भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 578, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 578

५५६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकान्याख्यायां तथाच न्यायसम्पादनाऽध्वरण्ये रुदितम्, न हि युक्तिसहस्रैरप्यविदिते सङ्ग- तिग्रहोऽविदितसङ्गतिर्वा शब्दः प्रवर्त्तत इति । एतेन-भेदाग्रहात् क्रियाकार्ये व्युत्प- त्तिः-इति निरस्तम्, न ह्यज्ञाते भेदाग्रहो व्यवहाराङ्गम्, अतिप्रसङ्गात् । किञ्चापूर्व्वत्वे प्रवृत्तिनिमित्ते कल्यमाने लौकिकी लिङनर्थिका प्रसज्येत, तत्रोपलक्षणीयाभावात् । तत्र कार्य्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृतेऽपि तथैवास्तु क्लृप्तत्वात् सम्भवाच्चेति ॥ अस्तु तर्हि तदेव प्रवृत्तिनिमित्तं, तर्कसम्पादनया त्वपूर्व्वव्यक्तिलाभ इति चेत् । न । नित्यनिषेधापूर्व्वयोरलाभप्रसङ्गात् । न चास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रा- प्रकाशः । तथा चेति । स्थायिकार्य्यत्वमेव लिङः प्रवृत्तिनिमित्तं, क्रियारूपकार्य्ये तु भेदाग्रहा- च्छिद्धः प्रवृत्तिरित्यप्यत एवापास्तं, ज्ञातेनैव सह भेदाग्रहस्य प्रवर्त्तकत्वादित्याह एतेनेति । किञ्चेति । पचेतेत्यादौ क्रियाया योग्यत्वेन त्यागाभावात्तत्क्रियाकार्य्यत्वमेव लिङ्पदात् प्रतीयते इत्यपूर्व्वत्वस्य तत्प्रवृत्तिनिमित्तत्वे तदानर्थक्यं स्यादित्यर्थः । प्रकृतेऽपीति । तच्च क्रियासाधारणमिति नापूर्व्व- व्यक्तिलाभ इति भावः । ननु कार्य्यधर्मिणि कार्य्यत्वेन रूपेण घटादावेव शक्तिग्रहः सम्भवति, कार्य्यत्वञ्च मानान्तरोपस्थि- तमेवातोऽन्विताभिधानदशायां स्वर्गकामायोग्यतया घटादिकं तिरस्कृत्य क्रियातोऽन्यत् स्थायिस्वर्ग- साधनतायोग्यं लिङा बोध्यते । न चान्यत्र शक्तिग्रहोऽन्यच्च शब्देन बोध्यते इति न स्यादिति वाच्यम् । येन रूपेण शब्दादनुभवः, तेन शक्तिग्रहस्य हेतुत्वात्, तथा च कार्य्यत्वेन रूपेण घटादौ शक्तिग्रहे योग्यतादिसहकारिवशादप्रतीतं धर्म्म्यन्तरं लिङाऽनुभाव्यते । न च स्मृतानां पदार्थानां योग्यता- दिसाचिव्याच्छब्देनान्वयो बोध्यते, न चापूर्व्वं स्मृतिगोचर इति वाच्यम् । शक्तिग्रहपदार्थस्मरण- वाक्यानेुभवादीनां समानप्रकारत्वेनैव कार्यकारणभावात्, लाघवादावश्यकत्वाच्च । न च क्वचित् सहचारमात्रेणान्वयप्रतियोगिन एव स्मृतिरन्वयबोधे हेतुः, गौरवात् । प्रकृतेऽपि कार्य्यशक्ता लिङिति शक्तिग्रहात् कार्य्यमिति ततः स्मृतिः, यागविषयकं कार्य्यमित्यनुभव इति क्रमेण तेषां समानप्रकारकत्व- मस्त्येवेत्यभिसन्धाय्याह— अस्त्विति । यदि कार्य्यत्वेन क्रियासाधारन्येन लिङः शक्तिग्रहः, स्वर्गकामायोग्यतया च क्रियानिरासः, तदा 'अहरहः सन्ध्यामुपासीत, न कलञ्जं भक्षयेदि'त्यत्र नित्यनिषेधापूर्व्वयोरलाभः, न हि तत्रायोग्यतया क्रिया त्यक्तुं शक्यते, फलाश्रवणेन न्यायसम्पादनानवकाशादित्याह नित्येति । अस्मिन् पक्षे-कार्य्यत्वप्रवृत्तिनिमित्ततापक्षे । न्यायेति । न ह्यपूर्व्वत्वेन शक्तिरपि तु कार्य्यत्वेन कार्ये धर्मिणि, क्रिया च तथा भवत्येवेति न तद्भिन्नं लिङा बोध्येतेदर्थः । ननु न लोके कार्ये धर्मिणि शक्तिः कल्पिता, किन्त्वनन्यलभ्ये कृतिरूपे कार्य्यत्वमात्रे, धर्मिणः पाकादेर्धातोरिवोपस्थितिसम्भवात् । क्रियाकार्य्यत्वस्य चान्विताभिधानलभ्यत्वात् । तथा च धर्मिणि शक्तिर्वेद एव कल्प्या, सा च क्रियानिरासेनेव, क्रियाया अन्वययोग्यत्वे धर्मिणि शक्तिग्रहस्या- प्रकाशिका । स्थायिकार्य्यत्वमेवेति । अपूर्वनिष्ठमिति शेषः । यद्वा अपूर्वमेवानेनोपलक्षितम्-अत एवाग्रे तस्यैव दूषणं किञ्चेत्यादिना । कार्य्यत्वमात्रमित्युपलक्षणम्-क्रियासाधारणं कार्य्यमात्रमभेदश्वान्वय इत्यपि द्रष्टव्यम् । मकरन्दः । स्थायिकार्य्यत्वमेवेति । अपूर्वनिष्ठमिति शेषः । यद्वा अपूर्वत्वमेवानेनोपलक्षितम्, अत एव किञ्चेत्यादिना तदेव दूषयतीति भावः ।

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक) · पृष्ठ 578, कुल 608 में से · BharatKosha