न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 583, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तवके ] ईश्वरसाधनम् । ५५१ न च कार्यत्वमपूर्वे सम्भवति। तद्धि कृतिव्याप्यता चेत्, व्रीह्यादिष्वेव, सिद्ध- त्वात्। कृतिफलत्वाच्चेत्, यागस्यैव, ततस्तस्यैवाहृत्योत्पत्तेः। कृत्युद्देश्यता चेत्, स्वर्गस्यैव, निसर्गसुन्दरत्वात्। न त्वपूर्वस्य, तद्विपरीतत्वात्। स्तन्यपाना- दिवदौपाधिकीति चेत्। साऽपि यागस्यैव। स्वर्गस्य साध्यत्वस्थितौ यागस्यैव साधनत्वेनान्वयात्। कालव्यवधानात्तन्निर्वहतीति चेत्, यथा निर्वहति श्रुतानुरोधेन तथा प्रकाशः। कार्यत्वमपूर्वस्य विकल्प्य निराकरोति न चेति। तद्धीति। कृतिजन्यव्यापाराश्रयत्वमित्यर्थः। न ह्यसिद्धस्य व्यापारभागित्वमिति भावः। कृतिफलत्वं कृत्यानन्तरभावित्वमिति भावः। कृत्युद्दे- श्यत्वमनन्योद्देशककृतिव्याप्यत्वमित्यर्थः। तद्विपरीतत्वादिति। सुखदुःखाभावयोरेव स्वतःकास्य- त्वादित्यर्थः। न च लिङैव तद्द्बोध्यते, वस्तुसत एव बोध्यत्वात्। न चापूर्वस्य निरुपाधीच्छाविष- यत्वमस्ति, यल्लिङा बोध्येतेत्युक्तमिति भावः। साऽपीति। औपाधिकीच्छासाधनता यागस्य स्वर्गसाधन- तयाऽस्तीति कृतिसाध्यत्वमप्यौपाधिकमिति तत्परित्यागे नापूर्वसिद्धिरित्यर्थः। यागस्याशुतरविनाशित्वात् स्वर्गस्य च कालान्तरभावित्वात् यागस्य स्वर्गसाधनत्वं न सम्भ- वतीत्याह कालेति। यागस्य प्रतीतस्वर्गसाधनताऽन्यथानुपपत्त्या फलसमयपर्यन्तस्थायी व्यापारः कल्प्यते इत्याह यथेति। ननु साधनताप्रतीतिरेव योग्यताज्ञानाभावान्न सम्भवति। तथाहि स्वर्गसाधनताज्ञानं यागस्य भवत्साक्षात्साधनताविषयकं भवेत्, परम्परासाधनताविषयकं वा, एतदुभयोदासीनसाधनताविषयकं वा ? नाद्यः, आशुतरविनाशित्वेन क्रियायाः कालान्तरभाविस्वर्गेणव्यवहितपूर्वसमयावृत्तित्वात्। न द्वितीयः, परम्पराघटकस्यानुपस्थितेः। अथास्तु तृतीयः, तथाहि-साक्षात्परम्परोदासीनसाधनतामात्रं यागस्य स्वर्गं प्रति नायोग्यम्। न च साक्षात्परम्पराविशेषद्वयं विना सामान्यं नास्त्येवेति वाच्यम्। साक्षात्परम्पराभ्यां विशेषाणा- नुपपत्तेः। न च विशेषद्वयबाधे सामान्यमपि बाधितं, परम्परासाधनत्वस्याबाधनात्। बाधो हि विपरीतप्रमा। न च स्वर्गे यागो न परम्परासाधनमिति प्रमा नास्ति। न च योग्यानुपलब्ध्या परम्पराघटकबाधः, संस्कारवदयोज्यस्यापि तस्य सम्भवात्। अन्यथा वाच्येऽप्यपूर्वे क्रिया कामि- कार्या न स्यात्, काम्यासाधनत्वात्। न हि यदयोग्यं तत्पश्चाद् योग्यम्। तस्मात् स्वर्गसाधनं याग इति सामान्यतः परम्परासाधनत्वममुल्लिख्य वस्तुगत्या परम्परासाधनविषयकं ज्ञानमुत्पद्यमानं नायोग्यतया परिभवितुं शक्यमिति। मैवम्, तथाहि-स्वर्गं प्रति यागो न साक्षात्साधनमिति ज्ञानानन्तरं स्वर्गसाधनं याग इति सामान्यज्ञानं भवत् परम्परासाधनताप्रकारकं स्यात्, एकविशेषबाधे शाब्दज्ञानस्य तदितरविशे- षप्रकारकत्वनियमात्। यथा छिद्रवाधे घटपदजन्यं घटज्ञानं छिद्रेतरत्वप्रकारकम्। न च परम्परा- प्रकाशिका। कृतिजन्यत्वमपूर्वस्यापीत्यन्यथा व्याचष्टे कृत्यनन्तरेति। कृत्यव्यवहितानन्तरेत्यर्थः। तत्रापि किञ्चिद्व्यवधानेऽपि अपूर्वापेक्षया अव्यवधानमस्त्येवेति भावः। एकविशेषवाधे शाब्दज्ञानस्येति। एकविशेषवाधसहकृतसामान्यप्रकारकज्ञानजनकसामग्र्या- मकरन्दः। कृतिजन्यत्वमपूर्वस्यापीत्यन्यथा व्याचष्टे कृत्यनन्तरेति। कृत्यव्यवहितानन्तरेत्यर्थः। यद्यपि तत्रापि किञ्चिद्व्यवधानं, तथाप्यपूर्वापेक्षया अव्यवधानमस्त्येवेति भावः।