भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 588, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 588

धात्, अधिकत्वेऽपि ततोऽप्रवृत्तेः । बालानां तदभावेऽपि तद्भावात् । शब्दान्तरेण तच्छाविणामध्यप्रवृत्तेः। न च विलक्षणैव सा लिङो विषयः। तद्वैलक्षण्यं प्रतीत प्रति चेत्, अर्थविशे- षोऽपि स्यात् । प्रवृत्तिमात्रं प्रति चेत्, अभिधासमवेतं तदिति कुतः ? तत्सन्निधा- नादिति चेत् । न । अनियमात् । अन्यस्य सर्वस्य निषेधादिति चेत् । न । प्रवृत्ति- हेतुत्वनिषेधस्य तुल्यत्वात् । शब्दैकवेद्यत्वे चाव्युत्पत्तेः । प्रवृत्त्यन्यथाऽनुपपत्तिसिद्धे व्युत्पत्तिरित्यपि वार्त्तम् । न हि प्रवृत्तिहेतुः कश्चि- दस्तीति प्रवर्त्तते । इष्टसाधनता तु स्यात् । सर्वो हि मया क्रियमाणमेतन्मतं समी- हितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतीति सर्वानु- भवसिद्धम् । तदयं व्युत्पित्सुर्य्यज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान्, तज्ज्ञानमेव लिङ्- श्राविणः प्रवृत्तिकारणमनुमिनोति ।

प्रकाशः । शब्दव्यापारोऽभिधा लिङ्वाच्या, तथापि नासौ प्रवृत्तिहेतुः अपुरुषार्थत्वादित्याह अधिक- त्वेऽपीति । अभिधायामव्युत्पन्नानामभिधाज्ञानाभावेऽपि प्रवृत्तिसत्त्वादित्याह बालानामिति । अभिधादिपदैरभिधां ज्ञातवतोऽप्यप्रवृत्तेरित्याह शब्दान्तरेणेति । अथाभिधादिपदात्तत्सामान्यज्ञानेऽपि न प्रवृत्तिः, लिङभिधेयविलक्षणाभिधाज्ञानस्य प्रवर्त्तकस्य ततोऽनुत्पादात् , अत एव नाख्यातान्तरेण तज्ज्ञानेऽपि प्रवृत्तिः, अत्राह न चेति । प्रतिपत्ति प्रतीति । प्रतिपत्तिविशेषकमित्यर्थः । अर्थविशेषोऽपीति । अर्थविशेषं विना बुद्धिविशेषस्यानुत्पत्ते- रित्यर्थः । यदि प्रवर्त्तकज्ञानविशेषादेव सोऽर्थः प्रतीयते, तदा लोके यत्प्रतीयमानं प्रवर्त्तकत्वेन ज्ञातं तत लिङा वाच्यम् , न चाभिधायां तत्सम्भवतीति भावः । अथाभिधाज्ञानमात्रस्याप्रवर्त्तकत्वात् प्रवृत्त्यैव तद्वैलक्षण्यमनुमेयं, तत्राह प्रवृत्तिमात्रमिति । तदिति । अभिधायाः सन्निहितत्वात्तद्वैलक्षण्यं प्रवर्त्तकमित्यर्थः । नानियमादिति । बौद्धसन्निधानं धात्वर्थे दृष्टसाधनत्वे चास्तीत्यर्थः । प्रवृत्तिहेतुत्वस्य निषेधः प्रमाणान्तरात् , विधिवादसन्निधेर्वा ? आद्ये प्रवृत्तिहेतुत्वेति । अन्त्ये तत्सन्निधोति । यथाऽभिधायां विधिसन्निधिनिषेधोऽशक्यः, तथा धात्वर्थादावपीत्यर्थः । ननु मानान्तरादमभिधाज्ञानेऽपि न प्रवृत्तिः, लिङादिपदैकवेद्याभिधाज्ञानस्य प्रवर्त्तकत्वादित्यत आह शब्दैकैति । एवं तत्र लिङादिशक्तिग्रह एव न स्यात् , मानान्तरेण तदनुपस्थितेरित्यर्थः । न हीति । प्रवृत्त्यन्यथानुपपत्त्या हि तद्धेतुः कश्चिदित्येव ज्ञानं स्यात् , न च तत्प्रवर्त्तकमित्यर्थः । द्वितीयं पक्षमाह इष्टसाधनता त्विति । करणधर्मो विधिरिति शेषः । तदुपपादयति सर्वो हीति। मयेत्यादिनाऽसाध्ये कृत्यसाध्ये स्वकृत्यसाध्ये च प्रवृत्तिर्निवारिता । तदयमिति । ननु कार्य्यत्वमेव विधिः, तथाहि-ज्ञानस्य कृतावुत्पाद्यायां चिकीर्षाऽतिरिक्तं न कर्त्तव्यम् , सा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयेच्छा, पाकं कृत्या साधयामीति तदनु-

प्रकाशिका । प्रतीयमानमिति । इष्टसाधनत्वादिकमित्यर्थः ।

मकरन्दः । अपुरुषार्थत्वादिति । पुरुषार्थसुखादिप्रतिसन्धानं विना प्रवृत्त्यभावादिति भावः । यत्प्रतीयमानमिति । इष्टसाधनत्वादिकमित्यर्थः ।