भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 582, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 582

५५० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां साधनमिति साधनार्थ इति चेत् । न । स्वभावतो नेदमिष्टमित्यसिद्धेः । अनन्योद्देश- प्रवृत्तकृतिव्याप्यत्वात् , अन्यथा तदसिद्धेः, ततो व्याघातादन्यतरापाय इति । अस्तु नित्यनिषेधापूर्वयोरलाभः, किं नश्छिन्नमिति चेत् । किं नश्छिन्नं, यदा कामाधिकारेऽपि तदलाभः, न हि लिङा कार्य्यं स्वर्गसाधनमुक्तम् । नापि स्वर्ग- कामपदसमभिव्याहारान्यथानुपपत्त्या तल्लब्धं, ब्राह्मणत्वादिवदधिकार्य्यवच्छेद- मात्रेणैवोपपत्तेः। न चेदमनुमानं-यस्य यदिच्छातो यत्कर्त्तव्यं, तत्तस्येप्सितसाधनम्-इति । अन्ये- च्छयैव तत्कर्त्तव्यतायाः सुखेननैकान्तिकत्वात् , औपाधिककर्त्तव्यतायाश्चेप्सितसाध- नत्वमप्रतीत्य प्रत्येतुमशक्यत्वात् ॥ किमनया विशेषचिन्तया, प्रतीयते तावच्छब्दादन्यदिच्छतोऽन्यत्कार्य्यमित्ये- तावतैवानुमानमिति चेत् । नन्वन्वितमभिधानीयं, योग्यञ्चान्वीयते, अन्यदिच्छु- तश्चान्यत् कर्त्तव्यमन्वयायोग्यं, तत्कथमभिधीयताम् । तत एव तत्साधनत्वसिद्धि- रिति चेत् । एवं तर्हीष्टसाधनतैकार्थसमवायिकर्त्तव्यत्वाभिधानादनुमानानव- काशः । न चान्विताभिधानेऽपि तत्साधनत्वसिद्धिः । अधिकार्य्यवच्छेदमात्रेणाप्य- न्वययोग्योपपत्तेः। प्रकाशः। साधनमित्यनुमेयमित्यर्थः । असिद्धेरिति । त्वन्मतेऽपूर्वस्यैव स्वतःकाम्यतया विशेषणासिद्धौ हेतुरित्यर्थः । असिद्धिं स्पष्टयति अन्यथेति । उद्देश्यफलान्तरसद्भावे नित्यनिषेधापूर्वत्वासिद्धेरि- त्यर्थः । तत इति । अपूर्वस्य स्वभावत इष्टत्वे न काम्यसाधनत्वं, तथात्वे वाऽनन्योद्देशप्रवृत्तकृति- व्याप्यत्वरूपं स्वभावत इष्टत्वं नेत्येकतरसत्त्वमन्यतरसत्त्वविरुद्धमित्यर्थः । तदलाभोऽपूर्वालाभः । किं निरपेक्षा लिङेवं स्वर्गसाधनतामाह येन तत्साधनं स्थिरमपूर्वं शब्द- बोध्यं, स्वर्गकामपदसमभिव्याहृता वा ? आद्ये न हीति । तथा सति लौकिकी लिङनर्थिका स्यात् । वेदेऽप्यनन्योद्देश्यकृतिव्याप्यत्वरूपस्य कार्य्यत्वस्य स्वर्गसाधनत्वविरोध इति भावः । द्वितीयमाश- ङ्क्यान्यथासिद्धया निराकरोति नापीति । यथा यस्य ब्राह्मण्यमस्ति तस्य कार्य्यमिति धीः, तथा यस्य स्वर्गकामनाऽस्ति तत्सम्बन्धि कार्य्यमिति शाब्दी धीः, न तु स्वर्गाद्देशप्रवृत्तकृतिसाध्यं कार्य्य- मिति, तथाच न स्थायिनोऽपूर्वस्य लाभ इत्यर्थः । अनुमानादपूर्वलाभोऽस्त्विति मतमाशङ्क्य निराकरोति न चेदमिति । यस्येति । काम्या- साधने कामिनः कर्त्तव्यताज्ञानाभावाद्वाधिरित्यर्थः । किमन्येच्छया कर्त्तव्यत्वं, स्वभावतो वा ? आद्ये, अन्येच्छयेति । अन्येच्छया कर्त्तव्यत्वेऽनन्योद्देशप्रवृत्तकृतिसाध्यत्वं भज्येतेत्यर्थः । अन्त्ये, तदिति । आद्ये दूषणान्तरमाह औपाधिकेति । अत्र स्वाभाविकत्वौपाधिकत्वरूपविशेषाविवक्षायां कर्त्तव्यत्वमात्रं विवक्ष्यते , तच्च शब्देनान्ये- च्छोरेव बोध्यते इति पूर्वमनुमानमदुष्टमेवेत्याह- किमनयेति । इष्टसाधनताऽभिधानं विनाऽन्यदिच्छतोऽन्यत् कर्त्तव्यमयोग्यतया नान्वेतुमर्ह- तीत्याह नन्विति । काम्यभिन्नस्य कामिकार्य्यस्य काम्यसाधनस्यैवान्वययोग्यत्वादित्यर्थः । तत एवेति । शब्दादेवेष्टसाधनत्वसिद्धिरित्यर्थः । अस्तु वा अन्यदिच्छतोऽन्यत् कर्त्तव्यमन्वययोग्यं, तथापि नेष्टसाधनत्वमनुमातुं शक्यते, ब्राह्मणत्वस्येव स्वर्गकामतवस्याधिकारितावच्छेदकत्वेनाप्यन्वययोग्योपपत्तेरित्याह न चान्वि- तेति । वस्तुतः तवापूर्वस्यैव स्वतःकाम्यसाधनत्वं विरुद्धमिति भावः ।