भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 581, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 581

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५४६ तद्धि विध्यन्यथाऽनुपपत्त्या कल्प्येत, कार्य्यत्वप्रत्ययान्यथाऽनुपपर्त्या वा, लोकवत् । न प्रथमः। भवतां दर्शने तस्योपेयरूपत्वात्, यतः श्रुतस्वर्गफलत्वेऽपि साध्यविशिष्टिरुच्यते । न द्वितीयः। शब्दबलेन तत्प्रत्यये तदनपेक्षणात्, लोके हि तत्प्रत्यय इष्टाभ्युपायताऽधीनो न तु वेदे इत्यभ्युपगमात् । अन्यथेट्ठाभ्युपायताच प्रथमं वेदादवगन्तव्या, प्रमाणान्तराभावात्, ततः कार्य्यतेत्यानुमानिको विधिः स्यात्, न शाब्दः। आनुमानिकं फलमस्तु, यत्कर्त्तव्यं तदिष्ट्ठाभ्युपाय इति व्याप्तेरित्यपि न युक्तम् । सुखेन व्यभिचारात् । अन्यत्वे सतीति चेत् । न । दुःखाभावेन व्यभिचारात् । फलं विहायेति चेत् । तदेव किमुक्तं स्यात् । इष्टं स्वभावत इति चेत् । तर्हि ततोऽ- न्यदनिष्टं स्यात्, तच्च कर्त्तव्यमिति व्याघातः। तत्साधनमिति चेत् । तत्साधनत्वे सतीति साध्याविशिष्टं विशेषणम् । स्वभावतो नेदमिष्टं कर्त्तव्यञ्च, ततो नूनमिष्ट- प्रकाशः । तथाच तवापसिद्धान्त इति भावः । बीजाभावं स्पष्टयति तद्धीति । तत्-फलम् । विधित्वं-कार्य- त्वम् । तत् फलजनकत्वं विनाऽनुपपन्नं फलं कल्पयतीत्यर्थः । लोकवदिति । यथा लोके कार्यत्वं पाकादेरिष्टसाधनत्वेन लिङ्गेनानुमीयते इति कार्यत्वमिष्टं फलं प्रतीत्यैव प्रतीयते, तथा वेदेऽपीत्यर्थः । उपेयरूपत्वादिति । त्वन्नये अपूर्वस्यैव स्वतःकाम्यतयाऽनन्योद्देश्यकृतिकृत्यन्वयित्वादित्यर्थः । तथा च फलजनकत्वं विनाऽपि फलस्येवापूर्वस्य कार्यत्वमुपलभ्यमानं न फलकल्पकमिति भावः। यत इति । यत्रापि स्वर्गः फलं श्रूयते, तत्राप्यपूर्वस्यैव स्वतःप्रयोजनता स्वर्गपर्यन्तं व्याप्नोति । न त्वपूर्वं स्वर्गसाधनमिति धीः, प्रधानस्य गुणत्वानुपपत्तेरिति तव दर्शनादित्यर्थः । एतच्च विरोधोद्भावनमात्रम्, वस्तुतोऽपूर्वं न स्वतःप्रयोजनं, लोके तथाऽनवगमात् । वेदेऽपि काम्यस्थले काम्यसाधनस्यैवापूर्वस्य गौणप्रयोजनस्य लिङाऽभिधानम्, काम्यसाधनताज्ञानं विना कामिकार्यत्वस्य बोधयितुमशक्यत्वात्, न तु स्वतःप्रयोजनत्वेन, तत्रासामर्थ्यादनुपयोगाच्च । प्रवृत्तेर्भोजनादाविव लोकक्लृप्तकाम्यसाधनताज्ञानात् कार्यताज्ञानाद्वा गौणप्रयोजकत्वेनैवोपपत्तेः। अथ नित्ये -लोकवेदावगतगौणमुख्यप्रयोजनाभावे सति लिङेवापूर्वस्य स्वतःप्रयोजनत्वं बोधयति, तेन विना प्रवृत्तिपरत्वानिर्वाहादिति चेत्। न। निरुपाधीच्छाविषयत्वं हि स्वतःप्रयोजनत्वमपूर्वस्य लिङा बोधनीयं, न चापूर्वस्य तादृशेच्छाविषयत्वं क्वचिदपि सिद्धमिति भावः। शब्दबलेनेति । कार्यताधीर्लैङ्गिकी, तत्र सा लिङ्गमिएसाधनत्वमपेक्षते, वेदे तु कार्यशक्ता लिङेव तां जनयतीति न तत्र सा तदपेक्षेतेत्यर्थः । यदि चापूर्वं न स्वतःकार्यमिति तत्रापि सा तदपेक्षेत, तदिष्टसाधनत्वज्ञापकस्यान्यस्याभावाद्देव एव तद्बोधयेत्, तथाच लोकवल्लिङ्गादेव कार्य्य- ताधीसम्भवान्न लिङस्तत्र शक्तिः कल्प्येतेत्याह अन्यथेति । साध्याविशिष्टमिति । दृष्टसा- धनत्वस्यैव साध्यत्वादित्यर्थः । स्वभावत इति । सोपाधीच्छाविषयत्वे सति कर्त्तव्यत्वेनापूर्वं फल- प्रकाशिका । न त्वपूर्वं स्वर्गसाधनमिति धीः। यत्र गौणप्रयोजनत्वधीरित्यर्थः । प्रधानस्येति । तच्चापूर्वं स्वतःप्रयोजनमेव न तु गौणप्रयोजनमित्यर्थः । तन्मतेऽस्वरसमाविष्करोति एतच्चेति । परं प्रत्यसिद्धान्तोद्भावनमात्रमित्यर्थः । मकरन्दः । प्रधानस्येति । तथा चापूर्वं स्वतःप्रयोजनमेव न तु गौणप्रयोजनमिति भावः । अत्र मते अस्वरसमुद्भावयति एतच्चेति । परं प्रत्यपसिद्धान्तोद्भावनमात्रमित्यर्थः । यदि चेति । स्वतः- काम्यत्वे इष्टसाधनत्वाभावान्न तदपेक्षेति भावः ।