न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 592, कुल 608 में से
संदर्भ में पढ़ें[५६० न्यायकुसुमाञ्जलौ व्याख्यात्रयोपेतप्रकाशयुते [ १३ कारिकाव्याख्यायां
प्रकाशः । मैवम् । कृतिसाध्यत्वज्ञाने लाघवाद्विषयतयेष्टसाधनत्वस्यैवावच्छेदकत्वात् । न तु स्वविशेषण- वत्ताप्रतिसन्धानजन्यत्वं तत्र विशेषणं, गौरवात् । न च साध्यत्वसाधनत्वयोर्विरोधः, निर्विशेषितयोस्त- योरविरोधात् । तदा साध्यत्वसाधनत्वयोरेव विरोधात् । तथात्वस्य चानभ्युपगमात् । अन्यथा साध्यत्वसाधनत्वयोरन्यतरमेव स्यात् पाके, न तु समयभेदादुभयम् । तस्मात् समयभेदमादाय साध्यत्वसाधनत्वयोर्ज्ञानमबाधितम् । न चैवं गौरवं, समयभेदस्य प्रवृत्तावनुपयोगात् , ज्ञानोत्प- त्तावेव तदुपक्षयात् । कथं वा इष्टसाधनत्वेन कार्यत्वानुमानं, पक्षे साध्यसाधनयोरन्यतरसत्त्वे बाधासिद्धयोरन्यतरप्र- सङ्गात् । समयभेदेन तयोरविरोध इति तु तुल्यम् । अपि च स्वविशेषणवत्ताज्ञानजन्यकार्यताज्ञाना- भावात् कथं सुखे चिकीर्षा ? अथोपायचिकीर्षायां तद्धेतुः, इच्छाकारणसुखज्ञाने कृतिसाध्यत्वं यदा विषयः, तदा सुखे चिकीर्षा, नो चेदिच्छामात्रमित्युभयं चिकीर्षाहितुः । तर्हीच्छातद्धेतुज्ञाने कृतिसाध्यत्वं यदा भासते, तदा चिकीर्षा, नो चेदिच्छामात्रमित्यनुगतमेव सुखतदुपायचिकीर्षाहितुरस्तु, लाघवात् । सुखत्वज्ञा- नवदिष्टसाधनत्वज्ञानस्यापि इच्छाहेतुत्वात् । अत एव पाकादाविष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इति चिकीर्षा, वृष्ट्यादाविष्टसाधनताज्ञाने तु न तद्विषय इतीच्छामात्रम् । सुखचिकीर्षायामिच्छाकार- णज्ञाने कृतिसाध्यताविषयके चिकीर्षाहितुत्वावधारणात् । परमार्थतस्तु दैवाधीनवृष्टीच्छादौ स्वतोऽसुन्दरविषयेच्छामात्रं प्रतीष्टसाधनताज्ञानं कारणं क्लृ- प्तम्, अतः पाकादिचिकीर्षाऽपि तज्जन्या, न हि यज्जातीयं प्रति यत्कारणं गृहीतं, तदतिपत्य तद्भवति । न च चिकीर्षान्यत्वे सत्युपायेच्छात्वं तत्र तन्त्रं, गौरवात् । न च साधनत्वज्ञानमिच्छा- विरोधि, निर्विशेषितयोः सिद्धत्वासिद्धत्वयोरविरोघेनेच्छासाधनत्वयोरविरोधात् । यत्तु तत्साध्येष्टज्ञानाद्वृष्ट्यादाविच्छेत्युक्तम् । तन्न, असिद्धावस्थावतो वृष्ट्यादेरिष्टानुत्पत्तेस्तस्या- वश्यं सिद्धत्वमवगन्तव्यम् , इच्छानुरोधाच्चासिद्धत्वमिति तत्रापि विरोधात् । वृष्टिसाधनत्वमादायैवे- ष्टसाध्यत्वप्रमाच्च । एवञ्चेष्टसाधनतामात्रज्ञानात् कृतिसाध्यताप्रकारिकेच्छा नोत्पत्तुमर्हति, न चातिप्रस- ङ्गन्निवृत्तिरिति कृतिसाध्यत्वमपि तत्र विषयतयाऽवच्छेदकमस्तु । ननु कृताविच्छा चिकीर्षा, सनः प्रकृत्यर्थगोचरेच्छावाचित्वात् । न च कृतिविषयपाकादिविषये कृतिसाध्यत्वप्रकारकेच्छावाचित्वम् । तथा च कृताविष्टसाधनताज्ञानादिच्छा, वृष्ट्यादौ तथा कल्प- नात् । यदा कृताविच्छा, तदा सैव चिकीर्षा, अन्यत्रेच्छामात्रम्, न तु कृतिसाध्यताज्ञानात्, कृतौ कृतिसाध्यत्वाभावात् । अथ पाकं कृत्या साधयामीतीच्छा अनुभवसिद्धा, सा च कृतिसाध्यताज्ञानात् । सा च चिकी- र्षापदाप्रतिपाद्याऽपि कृतिहेतुः, समानविषयकत्वात् । न तु कृतीच्छा कृतिहेतुः, कृतिविषयाविषयत्वा- दिति चेत् । अस्ति तावत् पाककृताविच्छा वृष्टीच्छावत्, अस्ति च कृतिसाध्यत्वप्रकारिका तत्रेच्छा । तथापि कृतीच्छैव कृतिहेतुर्लाघवात् , न तु कृतिसाध्यत्वप्रकारिकेच्छा, गौरवात् । न चावगतिप्रवृत्त्योः समानविषयत्वमुभयसिद्धं, तस्यैव विचार्यत्वात् । कथन्तर्हि पाकं कृत्या साधयामी- तीच्छा ? येन रूपेण यस्येष्टसाधनत्वं तेन रूपेण तत्रेच्छासत्त्वात् । यथा स्वकेदारवृष्टित्वेनेष्टसाध-
प्रकाशिका । वारणादिति भावः । न चैवं गौरवंमिति । समयभेदविशिष्टस्य वाच्यत्वस्वीकार इति भावः । समयभेदस्येति । प्रवर्त्तकं ज्ञानं न समयभेदविषयकं, किन्तु वस्तुगत्या भिन्नसमयावच्छिन्नमेव । वस्तुतो बलवदनिष्ठाजनकत्वे सति चिकीर्षाधीनत्वमित्यर्थोऽतो साध्यत्वं साधनत्वं च प्रतीतिविषय