न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 590, कुल 608 में से
संदर्भ में पढ़ेंतया-इति । यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्त्तते, असाध्येषु व्यभिचारात् । प्रकाशः । विषभक्षणादौ व्यावर्त्तककृतिवृत्तित्वबलवदनिष्टाजनकचिकीर्षाधीनत्वमेव, न त्विष्टसाधनत्वम् । कृतिवृत्तित्वधर्मापेक्षया बहिरङ्गत्वात् जीवनयोनिकृतिजन्यप्राणादिसञ्चारनिवृत्त्यर्थमावश्यकत्वात् भोगचिकीर्षायां व्यभिचाराच्च । न चौपायिकीच्छेष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावदिति वाच्यम् । साध्यत्वसाधन- त्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् । असिद्धतां सिद्धताञ्चादाय तयोर्व्यवस्थितेः । न च यद्वस्तुतः कृतिसाध्यं तदिष्टसाधनमिति ज्ञायते इति युक्तम् । कृतिसाध्यतोत्तीर्णज्ञानात् चिकीर्षानुत्पत्तेः । अपि च साधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि, न हि कश्चित्कृतिसिद्धमि- च्छति, अतोऽसुन्दरे वृष्टादौ चेच्छा तत्साध्येष्टज्ञानात् । अथ तादृशकृतिसाध्यत्वे कृतिर्न विशेषणम्, असत्त्वात्, सत्त्वे वा कृतौ सत्यां कृतिसाध्यताज्ञानं, तथा ज्ञाने च कृतिश्चेत्यन्योन्याश्रयः । नोपलक्षणम्, अनतिप्रसक्तोपलक्ष्याभावादिति चेत् । न । ज्ञाने विषयतया कृतेर्विशेषणत्वात् , साध्ये च प्रवृत्तिविषये परिचायकतयोपलक्षणत्वात् , अन्यथेष्टसाधन- ता Grant पक्षेऽपीष्टस्य तथाविधविकल्पग्रासात् । प्रकाशिका । बलवदनिष्टजनकत्वस्य चिकीर्षाविशेषणत्वेऽपि न क्षतिरित्याह बलवदनिष्टाजनकचिकीर्षा- धीनत्वमिति । बलवदनिष्टाजनकत्वस्य पूर्वं कृतिविशेषणतयोक्तस्यायमुपसंहारो, न तु पक्षान्तरमिति ध्येयम् । केचित्तु बलवदनिष्टाजनकचिकीर्षाजन्यचिकीर्षाधीनत्वमिति पाठः । तत्र बलवदनिष्टजनिका या चिकीर्षा तज्जनकं यच्चिकीर्षाधीनत्वमुक्तं रूपन्तदेव विशेषणमिति योजनया पूर्वोक्त एवार्थः । ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्व- मित्यत आह जीवनयोनिकृतीति । यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं बलवदनिष्टा- जनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजनव्यावृत्तये तदप्यावश्यकमिति भावः । भोगेति । तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुतः कृतिसाध्यमिति । यदा कदापीति शेषः । कृतिसाध्यतोत्तीर्णेतीति । सिद्धत्वज्ञानादित्यर्थः । अन्यथा साधनत्वस्यैव अप्रहादित्यर्थः । मकरन्दः । यद्यपि बलवदनिष्टाजनकत्वं कृतौ विशेषणीकृतं प्राक् , तथापि चिकीर्षाविशेषणत्वेऽपि न दोष इत्याशयवानाह बलवदनिष्टाजनकचिकीर्षाधीनत्वमिति । वस्तुतो बलवदनिष्टाजनकत्वे सति चिकीर्षाधीनत्वमित्यर्थः, तथा च न पूर्वविरोधः । क्वचित्तु बलवदनिष्टाजनकचिकीर्षाजन्ययत्नचिकीर्षा- धीनत्वमिति पाठः । तत्र बलवदनिष्टाजनकचिकीर्षाजन्ययत्ने यच्चिकीर्षाधीनत्वमुक्तं रूपं, तदेव विशेष- णमिति योजनया तादृशार्थलाभ इत्याहुः । ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्वमत आह जीवनयोनिजेति । यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं न तु बलवदनिष्टाजनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजन- व्यावृत्त्यर्थं तदावश्यकमिति भावः । भोगेतीति । तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुत इति—यदा कदा- पीत्यर्थः । कृतिसाध्यतोत्तीर्णेति । सिद्धत्वज्ञानादित्यर्थः, अन्यथा साधनत्वस्यैवाप्रहादिति भावः । शेषं शब्दप्रकाशे प्रपञ्चितमनुसन्धेयम् । अत एवेदं मत्तोऽभूतमित्यत्राकारप्रश्लेषः, अभवनस्य प्रागभावरूपत्वादित्यर्थः । अत एव क्वचित् मत्तो न भूतमित्येव पाठः ।