भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 579, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 579

पञ्चमस्तबके] ईश्वर्र्साधनम्। ५४७ र्थैनान्यत्र तथैव व्यवहार इति सम्भवति। कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णी- तत्वात्, न त्वपूर्वत्वस्य। न्यायसम्पादनायाश्च तत्रासम्भवात्। फलानुगुण्येन हि प्रकाशः। शक्यत्वात् । तस्मादयोग्यतया क्रियायां निरस्तायां धर्मिणि शक्तिग्रहकाले वस्तुतो यत्क्रियाभिन्नं कार्यं, तत्र शक्तिः। तथा च नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं लिङाभिधीयते, कॢप्त- त्वात्, न तु क्रियान्वययोग्यकार्यत्वमात्रं, लक्षणाप्रसङ्गात्, धर्मिणि बाधकाभावाच्च । अत एव क्रियाकार्यत्वे लौकिकी लिङ् लाक्षणिकी, उक्तरीत्या क्रियानिरासेनाैव वेदे धर्मिणि शक्तिकल्पनात् । लौकिकानां तत्र तात्पर्यांसम्भवात् , क्रियासाधारणशक्तावपि लोके लिङ् लाक्षणिकी । पचेतेत्यादौ पाककार्यताज्ञानेऽपि लाघवात् कार्यत्वे लिङ्हतात्पर्यम्, न तु धर्मिण्यपि धातुलभ्यत्वात् , तथा च तृतीयायाः करणैकत्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यं, किन्तु विशिष्टम् , विशिष्टाच्च विशेषण- मन्यदेवेति कार्यत्वे लक्षणा। न चानुपपत्त्या कार्यत्वविशिष्टोपस्थितावपि धर्म्यंशमपहाय क्रियायाः कार्यत्वान्वयोपपत्तौ किमुपस्थित्यन्तरार्थं लक्षणयेति वाच्यम्। यत इतरधर्मिगतत्वेनोपस्थितस्य कार्यत्वस्य न धर्म्यन्तराकाङ्क्षाऽस्ति, येन तदितरधर्म्यन्वयो ज्ञायेत, तथा च स्वतन्त्रकार्यत्वोपस्थि- तये लक्षणा युक्ता । मैवम्। कार्यत्वमात्रशक्तस्य लिङ्पदस्यापूर्व्वलक्षणयैवोपपत्तौ तत्र शक्तौ मानाभावात्। न चापूर्वं शक्यकार्यत्वसम्बन्धितया न ज्ञातमिति न तत्र लक्षणेति युक्तम्। यथा हि शक्तिपक्षे कार्यत्वेन रूपेण घटादावेव लिङः शक्तिग्रहः कार्यमिति ततः स्मृतिश्चानुभवदशायां च योग्यतावशात् घटादिकं विहायापूर्वं भासते, तथा लक्षणायामपि लिङ्वाच्यं कार्यत्वं कार्यघटादिसम्बन्धितया ज्ञातं कार्यं घटादि स्मारयतु, योग्यतावशाच्चापूर्वमनुभवे भासताम्, कार्यस्मरणं हि अन्विताभिधानोपयोगि न त्वपूर्व- स्मरणम्, तच्च पदेन पदार्थेन वेति न कश्चिद्विशेषः। न च लिङो लाक्षणिकत्वेनापूर्व्वानुभवप्रसङ्गः, लाक्षणिकपदस्यानुभावकत्वादिति युक्तम्। त्वन्मये इतरान्वितस्वार्थशक्तस्य यजिपदस्यैवेतरदपूर्व- मादायानुभावकत्वात्, अन्यथा तीरादेरप्यननुभवापत्तिः। अथेतररोपलक्षितस्वार्थान्वयमात्रे पदानां शक्तिर्न तु इतरत्रापि, गौरवात्, पदान्तरलभ्यत्वाच्च। न च तीरादिप्रतिबन्धिः, तत्र हि तीरोपसङ्क्षितान्वयशालिस्वार्थान्वयानुभावकत्वं वसतत्यादिपदस्य, तीरस्य तु संस्कारादुपस्थितिः, प्रकृते चापूर्व्वस्य संस्काराविषयत्वादिति चेत् । न। मञ्चाः क्रोशन्तीत्यत्र मञ्चस्थाः पुरुषाः क्रोशन्तीत्यवगम्यते, न च मञ्चस्थः पुरुषः प्रागनुभूतो येन तीरमिव प्रकाशिका। तच्च पदेन पदार्थेन वेति। एतच्च लक्षणास्थाने पदार्थस्य शक्यस्य लक्ष्योपस्थापकत्वमिति मतमाश्रित्य, वस्तुतः पदस्यैव लक्ष्योपस्थापकत्वमिति साक्षात्सम्बन्धेन परम्परासम्बन्धेन वेति विकल्पार्थो द्रष्टव्यः । न चैतादृशं बोधयति चिकीर्षाजनकस्यैव बोधकस्याकाङ्क्षितत्वात् , एतस्य चातथात्वात् , न ह्येतेनापूर्वगोचरा चिकीर्षा तद्विशेष्यकत्वात्, नापि यागविशेष्यिका तत्र कार्यत्वसम्बन्धानवगाहनात् । मकरन्दः। कार्यत्वमात्रमित्युपलक्षणं, न क्रियासाधारणं कार्य्यमात्रमभेदश्वान्वयः, न हि यद्यनुपपानु- पपत्त्या यत्कल्पनं तदेव तस्य विषय इत्यभ्युपगमादित्यपि द्रष्टव्यम् । कार्यमात्रशक्तस्येति । न च स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणेति नियम इति वाच्यम् । अप्रयोजकत्वात् । अत एव नीलादिपदस्य तद्वति लक्षणाऽभ्युपगम इति भावः । अधिकं शब्दप्रकाशे द्रष्टव्यम् ।

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक) · पृष्ठ 579, कुल 608 में से · BharatKosha