देतरप्रमाणागोचरत्वस्यापूर्व्वस्य त्वयाऽभ्युपगमादित्यर्थः । अनव- गतान्निति । मानान्तराच्छक्तिग्रहविषयानुपस्थितौ तदसम्भवादित्यर्थः । तत एवेति । लिङ्पदा- देवेत्यर्थः । इतरेति । लिङः शक्तिग्रहे ततोऽपूर्वोपस्थितिस्तदुपस्थितौ च तत्र शक्तिग्रह इत्यर्थः । तत्रेति । पृथिवीत्वगन्धवत्त्वयोः प्रत्यक्षतः सिद्धौ तदन्यतरत्र प्रवृत्तिनिमित्तत्वसंशये गन्धवत्त्व- स्योपाधित्वेन सखण्डत्वात् पृथिवीत्वस्य च जातित्वेनाखण्डत्वात् तत्रैव शक्तिः कल्प्यते, प्रकृते त्वपू- र्वत्वाप्रतीतौ न तथेत्यर्थः । कार्य्यत्वमिति । वृद्धव्यवहाराद्व्युत्पद्यमानो बालः आत्मन्यवगतं प्रवृत्तिहेतुं कार्य्यत्वं लिङ- मवधारयति ततः कार्य्यशक्तं लिङ्पदं स्वर्गयोः कार्य्यत्वं त्यक्त्वा स्वर्गसाधनतायोग्यं तन्मध्यवर्त्ति- कार्य्यत्वोपलक्षितमपूर्व्वमनुभावयिष्यतीत्यर्थः । उपलक्षणं हीति । यथा गङ्गापदं स्वार्थान्वयानुपपत्त्या स्वसम्बन्धितया प्रतीतचरं तीरं स्मारयति, यथा वा व्याप्यं व्यापकत्याऽवगतमनुमापयति, न तद्वदपूर्वमप्रतीतचरत्वेन सम्बन्धितया व्यापकत्या वाऽनवगतं कार्य्यत्वं स्मारयितुमनुमापयितुं वाऽलमित्यर्थः । न च यथा संस्का- रादिरज्ञात एव स्मृत्यादि जनयति, एवं कार्य्यत्वमज्ञातमेवापूर्वं ज्ञापयति, सम्बन्धित्वव्याप्यत्वाभ्यां ज्ञातस्यैव ज्ञापकत्वादित्याह न हीति । तत्सम्बन्धेति । अपूर्वेण सम्बन्धज्ञानादित्यर्थः । एवञ्च प्रागुक्तन्यायसम्पादनमपि अफलं, सर्वथाऽपूर्व्वस्याप्रतीततया तत्र शक्तिग्रहाशक्यत्वादित्याह- मकरन्दः । एवं कार्य्यत्वमिति । स्वभावादिति भावः । तमेवाह सम्बन्धित्वेति । प्रागुक्तेति । उप- लक्षितस्येत्यादिना प्रागुक्तेत्यर्थः । ६६ न्या० कु०
५५६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकान्याख्यायां तथाच न्यायसम्पादनाऽध्वरण्ये रुदितम्, न हि युक्तिसहस्रैरप्यविदिते सङ्ग- तिग्रहोऽविदितसङ्गतिर्वा शब्दः प्रवर्त्तत इति । एतेन-भेदाग्रहात् क्रियाकार्ये व्युत्प- त्तिः-इति निरस्तम्, न ह्यज्ञाते भेदाग्रहो व्यवहाराङ्गम्, अतिप्रसङ्गात् । किञ्चापूर्व्वत्वे प्रवृत्तिनिमित्ते कल्यमाने लौकिकी लिङनर्थिका प्रसज्येत, तत्रोपलक्षणीयाभावात् । तत्र कार्य्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृतेऽपि तथैवास्तु क्लृप्तत्वात् सम्भवाच्चेति ॥ अस्तु तर्हि तदेव प्रवृत्तिनिमित्तं, तर्कसम्पादनया त्वपूर्व्वव्यक्तिलाभ इति चेत् । न । नित्यनिषेधापूर्व्वयोरलाभप्रसङ्गात् । न चास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रा- प्रकाशः । तथा चेति । स्थायिकार्य्यत्वमेव लिङः प्रवृत्तिनिमित्तं, क्रियारूपकार्य्ये तु भेदाग्रहा- च्छिद्धः प्रवृत्तिरित्यप्यत एवापास्तं, ज्ञातेनैव सह भेदाग्रहस्य प्रवर्त्तकत्वादित्याह एतेनेति । किञ्चेति । पचेतेत्यादौ क्रियाया योग्यत्वेन त्यागाभावात्तत्क्रियाकार्य्यत्वमेव लिङ्पदात् प्रतीयते इत्यपूर्व्वत्वस्य तत्प्रवृत्तिनिमित्तत्वे तदानर्थक्यं स्यादित्यर्थः । प्रकृतेऽपीति । तच्च क्रियासाधारणमिति नापूर्व्व- व्यक्तिलाभ इति भावः । ननु कार्य्यधर्मिणि कार्य्यत्वेन रूपेण घटादावेव शक्तिग्रहः सम्भवति, कार्य्यत्वञ्च मानान्तरोपस्थि- तमेवातोऽन्विताभिधानदशायां स्वर्गकामायोग्यतया घटादिकं तिरस्कृत्य क्रियातोऽन्यत् स्थायिस्वर्ग- साधनतायोग्यं लिङा बोध्यते । न चान्यत्र शक्तिग्रहोऽन्यच्च शब्देन बोध्यते इति न स्यादिति वाच्यम् । येन रूपेण शब्दादनुभवः, तेन शक्तिग्रहस्य हेतुत्वात्, तथा च कार्य्यत्वेन रूपेण घटादौ शक्तिग्रहे योग्यतादिसहकारिवशादप्रतीतं धर्म्म्यन्तरं लिङाऽनुभाव्यते । न च स्मृतानां पदार्थानां योग्यता- दिसाचिव्याच्छब्देनान्वयो बोध्यते, न चापूर्व्वं स्मृतिगोचर इति वाच्यम् । शक्तिग्रहपदार्थस्मरण- वाक्यानेुभवादीनां समानप्रकारत्वेनैव कार्यकारणभावात्, लाघवादावश्यकत्वाच्च । न च क्वचित् सहचारमात्रेणान्वयप्रतियोगिन एव स्मृतिरन्वयबोधे हेतुः, गौरवात् । प्रकृतेऽपि कार्य्यशक्ता लिङिति शक्तिग्रहात् कार्य्यमिति ततः स्मृतिः, यागविषयकं कार्य्यमित्यनुभव इति क्रमेण तेषां समानप्रकारकत्व- मस्त्येवेत्यभिसन्धाय्याह— अस्त्विति । यदि कार्य्यत्वेन क्रियासाधारन्येन लिङः शक्तिग्रहः, स्वर्गकामायोग्यतया च क्रियानिरासः, तदा 'अहरहः सन्ध्यामुपासीत, न कलञ्जं भक्षयेदि'त्यत्र नित्यनिषेधापूर्व्वयोरलाभः, न हि तत्रायोग्यतया क्रिया त्यक्तुं शक्यते, फलाश्रवणेन न्यायसम्पादनानवकाशादित्याह नित्येति । अस्मिन् पक्षे-कार्य्यत्वप्रवृत्तिनिमित्ततापक्षे । न्यायेति । न ह्यपूर्व्वत्वेन शक्तिरपि तु कार्य्यत्वेन कार्ये धर्मिणि, क्रिया च तथा भवत्येवेति न तद्भिन्नं लिङा बोध्येतेदर्थः । ननु न लोके कार्ये धर्मिणि शक्तिः कल्पिता, किन्त्वनन्यलभ्ये कृतिरूपे कार्य्यत्वमात्रे, धर्मिणः पाकादेर्धातोरिवोपस्थितिसम्भवात् । क्रियाकार्य्यत्वस्य चान्विताभिधानलभ्यत्वात् । तथा च धर्मिणि शक्तिर्वेद एव कल्प्या, सा च क्रियानिरासेनेव, क्रियाया अन्वययोग्यत्वे धर्मिणि शक्तिग्रहस्या- प्रकाशिका । स्थायिकार्य्यत्वमेवेति । अपूर्वनिष्ठमिति शेषः । यद्वा अपूर्वमेवानेनोपलक्षितम्-अत एवाग्रे तस्यैव दूषणं किञ्चेत्यादिना । कार्य्यत्वमात्रमित्युपलक्षणम्-क्रियासाधारणं कार्य्यमात्रमभेदश्वान्वय इत्यपि द्रष्टव्यम् । मकरन्दः । स्थायिकार्य्यत्वमेवेति । अपूर्वनिष्ठमिति शेषः । यद्वा अपूर्वत्वमेवानेनोपलक्षितम्, अत एव किञ्चेत्यादिना तदेव दूषयतीति भावः ।
पञ्चमस्तबके] ईश्वर्र्साधनम्। ५४७ र्थैनान्यत्र तथैव व्यवहार इति सम्भवति। कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णी- तत्वात्, न त्वपूर्वत्वस्य। न्यायसम्पादनायाश्च तत्रासम्भवात्। फलानुगुण्येन हि प्रकाशः। शक्यत्वात् । तस्मादयोग्यतया क्रियायां निरस्तायां धर्मिणि शक्तिग्रहकाले वस्तुतो यत्क्रियाभिन्नं कार्यं, तत्र शक्तिः। तथा च नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं लिङाभिधीयते, कॢप्त- त्वात्, न तु क्रियान्वययोग्यकार्यत्वमात्रं, लक्षणाप्रसङ्गात्, धर्मिणि बाधकाभावाच्च । अत एव क्रियाकार्यत्वे लौकिकी लिङ् लाक्षणिकी, उक्तरीत्या क्रियानिरासेनाैव वेदे धर्मिणि शक्तिकल्पनात् । लौकिकानां तत्र तात्पर्यांसम्भवात् , क्रियासाधारणशक्तावपि लोके लिङ् लाक्षणिकी । पचेतेत्यादौ पाककार्यताज्ञानेऽपि लाघवात् कार्यत्वे लिङ्हतात्पर्यम्, न तु धर्मिण्यपि धातुलभ्यत्वात् , तथा च तृतीयायाः करणैकत्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यं, किन्तु विशिष्टम् , विशिष्टाच्च विशेषण- मन्यदेवेति कार्यत्वे लक्षणा। न चानुपपत्त्या कार्यत्वविशिष्टोपस्थितावपि धर्म्यंशमपहाय क्रियायाः कार्यत्वान्वयोपपत्तौ किमुपस्थित्यन्तरार्थं लक्षणयेति वाच्यम्। यत इतरधर्मिगतत्वेनोपस्थितस्य कार्यत्वस्य न धर्म्यन्तराकाङ्क्षाऽस्ति, येन तदितरधर्म्यन्वयो ज्ञायेत, तथा च स्वतन्त्रकार्यत्वोपस्थि- तये लक्षणा युक्ता । मैवम्। कार्यत्वमात्रशक्तस्य लिङ्पदस्यापूर्व्वलक्षणयैवोपपत्तौ तत्र शक्तौ मानाभावात्। न चापूर्वं शक्यकार्यत्वसम्बन्धितया न ज्ञातमिति न तत्र लक्षणेति युक्तम्। यथा हि शक्तिपक्षे कार्यत्वेन रूपेण घटादावेव लिङः शक्तिग्रहः कार्यमिति ततः स्मृतिश्चानुभवदशायां च योग्यतावशात् घटादिकं विहायापूर्वं भासते, तथा लक्षणायामपि लिङ्वाच्यं कार्यत्वं कार्यघटादिसम्बन्धितया ज्ञातं कार्यं घटादि स्मारयतु, योग्यतावशाच्चापूर्वमनुभवे भासताम्, कार्यस्मरणं हि अन्विताभिधानोपयोगि न त्वपूर्व- स्मरणम्, तच्च पदेन पदार्थेन वेति न कश्चिद्विशेषः। न च लिङो लाक्षणिकत्वेनापूर्व्वानुभवप्रसङ्गः, लाक्षणिकपदस्यानुभावकत्वादिति युक्तम्। त्वन्मये इतरान्वितस्वार्थशक्तस्य यजिपदस्यैवेतरदपूर्व- मादायानुभावकत्वात्, अन्यथा तीरादेरप्यननुभवापत्तिः। अथेतररोपलक्षितस्वार्थान्वयमात्रे पदानां शक्तिर्न तु इतरत्रापि, गौरवात्, पदान्तरलभ्यत्वाच्च। न च तीरादिप्रतिबन्धिः, तत्र हि तीरोपसङ्क्षितान्वयशालिस्वार्थान्वयानुभावकत्वं वसतत्यादिपदस्य, तीरस्य तु संस्कारादुपस्थितिः, प्रकृते चापूर्व्वस्य संस्काराविषयत्वादिति चेत् । न। मञ्चाः क्रोशन्तीत्यत्र मञ्चस्थाः पुरुषाः क्रोशन्तीत्यवगम्यते, न च मञ्चस्थः पुरुषः प्रागनुभूतो येन तीरमिव प्रकाशिका। तच्च पदेन पदार्थेन वेति। एतच्च लक्षणास्थाने पदार्थस्य शक्यस्य लक्ष्योपस्थापकत्वमिति मतमाश्रित्य, वस्तुतः पदस्यैव लक्ष्योपस्थापकत्वमिति साक्षात्सम्बन्धेन परम्परासम्बन्धेन वेति विकल्पार्थो द्रष्टव्यः । न चैतादृशं बोधयति चिकीर्षाजनकस्यैव बोधकस्याकाङ्क्षितत्वात् , एतस्य चातथात्वात् , न ह्येतेनापूर्वगोचरा चिकीर्षा तद्विशेष्यकत्वात्, नापि यागविशेष्यिका तत्र कार्यत्वसम्बन्धानवगाहनात् । मकरन्दः। कार्यत्वमात्रमित्युपलक्षणं, न क्रियासाधारणं कार्य्यमात्रमभेदश्वान्वयः, न हि यद्यनुपपानु- पपत्त्या यत्कल्पनं तदेव तस्य विषय इत्यभ्युपगमादित्यपि द्रष्टव्यम् । कार्यमात्रशक्तस्येति । न च स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणेति नियम इति वाच्यम् । अप्रयोजकत्वात् । अत एव नीलादिपदस्य तद्वति लक्षणाऽभ्युपगम इति भावः । अधिकं शब्दप्रकाशे द्रष्टव्यम् ।
५४८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां व्यक्तिविशेषो लभ्यते, न च तत् तत्र श्रूयते । न चाश्रुतमपि कल्पयितुं शक्यते । बीजाभावात् । प्रकाशः । संस्कारादुपतिष्ठेत । न चापूर्वः पुरुषविशेषो न भासते इति वाच्यम् । गृहप्रवेशानन्तरं अयं यथा पूर्वमज्ञात एव मञ्चाः क्रोशन्तीति शब्दात् क्रोशनकर्तृतयाऽवगत इत्यनुभवात् । तस्मादनन्यगति- कतयेतरान्वितस्वार्थबोधकत्वमभ्युपेयम् । अथैवंसति यजिपदेन स्वर्गकामकार्यविषयो याग इत्यनुभवो जन्येत, लक्षणायामितरपदस्य लक्षणीयविशेषणस्वार्थविशेष्यकानुभवजनकत्वात्, न चैतादृशो बोध आकांक्षित इति चेत् । न । स्वर्गकामकार्यविषयो याग इत्यनुभवेऽपि स्वर्गकामकैर्ययोरन्वयप्रकारत्वेनापूर्वलाभात् । तादृशशब्दानुभवानन्तरमर्थाद्यागविषयकं कार्यमित्यौपादानिकबोधात् प्रवृत्त्युपपत्तेश्च । अस्तु वा लाक्षणिकमपि पदमनुभावकम्, तच्च द्वितीयाध्यायप्रकाशे प्रपञ्चितमस्माभिरिति नेह प्रतन्यते । किञ्च न कार्ये घटादौ लिङः शक्तिग्रहः, स्वर्गकामायोग्यतया शक्तिग्रहकाले क्रियानिरासवत् यागान्वयानुपपत्त्या घटादिनिरासस्यापि सम्भवात्, तत्र यागविषयकत्वस्य बाधात्, अन्यथाऽन्वि- ताभिधानकालेऽपि तन्निरासानुपपत्तेः । न च शक्तिग्रहकाले यागान्वयानुपपत्तेरप्रतिसन्धानं, किन्तु स्वर्गकामान्वयानुपपत्तिमात्रं प्रतिसन्धीयते इति युक्तम् । प्रत्ययस्यान्तरङ्गप्रकृत्यर्थान्वयं बोधयत एवेतरान्वयबोधकत्वमिति तदन्वयानुपपत्तिप्रतिसन्धानस्यैव प्राथमिकत्वात् । पुरुषदोपादप्रतिसन्धा- नेऽपि शक्तिग्रहस्य भ्रमत्वापत्तेः, घटादेरशक्यत्वात् । घटादीनामानन्त्येऽपि पृथिवीत्वादिनाऽन्विता- भिधानकालवन्निरासोपपत्तेः । एवञ्च प्रचरत्कार्यनिरासे क्व कार्यधर्मिणि शक्तिग्रहः ? । एतेन-लिङ्पदमेकत्रोच्चारणे स्थायिकार्यस्वर्गजनकत्वादीनां ज्ञाने शक्तमिति व्युत्पत्तिः । स्थायि- ज्ञानादिकञ्चोपस्थितमेव । अतो लिङ्पदेनैकोच्चारण योग्यतादिवशाद् यागविषयकं स्थायिस्वर्ग- जनकं कार्यमित्येकं ज्ञानमनुभवरूपं प्रचरद्वस्तुविलक्षणविषयं क्रियते । न चैवं नानार्थवदेकैकज्ञाने शक्तिग्रहादेकैकविषयोऽनुभवो भवेत्, न समुदितविषय इति वाच्यम् । शक्तिग्रहकाले एकत्रोच्चारणे इति विशेषणमहिम्ना तत्सम्भवात् । नानार्थे तु प्रमाणाभावेन गौरवेण शक्तिग्रहे तस्याप्रवेशात् । तथाप्यमीषां समूहालम्बनापत्तिर्न तु मिथो वैशिष्ट्यज्ञानमिति न वाच्यम् । साकाङ्क्षधर्मधर्मिणोरेकं ज्ञानमेव हि विशिष्टज्ञानम् । इत्थमेवालौकिककार्येषु स्वर्गादिपदेषु शक्तिग्रह-इत्यपास्तम् । स्थायिनां घटादीनां निरासाद् धर्ममात्रे च शक्तिग्रहस्य प्रकृतेऽनुपयोगात् । किञ्च तेषु समु- दितेषु न शक्तिग्रहः, प्रथमं समुदायस्यैकज्ञानाविषयत्वात् । विषयत्वे वा पूर्वमेव विशिष्टस्य सत्त्वे अपूर्वत्वव्याघातः । एकज्ञानविषयकसाकाङ्क्षधर्मधर्मिणोरेव विशिष्टत्वात् । नापि प्रत्येकम्, तथाहि- लिङ्पदात् स्मरणत्रयं यजिपदाच्च यागस्मरणम् । न च चतुर्णां तेषां यौगपद्यमस्ति । न च प्रत्येकं शक्तिग्रहेऽपि समुदितविषयमेकं स्मरणं लिङ्पदादिति वाच्यम् । समुदायस्य पूर्वमननुभवात् । किञ्च एकमेव स्मरणं यदि साकाङ्क्षधर्मधर्मिविषयकं, तर्ह्यपूर्वत्वक्षतिः । तवैकज्ञानारूढयोः साकाङ्क्षधर्म- धर्मिणोरेव विशिष्टत्वादित्यस्मत्पितृचरणाः । ननु विश्वजिन्न्न्यायेन नित्येऽपि फलं कल्पयिष्यते इत्यत आह न चेति । त्वन्नये इति शेषः । प्रकाशिका । स्वर्गकामकार्यविषय इति । कार्यपदमत्र यागपरम् । नन्वेवमपि चिकीर्षाजनकत्वानुपपत्ति- स्तदवस्थैवेत्यत आह तादृशशब्देति । वस्तुतस्तु एतदुत्तरकालीनो यागः कार्यं इतीहोत्पादानिक- बोधः प्रवर्त्तक इति मन्तव्यम् । त्वन्नय इति । त्वन्नयेत्यस्य निष्फलत्वाभ्युपगमादिति भावः । मकरन्दः । त्वन्नये इति । त्वया निष्फलत्वेनाभ्युपगमादिति भावः । न त्विति । न त्वपूर्व स्वर्गसाधन- मिति तत्र गौणप्रयोजनत्वधीरित्यर्थः ।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५४६ तद्धि विध्यन्यथाऽनुपपत्त्या कल्प्येत, कार्य्यत्वप्रत्ययान्यथाऽनुपपर्त्या वा, लोकवत् । न प्रथमः। भवतां दर्शने तस्योपेयरूपत्वात्, यतः श्रुतस्वर्गफलत्वेऽपि साध्यविशिष्टिरुच्यते । न द्वितीयः। शब्दबलेन तत्प्रत्यये तदनपेक्षणात्, लोके हि तत्प्रत्यय इष्टाभ्युपायताऽधीनो न तु वेदे इत्यभ्युपगमात् । अन्यथेट्ठाभ्युपायताच प्रथमं वेदादवगन्तव्या, प्रमाणान्तराभावात्, ततः कार्य्यतेत्यानुमानिको विधिः स्यात्, न शाब्दः। आनुमानिकं फलमस्तु, यत्कर्त्तव्यं तदिष्ट्ठाभ्युपाय इति व्याप्तेरित्यपि न युक्तम् । सुखेन व्यभिचारात् । अन्यत्वे सतीति चेत् । न । दुःखाभावेन व्यभिचारात् । फलं विहायेति चेत् । तदेव किमुक्तं स्यात् । इष्टं स्वभावत इति चेत् । तर्हि ततोऽ- न्यदनिष्टं स्यात्, तच्च कर्त्तव्यमिति व्याघातः। तत्साधनमिति चेत् । तत्साधनत्वे सतीति साध्याविशिष्टं विशेषणम् । स्वभावतो नेदमिष्टं कर्त्तव्यञ्च, ततो नूनमिष्ट- प्रकाशः । तथाच तवापसिद्धान्त इति भावः । बीजाभावं स्पष्टयति तद्धीति । तत्-फलम् । विधित्वं-कार्य- त्वम् । तत् फलजनकत्वं विनाऽनुपपन्नं फलं कल्पयतीत्यर्थः । लोकवदिति । यथा लोके कार्यत्वं पाकादेरिष्टसाधनत्वेन लिङ्गेनानुमीयते इति कार्यत्वमिष्टं फलं प्रतीत्यैव प्रतीयते, तथा वेदेऽपीत्यर्थः । उपेयरूपत्वादिति । त्वन्नये अपूर्वस्यैव स्वतःकाम्यतयाऽनन्योद्देश्यकृतिकृत्यन्वयित्वादित्यर्थः । तथा च फलजनकत्वं विनाऽपि फलस्येवापूर्वस्य कार्यत्वमुपलभ्यमानं न फलकल्पकमिति भावः। यत इति । यत्रापि स्वर्गः फलं श्रूयते, तत्राप्यपूर्वस्यैव स्वतःप्रयोजनता स्वर्गपर्यन्तं व्याप्नोति । न त्वपूर्वं स्वर्गसाधनमिति धीः, प्रधानस्य गुणत्वानुपपत्तेरिति तव दर्शनादित्यर्थः । एतच्च विरोधोद्भावनमात्रम्, वस्तुतोऽपूर्वं न स्वतःप्रयोजनं, लोके तथाऽनवगमात् । वेदेऽपि काम्यस्थले काम्यसाधनस्यैवापूर्वस्य गौणप्रयोजनस्य लिङाऽभिधानम्, काम्यसाधनताज्ञानं विना कामिकार्यत्वस्य बोधयितुमशक्यत्वात्, न तु स्वतःप्रयोजनत्वेन, तत्रासामर्थ्यादनुपयोगाच्च । प्रवृत्तेर्भोजनादाविव लोकक्लृप्तकाम्यसाधनताज्ञानात् कार्यताज्ञानाद्वा गौणप्रयोजकत्वेनैवोपपत्तेः। अथ नित्ये -लोकवेदावगतगौणमुख्यप्रयोजनाभावे सति लिङेवापूर्वस्य स्वतःप्रयोजनत्वं बोधयति, तेन विना प्रवृत्तिपरत्वानिर्वाहादिति चेत्। न। निरुपाधीच्छाविषयत्वं हि स्वतःप्रयोजनत्वमपूर्वस्य लिङा बोधनीयं, न चापूर्वस्य तादृशेच्छाविषयत्वं क्वचिदपि सिद्धमिति भावः। शब्दबलेनेति । कार्यताधीर्लैङ्गिकी, तत्र सा लिङ्गमिएसाधनत्वमपेक्षते, वेदे तु कार्यशक्ता लिङेव तां जनयतीति न तत्र सा तदपेक्षेतेत्यर्थः । यदि चापूर्वं न स्वतःकार्यमिति तत्रापि सा तदपेक्षेत, तदिष्टसाधनत्वज्ञापकस्यान्यस्याभावाद्देव एव तद्बोधयेत्, तथाच लोकवल्लिङ्गादेव कार्य्य- ताधीसम्भवान्न लिङस्तत्र शक्तिः कल्प्येतेत्याह अन्यथेति । साध्याविशिष्टमिति । दृष्टसा- धनत्वस्यैव साध्यत्वादित्यर्थः । स्वभावत इति । सोपाधीच्छाविषयत्वे सति कर्त्तव्यत्वेनापूर्वं फल- प्रकाशिका । न त्वपूर्वं स्वर्गसाधनमिति धीः। यत्र गौणप्रयोजनत्वधीरित्यर्थः । प्रधानस्येति । तच्चापूर्वं स्वतःप्रयोजनमेव न तु गौणप्रयोजनमित्यर्थः । तन्मतेऽस्वरसमाविष्करोति एतच्चेति । परं प्रत्यसिद्धान्तोद्भावनमात्रमित्यर्थः । मकरन्दः । प्रधानस्येति । तथा चापूर्वं स्वतःप्रयोजनमेव न तु गौणप्रयोजनमिति भावः । अत्र मते अस्वरसमुद्भावयति एतच्चेति । परं प्रत्यपसिद्धान्तोद्भावनमात्रमित्यर्थः । यदि चेति । स्वतः- काम्यत्वे इष्टसाधनत्वाभावान्न तदपेक्षेति भावः ।
५५० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां साधनमिति साधनार्थ इति चेत् । न । स्वभावतो नेदमिष्टमित्यसिद्धेः । अनन्योद्देश- प्रवृत्तकृतिव्याप्यत्वात् , अन्यथा तदसिद्धेः, ततो व्याघातादन्यतरापाय इति । अस्तु नित्यनिषेधापूर्वयोरलाभः, किं नश्छिन्नमिति चेत् । किं नश्छिन्नं, यदा कामाधिकारेऽपि तदलाभः, न हि लिङा कार्य्यं स्वर्गसाधनमुक्तम् । नापि स्वर्ग- कामपदसमभिव्याहारान्यथानुपपत्त्या तल्लब्धं, ब्राह्मणत्वादिवदधिकार्य्यवच्छेद- मात्रेणैवोपपत्तेः। न चेदमनुमानं-यस्य यदिच्छातो यत्कर्त्तव्यं, तत्तस्येप्सितसाधनम्-इति । अन्ये- च्छयैव तत्कर्त्तव्यतायाः सुखेननैकान्तिकत्वात् , औपाधिककर्त्तव्यतायाश्चेप्सितसाध- नत्वमप्रतीत्य प्रत्येतुमशक्यत्वात् ॥ किमनया विशेषचिन्तया, प्रतीयते तावच्छब्दादन्यदिच्छतोऽन्यत्कार्य्यमित्ये- तावतैवानुमानमिति चेत् । नन्वन्वितमभिधानीयं, योग्यञ्चान्वीयते, अन्यदिच्छु- तश्चान्यत् कर्त्तव्यमन्वयायोग्यं, तत्कथमभिधीयताम् । तत एव तत्साधनत्वसिद्धि- रिति चेत् । एवं तर्हीष्टसाधनतैकार्थसमवायिकर्त्तव्यत्वाभिधानादनुमानानव- काशः । न चान्विताभिधानेऽपि तत्साधनत्वसिद्धिः । अधिकार्य्यवच्छेदमात्रेणाप्य- न्वययोग्योपपत्तेः। प्रकाशः। साधनमित्यनुमेयमित्यर्थः । असिद्धेरिति । त्वन्मतेऽपूर्वस्यैव स्वतःकाम्यतया विशेषणासिद्धौ हेतुरित्यर्थः । असिद्धिं स्पष्टयति अन्यथेति । उद्देश्यफलान्तरसद्भावे नित्यनिषेधापूर्वत्वासिद्धेरि- त्यर्थः । तत इति । अपूर्वस्य स्वभावत इष्टत्वे न काम्यसाधनत्वं, तथात्वे वाऽनन्योद्देशप्रवृत्तकृति- व्याप्यत्वरूपं स्वभावत इष्टत्वं नेत्येकतरसत्त्वमन्यतरसत्त्वविरुद्धमित्यर्थः । तदलाभोऽपूर्वालाभः । किं निरपेक्षा लिङेवं स्वर्गसाधनतामाह येन तत्साधनं स्थिरमपूर्वं शब्द- बोध्यं, स्वर्गकामपदसमभिव्याहृता वा ? आद्ये न हीति । तथा सति लौकिकी लिङनर्थिका स्यात् । वेदेऽप्यनन्योद्देश्यकृतिव्याप्यत्वरूपस्य कार्य्यत्वस्य स्वर्गसाधनत्वविरोध इति भावः । द्वितीयमाश- ङ्क्यान्यथासिद्धया निराकरोति नापीति । यथा यस्य ब्राह्मण्यमस्ति तस्य कार्य्यमिति धीः, तथा यस्य स्वर्गकामनाऽस्ति तत्सम्बन्धि कार्य्यमिति शाब्दी धीः, न तु स्वर्गाद्देशप्रवृत्तकृतिसाध्यं कार्य्य- मिति, तथाच न स्थायिनोऽपूर्वस्य लाभ इत्यर्थः । अनुमानादपूर्वलाभोऽस्त्विति मतमाशङ्क्य निराकरोति न चेदमिति । यस्येति । काम्या- साधने कामिनः कर्त्तव्यताज्ञानाभावाद्वाधिरित्यर्थः । किमन्येच्छया कर्त्तव्यत्वं, स्वभावतो वा ? आद्ये, अन्येच्छयेति । अन्येच्छया कर्त्तव्यत्वेऽनन्योद्देशप्रवृत्तकृतिसाध्यत्वं भज्येतेत्यर्थः । अन्त्ये, तदिति । आद्ये दूषणान्तरमाह औपाधिकेति । अत्र स्वाभाविकत्वौपाधिकत्वरूपविशेषाविवक्षायां कर्त्तव्यत्वमात्रं विवक्ष्यते , तच्च शब्देनान्ये- च्छोरेव बोध्यते इति पूर्वमनुमानमदुष्टमेवेत्याह- किमनयेति । इष्टसाधनताऽभिधानं विनाऽन्यदिच्छतोऽन्यत् कर्त्तव्यमयोग्यतया नान्वेतुमर्ह- तीत्याह नन्विति । काम्यभिन्नस्य कामिकार्य्यस्य काम्यसाधनस्यैवान्वययोग्यत्वादित्यर्थः । तत एवेति । शब्दादेवेष्टसाधनत्वसिद्धिरित्यर्थः । अस्तु वा अन्यदिच्छतोऽन्यत् कर्त्तव्यमन्वययोग्यं, तथापि नेष्टसाधनत्वमनुमातुं शक्यते, ब्राह्मणत्वस्येव स्वर्गकामतवस्याधिकारितावच्छेदकत्वेनाप्यन्वययोग्योपपत्तेरित्याह न चान्वि- तेति । वस्तुतः तवापूर्वस्यैव स्वतःकाम्यसाधनत्वं विरुद्धमिति भावः ।
पंचमस्तवके ] ईश्वरसाधनम् । ५५१ न च कार्यत्वमपूर्वे सम्भवति। तद्धि कृतिव्याप्यता चेत्, व्रीह्यादिष्वेव, सिद्ध- त्वात्। कृतिफलत्वाच्चेत्, यागस्यैव, ततस्तस्यैवाहृत्योत्पत्तेः। कृत्युद्देश्यता चेत्, स्वर्गस्यैव, निसर्गसुन्दरत्वात्। न त्वपूर्वस्य, तद्विपरीतत्वात्। स्तन्यपाना- दिवदौपाधिकीति चेत्। साऽपि यागस्यैव। स्वर्गस्य साध्यत्वस्थितौ यागस्यैव साधनत्वेनान्वयात्। कालव्यवधानात्तन्निर्वहतीति चेत्, यथा निर्वहति श्रुतानुरोधेन तथा प्रकाशः। कार्यत्वमपूर्वस्य विकल्प्य निराकरोति न चेति। तद्धीति। कृतिजन्यव्यापाराश्रयत्वमित्यर्थः। न ह्यसिद्धस्य व्यापारभागित्वमिति भावः। कृतिफलत्वं कृत्यानन्तरभावित्वमिति भावः। कृत्युद्दे- श्यत्वमनन्योद्देशककृतिव्याप्यत्वमित्यर्थः। तद्विपरीतत्वादिति। सुखदुःखाभावयोरेव स्वतःकास्य- त्वादित्यर्थः। न च लिङैव तद्द्बोध्यते, वस्तुसत एव बोध्यत्वात्। न चापूर्वस्य निरुपाधीच्छाविष- यत्वमस्ति, यल्लिङा बोध्येतेत्युक्तमिति भावः। साऽपीति। औपाधिकीच्छासाधनता यागस्य स्वर्गसाधन- तयाऽस्तीति कृतिसाध्यत्वमप्यौपाधिकमिति तत्परित्यागे नापूर्वसिद्धिरित्यर्थः। यागस्याशुतरविनाशित्वात् स्वर्गस्य च कालान्तरभावित्वात् यागस्य स्वर्गसाधनत्वं न सम्भ- वतीत्याह कालेति। यागस्य प्रतीतस्वर्गसाधनताऽन्यथानुपपत्त्या फलसमयपर्यन्तस्थायी व्यापारः कल्प्यते इत्याह यथेति। ननु साधनताप्रतीतिरेव योग्यताज्ञानाभावान्न सम्भवति। तथाहि स्वर्गसाधनताज्ञानं यागस्य भवत्साक्षात्साधनताविषयकं भवेत्, परम्परासाधनताविषयकं वा, एतदुभयोदासीनसाधनताविषयकं वा ? नाद्यः, आशुतरविनाशित्वेन क्रियायाः कालान्तरभाविस्वर्गेणव्यवहितपूर्वसमयावृत्तित्वात्। न द्वितीयः, परम्पराघटकस्यानुपस्थितेः। अथास्तु तृतीयः, तथाहि-साक्षात्परम्परोदासीनसाधनतामात्रं यागस्य स्वर्गं प्रति नायोग्यम्। न च साक्षात्परम्पराविशेषद्वयं विना सामान्यं नास्त्येवेति वाच्यम्। साक्षात्परम्पराभ्यां विशेषाणा- नुपपत्तेः। न च विशेषद्वयबाधे सामान्यमपि बाधितं, परम्परासाधनत्वस्याबाधनात्। बाधो हि विपरीतप्रमा। न च स्वर्गे यागो न परम्परासाधनमिति प्रमा नास्ति। न च योग्यानुपलब्ध्या परम्पराघटकबाधः, संस्कारवदयोज्यस्यापि तस्य सम्भवात्। अन्यथा वाच्येऽप्यपूर्वे क्रिया कामि- कार्या न स्यात्, काम्यासाधनत्वात्। न हि यदयोग्यं तत्पश्चाद् योग्यम्। तस्मात् स्वर्गसाधनं याग इति सामान्यतः परम्परासाधनत्वममुल्लिख्य वस्तुगत्या परम्परासाधनविषयकं ज्ञानमुत्पद्यमानं नायोग्यतया परिभवितुं शक्यमिति। मैवम्, तथाहि-स्वर्गं प्रति यागो न साक्षात्साधनमिति ज्ञानानन्तरं स्वर्गसाधनं याग इति सामान्यज्ञानं भवत् परम्परासाधनताप्रकारकं स्यात्, एकविशेषबाधे शाब्दज्ञानस्य तदितरविशे- षप्रकारकत्वनियमात्। यथा छिद्रवाधे घटपदजन्यं घटज्ञानं छिद्रेतरत्वप्रकारकम्। न च परम्परा- प्रकाशिका। कृतिजन्यत्वमपूर्वस्यापीत्यन्यथा व्याचष्टे कृत्यनन्तरेति। कृत्यव्यवहितानन्तरेत्यर्थः। तत्रापि किञ्चिद्व्यवधानेऽपि अपूर्वापेक्षया अव्यवधानमस्त्येवेति भावः। एकविशेषवाधे शाब्दज्ञानस्येति। एकविशेषवाधसहकृतसामान्यप्रकारकज्ञानजनकसामग्र्या- मकरन्दः। कृतिजन्यत्वमपूर्वस्यापीत्यन्यथा व्याचष्टे कृत्यनन्तरेति। कृत्यव्यवहितानन्तरेत्यर्थः। यद्यपि तत्रापि किञ्चिद्व्यवधानं, तथाप्यपूर्वापेक्षया अव्यवधानमस्त्येवेति भावः।
५५२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [.१२ कारिकाव्याख्यायां प्रकाशः। घटकानुपस्थित्या प्रकृते तथा घटते । तन्न । एतादृशनियमे मानाभावात् । न हि छिद्रवाधानन्तरं घटपदेन छिद्रेतरत्वेन ज्ञानं जन्यते, किन्तु योग्यतया छिद्रं विहाय यद्वस्तुगत्या छिद्रेतरत्, तस्य घटत्वेन ज्ञानम् । न च छिद्रेतरत्वेन ज्ञानं सम्भवत्यपि, तस्याशक्यत्वेन घटपदादुपस्थित्यभावात्। न च घटपदात्तथैवानुभव आनुभविकत्वेनोभयसिद्धः, येन लक्षण्याऽपि तथा निर्वाह्येत । न च लक्षणाऽपि, सा हि जहत्स्वार्था, अजहत्स्वार्था वा ? नाद्या, घटाननुभवप्रसङ्गात् । नान्त्यिा, शक्यलक्ष्यसाधारणैकरूपाभावात् । एवं सर्व्वत्र सामान्यशब्दस्य विशेषपरत्वे द्रष्टव्यम् । अथ छिद्रेतरतया योग्यतावधारेण शब्दानुभवात् पूर्वं नियमेनोपस्थितिः संस्कारादेव । न च विभक्तीनां प्रकृत्यर्थानुगतस्वार्थान्वयवोधकत्वंव्युत्पत्तेस्तत्र विभक्त्यर्थो नान्वीयेतेति वाच्यम् । प्रकृ- त्यर्थो हि प्रकृतिप्रतिपाद्यः, स च प्रकृतेऽप्यस्ति, अन्यथा पाचकमानीयैत्यत्र पाककर्त्तरि विभक्त्य- र्थकर्मताऽन्वयानुपपत्तिः, तस्याशक्यत्वात् । तथा च संस्कारोपस्थितं छिद्रेतरत्वमादाय शाब्दा- न्वयवोधः स्यात् । मैवम्, शब्दानुपस्थितस्य शब्देनान्वयवोधाजननात् । एतच्च शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्य्यते इत्युपपादयद्भिरस्माभिर्गुणादिसूत्रे प्रपञ्चितमिति नेहोपपाद्यते । संस्कारस्यानियतोध्वोधतया नियमेन तदुपस्थितेरभावाच्च । फलस्योभयासिद्धतया तद्वलेनपि नियतोपस्थितेरभावात् । तथापि सामान्यभानस्य विशेषभाननियतत्वाद् विशेषाभाने कथं सामान्यं भासते इति चेत् । न । परम्परा- साधनत्वस्य परम्पराघटकानुपस्थिताऽभानेऽपि वस्तुतः परम्परासाधनस्य भानात् । ननु काम्यादन्यत् काम्याव्यवहितसाधनतयाऽवगतमेव कर्त्तव्यतया चेति । न च यागस्य स्वर्गान्यवहितसाधनता सम्भवति । न च तृप्तिकामस्य पाके प्रवृत्तेर्व्यभिचारः, ओदनकामस्य तत्र प्रवृत्तेः । तृप्तिकामना च तृप्तिसाधनतत् साधनपरम्पराकामनोपयोगिनी, न तु साक्षात्, अन्यथा साधन- साधने प्रवृत्त्यभावापत्तेः ! मैवम् । काम्यसाधनत्वज्ञानस्यैव प्रवर्त्तकत्वात्, लाघवात् । न च तृप्तिकामस्य सिद्धौदनस्य पाके प्रवृत्तिप्रसङ्गः, गुरुपायत्वात्, इष्टोत्पत्त्यनान्तरीयकदुःखजनकत्वज्ञानस्य प्रतिवन्धकत्वाच्च । तस्मात् प्रतीता स्वर्गसाधनता व्यापारं विनाऽनुपपद्यमाना व्यापारमपूर्वं कल्पयति । प्रकाशिका। स्तदितरविशेषप्रकारकज्ञानजनकतानियमादित्यर्थः। शक्यलक्षणसाधारणेति। यद्यपि तादृशरूपा- भावेपि राजपुरुषपदादिवल्लक्षणास्त्विति वाच्यम्, तथापि शक्यस्य लक्ष्याविशेषणतयोपस्थितिरित्यत्र तद्वैषम्यात् । न च विभक्तीनामिति । तथा च छिद्रेतरत्वस्य शब्दानुपस्थितौ तद्विशिष्टे तृतीयार्थकरणत्वान्वयो न स्यादित्यर्थः। प्रकृत्यर्थो हीति । प्रकृतितात्पर्य्यविषयत्वं प्रकृतिप्रतिपा- द्यत्वं छिद्रेतरत्वविशिष्टेऽस्त्येव, यद्वा संस्कारसहितप्रकृतिप्रतिपाद्यत्वेऽपि प्रतिपाद्यत्वमस्त्येवेति भावः। अन्यथेति । यदि स्ववृत्त्या प्रत्युपस्थाप्य एव विभक्त्यर्थान्वय इत्यर्थः । शक्यत्वादित्युपलक्षणमश- क्यत्वाच्चेत्यपि द्रष्टव्यम् । शब्दात्मेति शेषः । नन्वपूर्वानभ्युपगमे प्रायश्चित्तवैफल्यमित्यत आह मकरन्दः। प्रकृत्यर्थो हीति। यद्यपि संस्कारस्योपस्थापकत्वमुक्तं न तु प्रकृतेः, शक्तिलक्षणयोरभावे तदुपस्थापकत्वस्यासम्भवाच्च, अत एव शब्दानुपस्थितस्येति सिद्धान्ते वक्ष्यति । तथापि प्रकृति- प्रतिपाद्यत्वं प्रकृतितात्पर्य्यविषयत्वमित्येके । तन्मते औपादानिकी तदुपस्थितिः, तत्र प्रकृतेरपि तेन हेतुताभ्युपगमात् तथोक्तमित्यन्ये । अन्यथेति । यदि वृत्त्युपस्थितस्यैव विभक्त्यर्थान्वयस्तदेत्यर्थः ।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५५३ कल्प्यताम् । व्यापारद्वारा कथञ्चित् स्यात् , न तु भिन्नकालयोर्व्यापारव्यापारि- भावः । कारणत्वञ्च व्यापारेण युज्यते । अव्यवधानेन पूर्व्वकालनियमश्च तत्त्वम् । अन्यथाऽतिप्रसङ्गादिति चेत् । न, पूर्व्वभावनियममात्रस्य कारणत्वात् । कार्य्या- नुगुणावान्तरकार्य्यस्यैव व्यापारत्वात् , कृषिचिकित्सा दौ बहुलं तथा व्यवहारात् । लाक्षणिकोऽसाविति चेत् । न । मुख्यर्थत्वे विरोधाभावात् ॥ प्रकाशः । ननु व्यापारेण तन्निर्वाहो न तज्जननात्, उत्तरवर्त्तित्वेन व्यापारस्य तत्रासामर्थ्यात् । न ज्ञाप- नात् , लिङैव तज्ज्ञापनात् । न च चिरध्वस्तं कारणं व्यापारव्याप्तं, विपक्षे बाधकाभावात्, प्रायश्चि- त्तस्य च फलप्रतिबन्धकत्वं स्यात् , तस्मात् पापान्मुच्यते इति फलश्रवणस्य च निषिद्ध- क्रियातः फलभागी न भवतीत्यर्थः । न च सुहृये बाधकाभावः, उपस्थितत्वेन विहितनिषिद्धक्रियाया- मेव धर्माधर्मशक्तिप्रहस्य बाधकत्वात् । मैवम् । चिरध्वस्तस्य व्यापारसत्त्वे कारणत्वमिति निरुपाध्यन्वयव्यतिरेकाभ्यां व्याप्त्यवधार- णात् । न चाप्रयोजकत्वं, यागो यदि चिरध्वस्तत्वे सति सव्यापारो न स्यात् , स्वर्गसाधनं न स्याद्व- टवदिति विपक्षबाधकात् । न चात्र कारणताप्राहकाभाव उपाधिः, तेनापि समं व्याप्त्यवधारणेन तस्याप्यापादनात् । तथापि देवताप्रीतिर्यागव्यापारोऽस्तु । न च तत्र मानाभावः, यजिधातोः पूजार्थतया तस्याश्चा- राध्यप्रीतिहेतुक्रियात्वात् । तथाच यागस्य देवताप्रीतिसाधनत्वेन कालान्तरभाविस्वर्गं प्रति तद्द्वारा साधनतोपपत्स्यते, प्रीतेः क्षणिकत्वेऽपि तदनुभवजनितसंस्कारद्वारा तत्सम्भवात् । अत्राहुः—देवतोद्देशेन द्रव्यत्यागेन देवताप्रीतिर्जन्यते इत्यत्र मानाभावः, यज देवपूजायामिति शाब्दिकस्मृतिः, स्मृतित्वादेव न स्वतः प्रमाणम् । तन्मूलञ्च मानान्तरं नास्त्येव । न वा स्वर्गस्य प्रीतदेवतासाध्यत्वे मानम् । वस्तुतो लाघवात् कर्तृगतफलावसानिकव्यापारस्य कल्पनान्न देवताप्री- तिर्व्यापारः । न च स्वर्गभागिदेहान्तरमेव तद्व्यापारः, प्रलये विच्छेदेऽपि तद्व्यापारानुवृत्तेः, शरी- रस्य च कार्य्यद्रव्यतया अभावात् , नापि ध्वंस एव तद्व्यापारः, तस्यानन्त्येऽपि स्वभावात् सावधि- फलजनकत्वमिति वाच्यम् । प्रतियोगिध्वंसयोरेकत्राजनकत्वादिति संक्षेपः । शङ्कते व्यापारेति । न च प्रकृते तथेति शेषः । कारणस्यावान्तरव्यापरयोगः, यागश्च न स्वर्गकरणं, कार्य्याव्यवहितप्राक्कालसत्त्वस्य कारणत्वादित्यर्थः । अत्राव्यवहितत्वमतन्त्रं गौरवात् । अतएव न सहभावेन कारणत्वम् । न च विनश्यदवस्थसमवायिनः कारणत्वापत्तिः, तावता समवा- यिकारणस्यैव तथात्वादिति परिहरति पूर्व्वभावेति । कार्य्येति । यज्जन्यं सञ्जन्यजनकं, स एव तस्य व्यापार इत्यर्थः । कृषीति । यथा माघमासीयभूकर्षणस्य पाकपरम्पराव्यापारद्वारा हेमन्त- प्रकाशिका । प्रायश्चित्तस्य चेति । निषिद्धक्रियासमानकालीनप्रायश्चित्तादिप्रागभावस्याव्यवधानेन जनकत्वा- दिति भावः । कारणमित्यनुषञ्जनीयम् । विकल्पत्वेऽस्य पृथक् दूषणं न्यूनत्वापत्तिः, प्रयत्नादेः शब्द- धर्मत्वाभावाद्विरोधश्चेति भावः । मकरन्दः । अशक्यत्वादित्युपलक्षणम्—अलभ्यत्वाच्चेत्यपि द्रष्टव्यम् । शब्दानुपस्थितस्येति । वृत्त्येति शेषः । नन्वेवमपूर्व्वानभ्युपगमे प्रायश्चित्तविधिवैफल्यमित्यत आह प्रायश्चित्तस्य च फल- प्रतिबन्धकत्वं स्यादिति । ७० न्या० कु०
५५४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां अस्तु तर्हि पुत्रेण हते ब्रह्मणि चिरध्वस्तस्य पितुस्तमवान्तरव्यापारीकृत्य कर्त्तृत्वम् ; तथाच लोकयात्राविप्लव इति चेत् । न । सत्यपि सुते कदाचित्तद- करणात् तस्मिन्नसत्यपि कदाचित् करणादनिर्वाहकत्वां तस्य व्यापारत्वायोगात् । यं जनयित्वैव हि यं प्रति यस्य पूर्वभावनिर्वाहः, स एव तं प्रति तस्य व्यापारो ना- परः, यथाऽनुभवस्य स्मरणं प्रति संस्कारः, तस्य ह्यन्वयव्यतिरेकानुविधाने सिद्धे तदन्यथाऽनुपपत्त्या संस्कारः कल्प्यते, न त्वन्यथा, तथेहापि । न चेदेवं, तवापि ब्रह्मभिदुरशरविमोकसमसमयहतस्य हन्तृत्वं न स्यात्, स्याच्च स्वनिवे- शनशयानस्य तत्पितुरिति । एतेनोभयं वेति निरस्तम् । अस्तु तर्हि क्रियाधर्म एव कार्यत्वं विधिः, सर्वो हि कर्त्तव्यमेतदिति प्रत्येति, ततः कुर्यामिति सङ्कल्प्य प्रवर्त्तते इति चेत् । न । कर्त्तव्यं मयेति कृत्यध्यवसायार्थो वा स्यात् ? कर्तव्यं मयेत्युचितार्थो वा स्यात् ? तत्र प्रथमः सङ्कल्पात्र भिद्यते । व्यवहितकार्यसङ्कल्पो हि कर्त्तव्यो मयेति, सन्निहितकार्यसङ्कल्पस्तु कुर्यामिति । स च न लिङर्थः । सत्तामात्रेण प्रवर्त्तनादित्युकम् । तदेतत् कर्त्तव्यतायां जातायां प्रवर्त्तते इति वस्तुस्थितौ भ्रान्तैर्ज्ञातायामिति गृहीतम् । औचित्यन्तु क्रियाधर्मः प्रागभाववत्त्वं, तस्मिन् सति शक्यत्वं वा, तस्मिन् सति कर्त्तारं प्रत्युपकारकत्वं वा ? प्रथमे कुतश्चिदपि न निवर्त्तत । द्वितीये दुःखेऽपि तथाविधे प्रवर्त्तत । तृतीये तु वक्ष्यते ॥ १२ ॥ प्रकाशः । भाविस्स्यजनकत्वम् , यथा वा दशमूलीरूपायपानस्य धातुसाम्यद्वारा भाविज्वरशान्तिजनकत्व- मित्यर्थः । व्यवहितस्य कारणत्वेऽतिप्रसङ्गमाह - अस्विति । येन विना यत्कारणत्वं न निर्वहति तस्य स व्यापारः, न च पितुः कारणत्वं पुत्रं विना न निर्वहतीति न स व्यापार इत्याह सत्यपीति । तदेव स्पष्टयति यं जनयित्वैवेति । यदि च कार्य्यसमानकालस्यैव कारणत्वं, तदा तवाप्यनिष्टमित्याह न चेदेवमिति । उभयं वेति । कार्यत्वमपूर्व्वत्वञ्च लिङः प्रवृत्तिनिमित्त- मित्यर्थः । कृत्यध्यवसायः-कृत्यनुकूलेच्छा उचितार्थोऽर्हार्थः । तत्रैव कृत्यविधानादिति भावः । व्यवहितेति । प्रवृत्त्यपेक्षयेति शेषः । स चेति, उभयरूपोऽपि सङ्कल्पः । तस्याज्ञातस्यैव प्रवृत्तिहेतुत्वेन प्रवर्त्तकज्ञानाविषयत्वादित्यर्थः । सङ्कल्पविधिवादिनमुपहसति तदेतदिति । शक्यत्वं कृतिसाध्यत्वमित्यर्थः । कुतश्चिदिति । अनिष्टादपीत्यर्थः । तृतीये इति । इष्टसाधनार्थत्वनिरासेनेत्यर्थः । तद्धर्मोऽभिधा वेति । वाक्यार्थज्ञानानुकूला भावना-शब्दव्यापारादिप- दवाच्या अभिधा शब्दधर्मो वा लिङर्थः । तदाहुर्भट्टपादाः- अभिधां भावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना चान्या सर्वाख्यातेषु गम्यते ॥ इति । तदर्थो भावनादिर्वैत्यत्र करणमित्यनुपञ्जनीयम् । लिङर्थो भावादिः प्रयत्नादिः करणं, तद्धर्म इष्टसाधनता वेत्यर्थः ॥ १२ ॥ मकरन्दः । करणमित्यनुपञ्जनीयमिति । यदि हि धर्मविकल्प एवायमपि स्यात्, तदाऽस्य पृथग- दोषात् न्यूनत्वापत्तिः । करणविकल्पे च शब्दः । प्रयत्नादिश्च करणत्वेन विकल्पितः, तद्धर्म्मश्चाभिधा इष्टसाधनता वेति विकल्पद्वयं पर्य्यवस्यति । तच्च दूषितमेव । किञ्च धर्मविकल्पपक्षे प्रयत्नादेः शब्दधर्मत्वाभावाद्विरोध इति भावः ॥ १२ ॥
पञ्चमस्तवके ] ईश्वरसाधनम् । ५५५ अस्तु तर्हि करणधर्म्मः । न । करणं हि शब्दः, तद्धर्मोऽभिधा वा स्यात्, तदर्थो भावनादिर्वा, तद्धर्म्म इष्टसाधनता वा ? न प्रथमः,- असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी । बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः ॥ १३ ॥ सङ्गतिप्रतिसन्धानाधिकायां तस्यां प्रमाणाभावात् । अन्यसमवेतस्यापूर्ववदन्य- व्यापारत्वेनाप्युपपत्तेः । विषयतयाऽपि च स्वव्यापारं प्रति लिङ्गवद्धेतुभावाविरो-
प्रकाशः । पराभिमतशब्दधर्मस्वरूपामिधायां मानाभावादित्याह असत्त्वादिति । तत्सत्त्वेऽपि पदान्त- रेण तदुपस्थितौ ततोऽपि न प्रवृत्तिरित्याह अप्रवृत्तेश्चेति । सर्वत्रान्यत्र पक्षेषु बाधक सत्त्वात् परिशेषेणामिधा लिङर्थ इत्यपि नास्ति, तत्रापि बाधक सत्त्वादित्याह बाधकस्येति । ननु शब्दस्य वाक्यार्थधीकारणत्वात् तस्य व्यापारेण भाव्यमवश्यमित्यभिधैव तद्व्यापारः । किञ्च पदानां प्रत्येक मर्थज्ञानाजनकत्वादामुविनाशितया च तन्मेलकस्याभावादर्थज्ञा- नानुषपत्त्या अभिधा कल्प्यते इत्यत आह सङ्गतीति । सङ्गतिस्मृतिरेव पदस्यावान्तर- व्यापारः, एकस्मृतिविषयानुपूर्वीविशेषविशिष्टपदमालैव पदार्थस्मृतिव्यापारा वाक्यार्थधीकरणमिति न तत्र मानमित्यर्थः । ननु सङ्गतिस्मृतिर्न शब्दव्यापारः, व्यापारिणं विहायान्यत्रात्मनि तत्समवायात्, ततो यः शब्द- सम्बन्धस्तद्व्यापारः साऽभिधा स्यादित्यत आह अन्येष्विति । यथाऽऽत्मसमवेतमपूर्वं यागादेः करणस्य व्यापारः, तथा सङ्गतिस्मृतिरपि तादृशी शब्दव्यापार इत्यर्थः । अतएव-यद्व्यापारे कर्तृ तदेव करणं, यथा पाककरणानि काष्ठानि ज्वलनावान्तरव्यापारकर्तॄणि, न च स्वविषयज्ञाने शब्दः कर्त्ता किन्तु कर्म-इत्यपास्तम् । कर्तृपदस्य मुख्यार्थतायामचेतनस्य व्यापारासम्भवात्, हेतुमात्रविवक्षायाञ्च प्रकृतेऽप्यदोषादिति भावः । ननु व्यापारी व्यापारकारणं भवति, न च सङ्गतिस्मृतौ पदं कारणम्, अतः शब्दजन्याभिधा मन्तव्येत्यत आह विषयतयाऽपीति । यथा लिङ्गस्य स्वविषयपरामर्शे विषयतया हेतुत्वं, तथा शब्दस्यापि सङ्गतिस्मृतावित्यर्थः । अस्मन्मते स्मृतेर्विषयजन्यत्वेऽपि परसतेनेदमुक्तम् । अस्तु वा
प्रकाशिका । स्वविषयज्ञान इति । सङ्गृहीतग्रहरूपे शब्दव्यापारतयाभिमत्यर्थः । प्रकृतेऽप्य- दोषादिति । विषयतया कथञ्चिल्लिङ्गवद्धेतुत्वादिति मूले एवोक्तत्वादिति भावः । तदेव दर्शयितुं शङ्कते नन्विति । पुरुषार्थसुखादिप्रतिसन्धानस्यैव प्रवर्त्तकत्वादिति भावः ।
मकरन्दः । स्वविषयज्ञाने-सङ्गतिग्रहरूपशब्दव्यापारतया अभिहिते इत्यर्थः । प्रकृतेऽपीति । विषयतया कथञ्चित् लिङ्गवद्धेतुत्वादिति मूल एवोक्तत्वादित्यर्थः । तदेव दर्शयितुं शङ्कते नन्विति ।
टिप्पणी । अनिष्ठसाधनताज्ञानकालेऽपि कार्यताज्ञानसंभवात् प्रवृत्त्यापत्तेरित्यर्थः । लिङादिशब्दात्मककरण- वृत्तिधर्मरूपा याऽभिधा तज्ज्ञानं प्रवर्त्तकमिति, लिङार्थो यो भावनादिः स एव करणं तद्धर्मस्येष्ट- साधनत्वस्य ज्ञानं प्रवर्त्तकमिति वा विकल्प्य दूषयति करणं हीति । गरीयसी लिङर्थता उचिता । नन्वन्यस्य बाघात् लिङर्थत्वं परित्यक्तं ततः परिशेषात् भावनेवास्तु लिङर्थ इत्यत आह बाधकस्येत्यादि । इच्छादेर्लिङर्थत्वे यथा बाधकमूक्तं तथाऽत्रापि समानमित्यर्थः ।
धात्, अधिकत्वेऽपि ततोऽप्रवृत्तेः । बालानां तदभावेऽपि तद्भावात् । शब्दान्तरेण तच्छाविणामध्यप्रवृत्तेः। न च विलक्षणैव सा लिङो विषयः। तद्वैलक्षण्यं प्रतीत प्रति चेत्, अर्थविशे- षोऽपि स्यात् । प्रवृत्तिमात्रं प्रति चेत्, अभिधासमवेतं तदिति कुतः ? तत्सन्निधा- नादिति चेत् । न । अनियमात् । अन्यस्य सर्वस्य निषेधादिति चेत् । न । प्रवृत्ति- हेतुत्वनिषेधस्य तुल्यत्वात् । शब्दैकवेद्यत्वे चाव्युत्पत्तेः । प्रवृत्त्यन्यथाऽनुपपत्तिसिद्धे व्युत्पत्तिरित्यपि वार्त्तम् । न हि प्रवृत्तिहेतुः कश्चि- दस्तीति प्रवर्त्तते । इष्टसाधनता तु स्यात् । सर्वो हि मया क्रियमाणमेतन्मतं समी- हितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतीति सर्वानु- भवसिद्धम् । तदयं व्युत्पित्सुर्य्यज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान्, तज्ज्ञानमेव लिङ्- श्राविणः प्रवृत्तिकारणमनुमिनोति ।
प्रकाशः । शब्दव्यापारोऽभिधा लिङ्वाच्या, तथापि नासौ प्रवृत्तिहेतुः अपुरुषार्थत्वादित्याह अधिक- त्वेऽपीति । अभिधायामव्युत्पन्नानामभिधाज्ञानाभावेऽपि प्रवृत्तिसत्त्वादित्याह बालानामिति । अभिधादिपदैरभिधां ज्ञातवतोऽप्यप्रवृत्तेरित्याह शब्दान्तरेणेति । अथाभिधादिपदात्तत्सामान्यज्ञानेऽपि न प्रवृत्तिः, लिङभिधेयविलक्षणाभिधाज्ञानस्य प्रवर्त्तकस्य ततोऽनुत्पादात् , अत एव नाख्यातान्तरेण तज्ज्ञानेऽपि प्रवृत्तिः, अत्राह न चेति । प्रतिपत्ति प्रतीति । प्रतिपत्तिविशेषकमित्यर्थः । अर्थविशेषोऽपीति । अर्थविशेषं विना बुद्धिविशेषस्यानुत्पत्ते- रित्यर्थः । यदि प्रवर्त्तकज्ञानविशेषादेव सोऽर्थः प्रतीयते, तदा लोके यत्प्रतीयमानं प्रवर्त्तकत्वेन ज्ञातं तत लिङा वाच्यम् , न चाभिधायां तत्सम्भवतीति भावः । अथाभिधाज्ञानमात्रस्याप्रवर्त्तकत्वात् प्रवृत्त्यैव तद्वैलक्षण्यमनुमेयं, तत्राह प्रवृत्तिमात्रमिति । तदिति । अभिधायाः सन्निहितत्वात्तद्वैलक्षण्यं प्रवर्त्तकमित्यर्थः । नानियमादिति । बौद्धसन्निधानं धात्वर्थे दृष्टसाधनत्वे चास्तीत्यर्थः । प्रवृत्तिहेतुत्वस्य निषेधः प्रमाणान्तरात् , विधिवादसन्निधेर्वा ? आद्ये प्रवृत्तिहेतुत्वेति । अन्त्ये तत्सन्निधोति । यथाऽभिधायां विधिसन्निधिनिषेधोऽशक्यः, तथा धात्वर्थादावपीत्यर्थः । ननु मानान्तरादमभिधाज्ञानेऽपि न प्रवृत्तिः, लिङादिपदैकवेद्याभिधाज्ञानस्य प्रवर्त्तकत्वादित्यत आह शब्दैकैति । एवं तत्र लिङादिशक्तिग्रह एव न स्यात् , मानान्तरेण तदनुपस्थितेरित्यर्थः । न हीति । प्रवृत्त्यन्यथानुपपत्त्या हि तद्धेतुः कश्चिदित्येव ज्ञानं स्यात् , न च तत्प्रवर्त्तकमित्यर्थः । द्वितीयं पक्षमाह इष्टसाधनता त्विति । करणधर्मो विधिरिति शेषः । तदुपपादयति सर्वो हीति। मयेत्यादिनाऽसाध्ये कृत्यसाध्ये स्वकृत्यसाध्ये च प्रवृत्तिर्निवारिता । तदयमिति । ननु कार्य्यत्वमेव विधिः, तथाहि-ज्ञानस्य कृतावुत्पाद्यायां चिकीर्षाऽतिरिक्तं न कर्त्तव्यम् , सा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयेच्छा, पाकं कृत्या साधयामीति तदनु-
प्रकाशिका । प्रतीयमानमिति । इष्टसाधनत्वादिकमित्यर्थः ।
मकरन्दः । अपुरुषार्थत्वादिति । पुरुषार्थसुखादिप्रतिसन्धानं विना प्रवृत्त्यभावादिति भावः । यत्प्रतीयमानमिति । इष्टसाधनत्वादिकमित्यर्थः ।
पञ्चमस्तवके ] ईश्वरसाधनम् । ५५७ ततश्च कर्त्तव्यतैकार्थसमवायिनी इष्टसाधनता लिङर्थ इत्यवधारयति । न च वाच्यम्-एवञ्चेत् वरं कर्त्तव्यतैवास्तु, अवश्यमभ्युपगमनीयत्वात्; कृतमिष्टसाधन- प्रकाशः । भवात् , पाकं कुर्य्यामित्यस्य पाकं कृत्या साधयामीति विवरणाच्च । सा स्वकृतिसाध्यताज्ञानसाध्या , इच्छायाः स्वजनकज्ञानसमानप्रकारकत्वनियमात् । अत एव स्वकृतिसाध्ये प्रवर्त्तते, न त्विष्टसाधनेऽपि स्वकृत्यसाध्ये । अथ कृत्या साध्येऽपि विषभक्षणादावप्रवृत्तेरिष्टसाधनत्वमादाय विधिः । न च तत्रानिष्टसाधन- ताज्ञानं प्रतिबन्धकम् , प्रवृत्तौ तदभावस्य हेतुत्वे गौरवापत्तेः । तद्वरं लाघवाद्विष्टसाधनत्वं विषयता- वच्छेदकमस्तु । न च प्रवृत्तेः पूर्वमनिष्टसाधनताज्ञानविरह उभयसिद्धः, इष्टसाधनताज्ञानञ्च सन्दि- ग्धम् , अतो युगपदुपस्थित्यभावाच्च लाघवावतार इति वाच्यम् । त्वयाऽपि प्रवृत्तेः पूर्वमिष्टसाधनता- ज्ञानविनियोगस्वीकारात् । यत्र शब्दादनुमानाद्वा तदविगतं, तत्र तदभावाच्च, तस्माद्विषभक्षणादौ वृष्ट्यादौ च प्रत्येकं व्यभिचारात् कृतिसाध्यत्वे सतीष्टसाधनत्वं विधिरिति । न । विषभक्षणादौ स्वकृतिसाध्यत्वाभावात्, न हि कश्चिद्विषभक्षणं चिकीर्षति ततः करोतीति दृश्यते, जीवनयोनिकृतिसाध्यञ्च तन्न भवत्येव, न चान्या कृतिरास्त । अथेष्टसाधनताभ्रमानन्तरं विषभक्षणमपि चिकीर्षाजन्यकृतिसाध्यम् , अतो विशेषदर्शनेऽपि तत्र प्रवर्त्तेतेति चेत् । न । द्विधा हि कृतिरणुभूयते, बलवदनिष्टजनिका यथा विषभक्षणादौ, तदज- निकाच यथा पाकादौ, तदिह बलवदनिष्टाजनककृतिसाध्यत्वं विवक्षितम् । न च विषभक्षणे तदस्ति । अत एव तत्र प्रथममिष्टसाधनतया तथाविधकृतिसाध्यत्वमविद्यमानमवगत्य प्रवर्त्तते, प्रवृत्त्यन- न्तरञ्च बलवदनिष्टहेतुकृतिसाध्यत्वं विरोधि तत्र विगतमिति न प्रवर्त्तते । तथाभूतकृतिसाध्यत्वं पूर्वानुभूतं स्मृत्वा प्रवर्त्तेतेति चेत् । न । विशेषदर्शनेन भ्रमाहितसंस्कारो- न्मूलनात् , अन्यथेष्टसाधनतास्मरणेऽप्यप्रतीकारात् । न चैवं भ्रमेऽपि प्रवर्त्तेत, स्वेच्छाजन्यकृति- साध्यस्य विवक्षितत्वात् । भ्रमस्य च नियमतोऽन्येच्छाधीनकृतिसाध्यत्वं, दुःखत्वेन तत्रेच्छाविरहात्। अतएवस नान्तरीयक इत्युच्यते । न चैवमिच्छाज्ञानस्य प्रवर्त्तकत्वप्रसङ्गः, कृतौ परिचायकमात्रत्वात् । यद्वा कृतौ स्वरूपसतीच्छा जनिका, इच्छायान्तु तज्ज्ञानं जनकमस्तु, को विरोधः । न हि यदेकत्र स्वरूपतो हेतुस्तज्ज्ञानमन्यत्र न जनकम् । एवं चिकीर्षाहेतुतया कृतिसाध्यताज्ञाने व्यवस्थिते प्रकाशिका । तस्माद्विषभक्षणादाविति । विषभक्षणे कृतिसाध्यत्वेऽपीष्टसाधनत्वाभावात् वृष्ट्यादौ इष्टसाधनत्वेऽपि कृतिसाध्यत्वाभावात् न प्रवृत्त्तिरिति भावः । विषभक्षणे कृत्यसाध्यत्वादेव प्रवृत्त्तिर्नेत्यत आह न हि कश्चिदिति । ननु चिकीर्षाधीनकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यमेव विषभक्षणं स्यादित्यत आह जीवनयोनीति । इच्छायान्त्विति । चिकीर्षायामित्यर्थः । तथाचेच्छाज्ञानस्य प्रवर्त्तकत्वं बाधितमेव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः । मकरन्दः । ननु चिकीर्षाजन्यकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यत्वं स्यादित्यत आह जीवनेति । इच्छायान्त्विति । चिकीर्षायामित्यर्थः । तथाचेच्छाज्ञानस्य प्रवर्त्तकत्वप्रसङ्गो वारित एव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः । वस्तुतश्चिकीर्षाहेतुज्ञानस्यैव प्रवर्त्तकत्व- मितीच्छाज्ञानस्य चिकीर्षाहेतुत्वे प्रवर्त्तकत्वापत्तिरिति प्रथमकल्प एव साधुरिति ।
तया-इति । यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्त्तते, असाध्येषु व्यभिचारात् । प्रकाशः । विषभक्षणादौ व्यावर्त्तककृतिवृत्तित्वबलवदनिष्टाजनकचिकीर्षाधीनत्वमेव, न त्विष्टसाधनत्वम् । कृतिवृत्तित्वधर्मापेक्षया बहिरङ्गत्वात् जीवनयोनिकृतिजन्यप्राणादिसञ्चारनिवृत्त्यर्थमावश्यकत्वात् भोगचिकीर्षायां व्यभिचाराच्च । न चौपायिकीच्छेष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावदिति वाच्यम् । साध्यत्वसाधन- त्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् । असिद्धतां सिद्धताञ्चादाय तयोर्व्यवस्थितेः । न च यद्वस्तुतः कृतिसाध्यं तदिष्टसाधनमिति ज्ञायते इति युक्तम् । कृतिसाध्यतोत्तीर्णज्ञानात् चिकीर्षानुत्पत्तेः । अपि च साधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि, न हि कश्चित्कृतिसिद्धमि- च्छति, अतोऽसुन्दरे वृष्टादौ चेच्छा तत्साध्येष्टज्ञानात् । अथ तादृशकृतिसाध्यत्वे कृतिर्न विशेषणम्, असत्त्वात्, सत्त्वे वा कृतौ सत्यां कृतिसाध्यताज्ञानं, तथा ज्ञाने च कृतिश्चेत्यन्योन्याश्रयः । नोपलक्षणम्, अनतिप्रसक्तोपलक्ष्याभावादिति चेत् । न । ज्ञाने विषयतया कृतेर्विशेषणत्वात् , साध्ये च प्रवृत्तिविषये परिचायकतयोपलक्षणत्वात् , अन्यथेष्टसाधन- ता Grant पक्षेऽपीष्टस्य तथाविधविकल्पग्रासात् । प्रकाशिका । बलवदनिष्टजनकत्वस्य चिकीर्षाविशेषणत्वेऽपि न क्षतिरित्याह बलवदनिष्टाजनकचिकीर्षा- धीनत्वमिति । बलवदनिष्टाजनकत्वस्य पूर्वं कृतिविशेषणतयोक्तस्यायमुपसंहारो, न तु पक्षान्तरमिति ध्येयम् । केचित्तु बलवदनिष्टाजनकचिकीर्षाजन्यचिकीर्षाधीनत्वमिति पाठः । तत्र बलवदनिष्टजनिका या चिकीर्षा तज्जनकं यच्चिकीर्षाधीनत्वमुक्तं रूपन्तदेव विशेषणमिति योजनया पूर्वोक्त एवार्थः । ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्व- मित्यत आह जीवनयोनिकृतीति । यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं बलवदनिष्टा- जनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजनव्यावृत्तये तदप्यावश्यकमिति भावः । भोगेति । तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुतः कृतिसाध्यमिति । यदा कदापीति शेषः । कृतिसाध्यतोत्तीर्णेतीति । सिद्धत्वज्ञानादित्यर्थः । अन्यथा साधनत्वस्यैव अप्रहादित्यर्थः । मकरन्दः । यद्यपि बलवदनिष्टाजनकत्वं कृतौ विशेषणीकृतं प्राक् , तथापि चिकीर्षाविशेषणत्वेऽपि न दोष इत्याशयवानाह बलवदनिष्टाजनकचिकीर्षाधीनत्वमिति । वस्तुतो बलवदनिष्टाजनकत्वे सति चिकीर्षाधीनत्वमित्यर्थः, तथा च न पूर्वविरोधः । क्वचित्तु बलवदनिष्टाजनकचिकीर्षाजन्ययत्नचिकीर्षा- धीनत्वमिति पाठः । तत्र बलवदनिष्टाजनकचिकीर्षाजन्ययत्ने यच्चिकीर्षाधीनत्वमुक्तं रूपं, तदेव विशेष- णमिति योजनया तादृशार्थलाभ इत्याहुः । ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्वमत आह जीवनयोनिजेति । यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं न तु बलवदनिष्टाजनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजन- व्यावृत्त्यर्थं तदावश्यकमिति भावः । भोगेतीति । तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुत इति—यदा कदा- पीत्यर्थः । कृतिसाध्यतोत्तीर्णेति । सिद्धत्वज्ञानादित्यर्थः, अन्यथा साधनत्वस्यैवाप्रहादिति भावः । शेषं शब्दप्रकाशे प्रपञ्चितमनुसन्धेयम् । अत एवेदं मत्तोऽभूतमित्यत्राकारप्रश्लेषः, अभवनस्य प्रागभावरूपत्वादित्यर्थः । अत एव क्वचित् मत्तो न भूतमित्येव पाठः ।
पंचमस्तवके ] ईश्वरसाधनम् । ५५६ तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्त्तते इत्यनुभवः ॥ प्रकाशः । ननु तादृशकृतिसाध्यत्वज्ञानाच्चिकीर्षा ततः कृतिः कृतौ सत्यां प्रत्यक्षेण कृतिसाध्यताज्ञानमित्य- न्योन्याश्रयात्, कृतिसाध्यतोत्तीर्णे चिकीर्षाकृत्योरसम्भवाच्च । नानुमानात्, कृतक्रियमाणयोः पक्षत्वे कृतिसाध्यतोत्तीर्णत्वेन बाधात्, भाविपक्षत्वे चाश्रयासिद्धेः । उच्यते—पाको मत्कृतिविशेषसाध्यः मत्कृतिं विनाऽसत्त्वे सति मदिष्टसाधनत्वात् मद्भोजनवत् । यस्य यदिष्टसाधनं यदा यत्कृतिं विना न सिध्यति, तत् तदा तत्कृतिविशेषसाध्यमिति व्याप्तेः, असिद्धस्येष्टसाधनत्वाभावात् । न च पक्षानुपपत्तिः, पाके कृतिसाध्यत्वं हि सिध्यत् सिद्धे बाधादनागतं पाकमादाय सिध्यति, पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य हेतुना सिध्यतीत्यनुमाने क्लृप्तत्वात् । यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधितमित्यप्रसिद्धोऽपि वह्निः सिध्यति, तथा प्रसिद्धपाके कृति- साध्यत्वबाधेऽपि पाकमात्रे न बाधितमित्यप्रसिद्धं पाकमादाय सिध्यति, अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात् । तथापि प्राथमिकत्वादावश्यकत्वाच्च लिङ्गज्ञानमेव प्रवर्त्तकमस्तु । न च लाघवात् कृतिसाध्यत्वं तथा, तदा कृतिसाध्यत्वानुमितौ मानाभावेन युगदुपस्थित्यभावादिति चेत् । न लिङ्गज्ञाने कृतिसा- ध्यत्वप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् । ननु कृतिसाध्यत्वस्य विधित्वे 'न कलञ्जं भक्षयेदि'त्यत्र विध्यर्थनिषेधानुपपत्तिः । कलञ्जभक्षणं न कृतिसाध्यमित्यस्यानियोग्यत्वात् । न, तत्रापूर्वस्य लिङर्थत्वेन कलञ्जभक्षणप्रवृत्तं प्रति कलञ्जभक्षणा- भावाविषयकापूर्वस्य कृतिसाध्यत्वेन बोधनात् । न चानादित्वेन प्रागभावो न साध्यः, भक्षणप्रवृ- त्तस्य हि भक्षणप्रागभावस्तत्कृतिं विनोत्तरकाले न भवति तत्कृत्या तु भवतीत्यन्वयव्यतिरेकाभ्यां तत्कृतिसाध्य एवानुभूयते । न हि कृत्यनन्तरक्षणे घटस्वरूपं कृत्याधीनमित्यतोऽन्यत् कृतिसा- ध्यत्वं घटे । इयांस्तु विशेषः । क्वचित् कृत्याधीनः प्राक्कालयोगः कचिदुत्तरकालयोग इत्युभयोरपि योगक्षेमयोः कृतिसाध्यत्वमानुभविकम् अत, एवेदं मत्तोऽभूतमिति व्यवहारः । ननु कृतौ नष्टायां सन्नपि धर्मी न कार्य्यः, तथासति कथमपूर्वे कार्ये कामिनोऽन्वयः ? आशुविनाशितया क्रियातुल्यत्वात् । मैवम्, यद्वृत्ति काम्यसाधनत्वं तत्र कार्यतावृद्धिः प्रयोजिका, न तु कार्यताविशिष्टस्य काम्यसाधनताविशिष्टेति व्याप्तिः । तस्मात् कृतिसाध्य- त्वमेव विधिः । अत्रोच्यते-कृतिसाध्यताज्ञानस्य प्रवर्त्तकत्वे तृप्तोऽपि भोजने प्रवर्त्तेत तथा विशेषदर्शनेऽपि चैत्यवन्दनादौ । अथ स्वविशेषणवत्ताप्रतिसन्धानजन्यं कार्यताज्ञानं प्रवर्त्तकम् । तथा हि-काम्ये पुरुषविशेषणं कामना, ततः काम्यसाधने यागपाकादौ कार्यताज्ञानम् । नित्ये च कालशौचादि स्वविशेषणम् । तृप्तस्य तृप्तौ कासनाविरहेणेष्टसाधनताज्ञानाभावात् न तथा बोधः । विशेषदर्शने च भ्रमदशायामिव चैत्यवन्दने नेष्टसाधनताज्ञानं, येन तज्जन्यकार्यताबोधात् प्रवर्त्तेत । प्रकाशिका । अत एवेदं मत्तोऽभूतमित्यकारप्रश्लेषः अभवनस्य प्रागभावरूपत्वादित्यर्थः । क्वचिन्मत्तो न भूत इति पाठः, स तु सुगम एव । तत्र कार्यताबुद्धिः प्रयोजिकेति । तद्धर्मिनिष्टकाम्यसाधन- ताज्ञानमेव कार्यताबुद्धिप्रयोजकम् न तु कार्यताविशिष्टस्य काम्यसाधनत्वज्ञानमित्यर्थः। तथा विशेष- दर्शनेऽपीति । इष्टसाधनत्वज्ञानेऽपीत्यर्थः । बलवदनिष्ठाजनकत्वेन कृतिविशेषणेऽपि तत्रातिप्रसङ्ग-