भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 585, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 585

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५५३ कल्प्यताम् । व्यापारद्वारा कथञ्चित् स्यात् , न तु भिन्नकालयोर्व्यापारव्यापारि- भावः । कारणत्वञ्च व्यापारेण युज्यते । अव्यवधानेन पूर्व्वकालनियमश्‍च तत्त्वम् । अन्यथाऽतिप्रसङ्गादिति चेत् । न, पूर्व्वभावनियममात्रस्य कारणत्वात् । कार्य्या- नुगुणावान्तरकार्य्यस्यैव व्यापारत्वात् , कृषिचिकित्सा दौ बहुलं तथा व्यवहारात् । लाक्षणिकोऽसाविति चेत् । न । मुख्यर्थत्वे विरोधाभावात् ॥ प्रकाशः । ननु व्यापारेण तन्निर्वाहो न तज्जननात्, उत्तरवर्त्तित्वेन व्यापारस्य तत्रासामर्थ्यात् । न ज्ञाप- नात् , लिङैव तज्ज्ञापनात् । न च चिरध्वस्तं कारणं व्यापारव्याप्तं, विपक्षे बाधकाभावात्, प्रायश्‍चि- त्तस्य च फलप्रतिबन्धकत्वं स्यात् , तस्मात् पापान्मुच्यते इति फलश्रवणस्य च निषिद्ध- क्रियातः फलभागी न भवतीत्यर्थः । न च सुहृये बाधकाभावः, उपस्थितत्वेन विहितनिषिद्धक्रियाया- मेव धर्माधर्मशक्तिप्रहस्य बाधकत्वात् । मैवम् । चिरध्वस्तस्य व्यापारसत्त्वे कारणत्वमिति निरुपाध्यन्वयव्यतिरेकाभ्यां व्याप्‍त्यवधार- णात् । न चाप्रयोजकत्वं, यागो यदि चिरध्वस्तत्वे सति सव्यापारो न स्यात् , स्वर्गसाधनं न स्याद्व- टवदिति विपक्षबाधकात् । न चात्र कारणताप्राहकाभाव उपाधिः, तेनापि समं व्याप्‍त्यवधारणेन तस्याप्यापादनात् । तथापि देवताप्रीतिर्यागव्यापारोऽस्तु । न च तत्र मानाभावः, यजिधातोः पूजार्थतया तस्याश्‍चा- राध्यप्रीतिहेतुक्रियात्वात् । तथाच यागस्य देवताप्रीतिसाधनत्वेन कालान्तरभाविस्वर्गं प्रति तद्द्वारा साधनतोपपत्स्यते, प्रीतेः क्षणिकत्वेऽपि तदनुभवजनितसंस्कारद्वारा तत्सम्भवात् । अत्राहुः—देवतोद्देशेन द्रव्यत्यागेन देवताप्रीतिर्जन्यते इत्यत्र मानाभावः, यज देवपूजायामिति शाब्दिकस्मृतिः, स्मृतित्वादेव न स्वतः प्रमाणम् । तन्मूलञ्च मानान्तरं नास्त्येव । न वा स्वर्गस्य प्रीतदेवतासाध्यत्वे मानम् । वस्तुतो लाघवात् कर्तृगतफलावसानिकव्यापारस्य कल्पनान्न देवताप्री- तिर्व्यापारः । न च स्वर्गभागिदेहान्तरमेव तद्व्यापारः, प्रलये विच्छेदेऽपि तद्व्यापारानुवृत्तेः, शरी- रस्य च कार्य्यद्रव्यतया अभावात् , नापि ध्वंस एव तद्व्यापारः, तस्यानन्त्येऽपि स्वभावात् सावधि- फलजनकत्वमिति वाच्यम् । प्रतियोगिध्वंसयोरेकत्राजनकत्वादिति संक्षेपः । शङ्कते व्यापारेति । न च प्रकृते तथेति शेषः । कारणस्यावान्तरव्यापरयोगः, यागश्‍च न स्वर्गकरणं, कार्य्याव्यवहितप्राक्कालसत्त्वस्य कारणत्वादित्यर्थः । अत्राव्यवहितत्वमतन्त्रं गौरवात् । अतएव न सहभावेन कारणत्वम् । न च विनश्यदवस्थसमवायिनः कारणत्वापत्तिः, तावता समवा- यिकारणस्यैव तथात्वादिति परिहरति पूर्व्वभावेति । कार्य्येति । यज्जन्यं सञ्जन्यजनकं, स एव तस्य व्यापार इत्यर्थः । कृषीति । यथा माघमासीयभूकर्षणस्य पाकपरम्पराव्यापारद्वारा हेमन्त- प्रकाशिका । प्रायश्‍चित्तस्य चेति । निषिद्धक्रियासमानकालीनप्रायश्‍चित्तादिप्रागभावस्याव्यवधानेन जनकत्वा- दिति भावः । कारणमित्यनुषञ्जनीयम् । विकल्पत्वेऽस्य पृथक् दूषणं न्यूनत्वापत्तिः, प्रयत्‍नादेः शब्द- धर्मत्वाभावाद्विरोधश्‍चेति भावः । मकरन्दः । अशक्यत्वादित्युपलक्षणम्—अलभ्यत्वाच्चेत्यपि द्रष्टव्यम् । शब्दानुपस्थितस्येति । वृत्त्येति शेषः । नन्वेवमपूर्व्वानभ्युपगमे प्रायश्‍चित्तविधिवैफल्यमित्यत आह प्रायश्‍चित्तस्य च फल- प्रतिबन्धकत्वं स्यादिति । ७० न्या० कु०