न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 591, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तवके ] ईश्वरसाधनम् । ५५६ तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्त्तते इत्यनुभवः ॥ प्रकाशः । ननु तादृशकृतिसाध्यत्वज्ञानाच्चिकीर्षा ततः कृतिः कृतौ सत्यां प्रत्यक्षेण कृतिसाध्यताज्ञानमित्य- न्योन्याश्रयात्, कृतिसाध्यतोत्तीर्णे चिकीर्षाकृत्योरसम्भवाच्च । नानुमानात्, कृतक्रियमाणयोः पक्षत्वे कृतिसाध्यतोत्तीर्णत्वेन बाधात्, भाविपक्षत्वे चाश्रयासिद्धेः । उच्यते—पाको मत्कृतिविशेषसाध्यः मत्कृतिं विनाऽसत्त्वे सति मदिष्टसाधनत्वात् मद्भोजनवत् । यस्य यदिष्टसाधनं यदा यत्कृतिं विना न सिध्यति, तत् तदा तत्कृतिविशेषसाध्यमिति व्याप्तेः, असिद्धस्येष्टसाधनत्वाभावात् । न च पक्षानुपपत्तिः, पाके कृतिसाध्यत्वं हि सिध्यत् सिद्धे बाधादनागतं पाकमादाय सिध्यति, पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य हेतुना सिध्यतीत्यनुमाने क्लृप्तत्वात् । यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधितमित्यप्रसिद्धोऽपि वह्निः सिध्यति, तथा प्रसिद्धपाके कृति- साध्यत्वबाधेऽपि पाकमात्रे न बाधितमित्यप्रसिद्धं पाकमादाय सिध्यति, अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात् । तथापि प्राथमिकत्वादावश्यकत्वाच्च लिङ्गज्ञानमेव प्रवर्त्तकमस्तु । न च लाघवात् कृतिसाध्यत्वं तथा, तदा कृतिसाध्यत्वानुमितौ मानाभावेन युगदुपस्थित्यभावादिति चेत् । न लिङ्गज्ञाने कृतिसा- ध्यत्वप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् । ननु कृतिसाध्यत्वस्य विधित्वे 'न कलञ्जं भक्षयेदि'त्यत्र विध्यर्थनिषेधानुपपत्तिः । कलञ्जभक्षणं न कृतिसाध्यमित्यस्यानियोग्यत्वात् । न, तत्रापूर्वस्य लिङर्थत्वेन कलञ्जभक्षणप्रवृत्तं प्रति कलञ्जभक्षणा- भावाविषयकापूर्वस्य कृतिसाध्यत्वेन बोधनात् । न चानादित्वेन प्रागभावो न साध्यः, भक्षणप्रवृ- त्तस्य हि भक्षणप्रागभावस्तत्कृतिं विनोत्तरकाले न भवति तत्कृत्या तु भवतीत्यन्वयव्यतिरेकाभ्यां तत्कृतिसाध्य एवानुभूयते । न हि कृत्यनन्तरक्षणे घटस्वरूपं कृत्याधीनमित्यतोऽन्यत् कृतिसा- ध्यत्वं घटे । इयांस्तु विशेषः । क्वचित् कृत्याधीनः प्राक्कालयोगः कचिदुत्तरकालयोग इत्युभयोरपि योगक्षेमयोः कृतिसाध्यत्वमानुभविकम् अत, एवेदं मत्तोऽभूतमिति व्यवहारः । ननु कृतौ नष्टायां सन्नपि धर्मी न कार्य्यः, तथासति कथमपूर्वे कार्ये कामिनोऽन्वयः ? आशुविनाशितया क्रियातुल्यत्वात् । मैवम्, यद्वृत्ति काम्यसाधनत्वं तत्र कार्यतावृद्धिः प्रयोजिका, न तु कार्यताविशिष्टस्य काम्यसाधनताविशिष्टेति व्याप्तिः । तस्मात् कृतिसाध्य- त्वमेव विधिः । अत्रोच्यते-कृतिसाध्यताज्ञानस्य प्रवर्त्तकत्वे तृप्तोऽपि भोजने प्रवर्त्तेत तथा विशेषदर्शनेऽपि चैत्यवन्दनादौ । अथ स्वविशेषणवत्ताप्रतिसन्धानजन्यं कार्यताज्ञानं प्रवर्त्तकम् । तथा हि-काम्ये पुरुषविशेषणं कामना, ततः काम्यसाधने यागपाकादौ कार्यताज्ञानम् । नित्ये च कालशौचादि स्वविशेषणम् । तृप्तस्य तृप्तौ कासनाविरहेणेष्टसाधनताज्ञानाभावात् न तथा बोधः । विशेषदर्शने च भ्रमदशायामिव चैत्यवन्दने नेष्टसाधनताज्ञानं, येन तज्जन्यकार्यताबोधात् प्रवर्त्तेत । प्रकाशिका । अत एवेदं मत्तोऽभूतमित्यकारप्रश्लेषः अभवनस्य प्रागभावरूपत्वादित्यर्थः । क्वचिन्मत्तो न भूत इति पाठः, स तु सुगम एव । तत्र कार्यताबुद्धिः प्रयोजिकेति । तद्धर्मिनिष्टकाम्यसाधन- ताज्ञानमेव कार्यताबुद्धिप्रयोजकम् न तु कार्यताविशिष्टस्य काम्यसाधनत्वज्ञानमित्यर्थः। तथा विशेष- दर्शनेऽपीति । इष्टसाधनत्वज्ञानेऽपीत्यर्थः । बलवदनिष्ठाजनकत्वेन कृतिविशेषणेऽपि तत्रातिप्रसङ्ग-