भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 589, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 589

पञ्चमस्तवके ] ईश्वरसाधनम् । ५५७ ततश्च कर्त्तव्यतैकार्थसमवायिनी इष्टसाधनता लिङर्थ इत्यवधारयति । न च वाच्यम्-एवञ्चेत् वरं कर्त्तव्यतैवास्तु, अवश्यमभ्युपगमनीयत्वात्; कृतमिष्टसाधन- प्रकाशः । भवात् , पाकं कुर्य्यामित्यस्य पाकं कृत्या साधयामीति विवरणाच्च । सा स्वकृतिसाध्यताज्ञानसाध्या , इच्छायाः स्वजनकज्ञानसमानप्रकारकत्वनियमात् । अत एव स्वकृतिसाध्ये प्रवर्त्तते, न त्विष्टसाधनेऽपि स्वकृत्यसाध्ये । अथ कृत्या साध्येऽपि विषभक्षणादावप्रवृत्तेरिष्टसाधनत्वमादाय विधिः । न च तत्रानिष्टसाधन- ताज्ञानं प्रतिबन्धकम् , प्रवृत्तौ तदभावस्य हेतुत्वे गौरवापत्तेः । तद्वरं लाघवाद्विष्टसाधनत्वं विषयता- वच्छेदकमस्तु । न च प्रवृत्तेः पूर्वमनिष्टसाधनताज्ञानविरह उभयसिद्धः, इष्टसाधनताज्ञानञ्च सन्दि- ग्धम् , अतो युगपदुपस्थित्यभावाच्च लाघवावतार इति वाच्यम् । त्वयाऽपि प्रवृत्तेः पूर्वमिष्टसाधनता- ज्ञानविनियोगस्वीकारात् । यत्र शब्दादनुमानाद्वा तदविगतं, तत्र तदभावाच्च, तस्माद्विषभक्षणादौ वृष्ट्यादौ च प्रत्येकं व्यभिचारात् कृतिसाध्यत्वे सतीष्टसाधनत्वं विधिरिति । न । विषभक्षणादौ स्वकृतिसाध्यत्वाभावात्, न हि कश्चिद्विषभक्षणं चिकीर्षति ततः करोतीति दृश्यते, जीवनयोनिकृतिसाध्यञ्च तन्न भवत्येव, न चान्या कृतिरास्त । अथेष्टसाधनताभ्रमानन्तरं विषभक्षणमपि चिकीर्षाजन्यकृतिसाध्यम् , अतो विशेषदर्शनेऽपि तत्र प्रवर्त्तेतेति चेत् । न । द्विधा हि कृतिरणुभूयते, बलवदनिष्टजनिका यथा विषभक्षणादौ, तदज- निकाच यथा पाकादौ, तदिह बलवदनिष्टाजनककृतिसाध्यत्वं विवक्षितम् । न च विषभक्षणे तदस्ति । अत एव तत्र प्रथममिष्टसाधनतया तथाविधकृतिसाध्यत्वमविद्यमानमवगत्य प्रवर्त्तते, प्रवृत्त्यन- न्तरञ्च बलवदनिष्टहेतुकृतिसाध्यत्वं विरोधि तत्र विगतमिति न प्रवर्त्तते । तथाभूतकृतिसाध्यत्वं पूर्वानुभूतं स्मृत्वा प्रवर्त्तेतेति चेत् । न । विशेषदर्शनेन भ्रमाहितसंस्कारो- न्मूलनात् , अन्यथेष्टसाधनतास्मरणेऽप्यप्रतीकारात् । न चैवं भ्रमेऽपि प्रवर्त्तेत, स्वेच्छाजन्यकृति- साध्यस्य विवक्षितत्वात् । भ्रमस्य च नियमतोऽन्येच्छाधीनकृतिसाध्यत्वं, दुःखत्वेन तत्रेच्छाविरहात्। अतएवस नान्तरीयक इत्युच्यते । न चैवमिच्छाज्ञानस्य प्रवर्त्तकत्वप्रसङ्गः, कृतौ परिचायकमात्रत्वात् । यद्वा कृतौ स्वरूपसतीच्छा जनिका, इच्छायान्तु तज्ज्ञानं जनकमस्तु, को विरोधः । न हि यदेकत्र स्वरूपतो हेतुस्तज्ज्ञानमन्यत्र न जनकम् । एवं चिकीर्षाहेतुतया कृतिसाध्यताज्ञाने व्यवस्थिते प्रकाशिका । तस्माद्विषभक्षणादाविति । विषभक्षणे कृतिसाध्यत्वेऽपीष्टसाधनत्वाभावात् वृष्ट्यादौ इष्टसाधनत्वेऽपि कृतिसाध्यत्वाभावात् न प्रवृत्त्तिरिति भावः । विषभक्षणे कृत्यसाध्यत्वादेव प्रवृत्त्तिर्नेत्यत आह न हि कश्चिदिति । ननु चिकीर्षाधीनकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यमेव विषभक्षणं स्यादित्यत आह जीवनयोनीति । इच्छायान्त्विति । चिकीर्षायामित्यर्थः । तथाचेच्छाज्ञानस्य प्रवर्त्तकत्वं बाधितमेव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः । मकरन्दः । ननु चिकीर्षाजन्यकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यत्वं स्यादित्यत आह जीवनेति । इच्छायान्त्विति । चिकीर्षायामित्यर्थः । तथाचेच्छाज्ञानस्य प्रवर्त्तकत्वप्रसङ्गो वारित एव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः । वस्तुतश्चिकीर्षाहेतुज्ञानस्यैव प्रवर्त्तकत्व- मितीच्छाज्ञानस्य चिकीर्षाहेतुत्वे प्रवर्त्तकत्वापत्तिरिति प्रथमकल्प एव साधुरिति ।