न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 577, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तवके ] ईश्वरसाधनम् । ५४५ कर्म्म हि फलं वा स्यात्, तत्कारणमपूर्वं वा, तत्कारणं क्रिया वा ? न प्रथमः फलेच्छायाः प्रवृत्तिं प्रत्यहेतुत्वात्, अतिप्रसङ्गादित्युक्तत्वात् । न द्वितीयोऽव्युत्पत्तेः। लिङो हि प्रवृत्तिनिमित्तमपूर्व्वत्वं वा स्यात्, उभयं वा ? न प्रथमः । शब्दप्रवृत्ति- निमित्तस्यापूर्व्वत्वस्य प्रमाणान्तरादवगतावपूर्व्वत्वव्याघातात्, अनवगतावव्यु- त्पत्तेः, सम्बन्धिनोऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात् । तत एवावगतावित- रेतराश्रयदोषान् । न च गन्धवत्त्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् अपूर्वे प्रवर्त्तते लिङिति युक्तम् । तत्रोभयोरपि प्रतीयमानत्वेन सन्देहकल्पनागौरवपुरस्कारेण पृथिवीत्व- एव सङ्गतिविश्रान्तेरुपपत्तेः, न त्वत्रापूर्वत्वप्रतीतिः । स्यादेतत् , कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता, तदुपलक्षितश्च यागो वा यत्नो वाऽन्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधन- समर्थः । न चाकाम्यफले कामी नियोक्तुं शक्यते । ततोऽन्यदेवा लौकिकं किञ्चि- दनेनोपलक्ष्यते, यो लिङादिप्रवृत्तिगोचर इति किमनुपपन्नमिति चेत् । उपलक्षणं हि स्मरणमनुमानं वा । उभयमप्यनवगतसम्बन्धेनाशक्यम् , न हि संस्कारवन्म- नोवददृष्टवद्वा कार्यत्वमपूर्वत्वमुपलक्षयति, ज्ञानापेक्षणात् । ततो हस्तीव हस्तिपकं, धूम इव धूमध्वजं, तत्सम्बन्धज्ञानादुपलक्षयेत्, न त्वन्यथा । प्रकाशः । तत्कारणमपूर्वकारणम्। फलेच्छाया इति । स्वर्गादेः कार्य्यतां जानन्नपि उपायज्ञानं विना न प्रवर्त्तते । कथं वाऽन्यज्ञानादन्यत्र साधने प्रवृत्तिः । यदि च साध्यसाधनभावो नियामकः, तदा भ्रमादसाधने न प्रवर्त्तेतेत्यर्थः । प्रमाणान्तरादिति । शब्देतरप्रमाणागोचरत्वस्यापूर्व्वस्य त्वयाऽभ्युपगमादित्यर्थः । अनव- गतान्निति । मानान्तराच्छक्तिग्रहविषयानुपस्थितौ तदसम्भवादित्यर्थः । तत एवेति । लिङ्पदा- देवेत्यर्थः । इतरेति । लिङः शक्तिग्रहे ततोऽपूर्वोपस्थितिस्तदुपस्थितौ च तत्र शक्तिग्रह इत्यर्थः । तत्रेति । पृथिवीत्वगन्धवत्त्वयोः प्रत्यक्षतः सिद्धौ तदन्यतरत्र प्रवृत्तिनिमित्तत्वसंशये गन्धवत्त्व- स्योपाधित्वेन सखण्डत्वात् पृथिवीत्वस्य च जातित्वेनाखण्डत्वात् तत्रैव शक्तिः कल्प्यते, प्रकृते त्वपू- र्वत्वाप्रतीतौ न तथेत्यर्थः । कार्य्यत्वमिति । वृद्धव्यवहाराद्व्युत्पद्यमानो बालः आत्मन्यवगतं प्रवृत्तिहेतुं कार्य्यत्वं लिङ- मवधारयति ततः कार्य्यशक्तं लिङ्पदं स्वर्गयोः कार्य्यत्वं त्यक्त्वा स्वर्गसाधनतायोग्यं तन्मध्यवर्त्ति- कार्य्यत्वोपलक्षितमपूर्व्वमनुभावयिष्यतीत्यर्थः । उपलक्षणं हीति । यथा गङ्गापदं स्वार्थान्वयानुपपत्त्या स्वसम्बन्धितया प्रतीतचरं तीरं स्मारयति, यथा वा व्याप्यं व्यापकत्याऽवगतमनुमापयति, न तद्वदपूर्वमप्रतीतचरत्वेन सम्बन्धितया व्यापकत्या वाऽनवगतं कार्य्यत्वं स्मारयितुमनुमापयितुं वाऽलमित्यर्थः । न च यथा संस्का- रादिरज्ञात एव स्मृत्यादि जनयति, एवं कार्य्यत्वमज्ञातमेवापूर्वं ज्ञापयति, सम्बन्धित्वव्याप्यत्वाभ्यां ज्ञातस्यैव ज्ञापकत्वादित्याह न हीति । तत्सम्बन्धेति । अपूर्वेण सम्बन्धज्ञानादित्यर्थः । एवञ्च प्रागुक्तन्यायसम्पादनमपि अफलं, सर्वथाऽपूर्व्वस्याप्रतीततया तत्र शक्तिग्रहाशक्यत्वादित्याह- मकरन्दः । एवं कार्य्यत्वमिति । स्वभावादिति भावः । तमेवाह सम्बन्धित्वेति । प्रागुक्तेति । उप- लक्षितस्येत्यादिना प्रागुक्तेत्यर्थः । ६६ न्या० कु०