भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

५०४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां

त्वावधारणात्। क्रियाविशेषविश्रान्तोऽयमर्थो, न तु तन्मात्रगोचरः। चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत्। अथ केयं चेष्टा नाम?। यदि प्रयत्नवदात्मसंयोगाऽ- समवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम्। तन्न। तस्यैव तत्रानुपाधित्वात्। अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम्। तन्न। विषभक्षणो- द्वन्धनाद्युद्वापनाद् इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत्। कर्त्तारं प्रत्यन्यं वा?। उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः। भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च। शरीरसमवायिक्रियात्वं तदिति चेन्न। मृतशरीर- क्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः। जीवत इति चेन्न। नेत्रस्पन्दादेश्चेतनाधिष्ठा-

·प्रकाशः। निराकार्यं चेष्टात्वमुपाधिमाह क्रियाविशेषेति। तस्यैवेति। प्रयत्नवदात्मसंयोगाऽसमवायि- कारणकत्वे हि परमाणुक्रियायां चेतनायोजितत्वमिति साध्यम्, तच्च नोपाधिः, साधनव्यापक- त्वादित्यर्थः। विषेति। विषभक्षणादिक्रियाया अहितमरणादिप्रापकत्वादित्यर्थः। इष्टेति। विष- भक्षणानुकूलक्रियाया अपि इच्छाविषयविषभक्षणादिप्रापकत्वमस्त्येव, इच्छां विना तत्र प्रवृत्त्य- भावादित्यर्थः। उभयथाऽपीति। परमाण्वादिक्रियायास्तत्कर्तुरीश्वरस्याऽस्मदादेश्चेच्छाविषयार्थ- हेतुत्वादित्यर्थः। तथाच साधनव्यापकत्वादद्यनुपाधित्वमिति भावः। साध्याव्यापकत्वमप्याह भ्रान्तेति। भ्रमप्रवृत्तस्पन्दस्येष्टरजता प्रापकत्वादनिष्टशुक्त्यपरी- हारकत्वाच्च तत्र साध्याव्यापकत्वादित्यर्थः। न च रजतत्वेनेच्छाविषयस्य शुक्तेः प्रापकत्वमस्त्येवे- ति वाच्यम्। येन रूपेणेष्टं तद्रूपेण प्राप्तेर्विवक्षितत्वादिति भावः। मृतेति। वाय्वाऽऽदिना।

प्रकाशिका। लीनेति। अत एवाह विशेषणीभूतेति। अत एव चेष्टात्वस्योपाधित्वशङ्कापीति भावः। साधनव्यापकत्वादीति। प्रयत्न जन्यत्वञ्चेत्, तत् कर्ममात्रे -तदा तदाश्रयसंयोगासमवायि- कारणकत्वमपि तत्र यः स्पन्द इत्यादिप्रव्याप्तेरिति भावः। साध्याव्याप्तेरिति। तन्मत इति शेषः। इदमपीत्युपलक्षणम् त्वन्मतेनेत्यपि द्रष्टव्यम् मन्मते तत्र साध्यसत्त्वात्। त्वन्मत इति। स्पर्शव- दद्रव्यान्र्तराप्रयुक्तक्रियार्थवत्त्वमेवोपाधिरित्यत्र दूषणमिदम्। यदि तु शरीरसमवायित्वस्य विशे- षणमिदं तदा मूलोक्तान्योन्याश्रय एव दूषणम्। ननु साक्षात्परम्परया वेति। न समुच्चयः एक त्र्रोभयाधिष्ठानाभावात्। प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति।

मकरन्दः। णोभूतेति। अत एवं चेष्टात्वस्योपाधित्वशङ्काऽपीति भावः। साधनव्यापकत्वादिति। न च कर्म्ममात्रस्य तत्प्रयत्नजन्यत्वेऽपि तत्संयोगसमवायिकारणत्वे मानाभाव इति वाच्यम्। यः स्पन्द इत्यादिप्रागुक्तन्यासेस्तथात्वादिति भावः। मृतशरीरे क्रियैव कथमित्यत आह वाय्वादिनेति। तन्नोदनादिनेति भावः। इदमपीत्युपलक्षणं, त्वन्मतेनेत्यपि द्रष्टव्यम्। मन्मते तत एव साध्यापत्तेरि- ष्टत्वात् त्वन्मत इति। यद्यपि सत्यन्तं शरीरगर्भमुपाधिविशेषणमिति ज्वलनक्रियायां तदभावादन्नो- क्तिसम्भवाभावस्तथापि तद्गर्भतायामिदं, तद्गर्भत्वेऽन्योन्याश्रय इति विकल्प्य दूषणे तात्पर्य्यम्। ननु साक्षात् परम्परया वेति न समुच्चयः, एकत्रोभयथाऽधिष्ठानाभावात्, प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिवद्धपतनमिति। एतेन मूले व्यर्थविशेषणमपि सूचितम्।

टिप्पणी। व्यवहारवदित्यनेनाप्यनुमानेनेश्वरः सिध्यति, अत्रापि कार्यत्वादेव निरूपाधित्वम्।

पञ्चमस्तबके ] ईश्वरसाधनम् । ५०५ नाभ्युपगमप्रसङ्गात् । स्पर्शवद्द्रव्यान्तराप्रयोगे सतीतिचेन्न । ज्वलनपवनादौ तथा- भावाभ्युपगमापत्तेः । शरीरस्य स्पर्शवद्द्रव्यान्तराप्रयुक्तस्येति चेन्न । चेष्टयैव शरीरस्य लक्ष्यमाणत्वात् । सामान्यविशेषश्चेष्टातृत्वं, यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेन्न । क्रियामात्रेणैव तदुन्नयनात् । भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्, तर्हि तद्विश्रान्तत्वमेव तस्य । न चैतावत्तैव क्रियामात्रं प्रत्यचेतनमात्रस्य चेतना- धिष्ठानेन व्याप्तिरपसार्यते । विशेषस्य विशेषं प्रति प्रयोजकतया सामान्यव्याप्तिं प्रत्यविरोधकत्वात् । अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् ॥ एतेनाऽशरीरत्त्वादिना सत्प्रतिपक्षत्वमपास्तम् । अत्राप्यागमसंवादः— यदा स देवो जागर्त्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥ मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ॥ इत्यादि ॥ अत्र जागरस्वप्नौ सहकारिलाभालाभौ । ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वञ्च हेतू दर्शितौ परमाण्वादिसाधारणौ । स्वर्गश्वभ्रे चेष्टानिष्ठोपलक्षणे । एतदेव सर्वा- धिष्ठानमुत्तरत्र विभाव्यते-मयेत्यादिना । न केवलं प्रेरणायामहमधिष्ठाता, अपितु प्रतिरोधेऽपि । यो हि यत्र प्रभवति, स तस्य प्रेरणावद्धारणेऽपि समर्थः । यथाऽ- र्वाचीनः शरीरप्राणप्रेरणधारणयोरिति दर्शितं तपामीत्यादिना ॥ ४ ॥ प्रकाशः । मृतशरीरक्रियायां साध्याव्याप्तिरित्यर्थः । एतच्च समव्याप्तोपाध्यभिप्रायेण । मृतेत्युपलक्षणं, जीवशरीरस्याऽपि वायुवशात् क्रियायां तथात्वमिति भावः । विषमव्याप्तोपाधिपक्षे तु शरीरावयव- क्रियायां साध्याव्यापकत्वं मन्तव्यम् । नचेति । इदमपि दूषणं समव्याप्तोपाधिपक्षे । विषमव्याप्तौ तु करादिक्रियायां साध्याव्यापकम् । स्पर्शवदिति । नेत्रादिस्पन्दनन्तु स्पर्शवद्वायुनोदनजन्यमिति नोक्तदोष इत्यर्थः । ज्वलनेति । तन्मते ज्वलनादिक्रिया न प्रयत्नजन्या, किन्त्वदृष्टवदात्मसंयो- गजन्येत्यतस्तत्रापि समव्याप्तोपाधिपक्षे साध्यापत्तिरित्यर्थः । चेष्टयैवेति । चेष्टाश्रयः शरीरमिति लक्षणपक्षेऽन्योन्याऽऽश्रय इत्यर्थः । लक्षणान्तरे तु करादिक्रियायां साध्याव्याप्तिरिति भावः । सामान्येति । अतो नोक्तदोष इति भावः । तत्र मानमाह यत इति । क्रियामात्रेणेति । क्रियामात्रस्यैव मया प्रयत्नजन्यत्वानुमापकत्वाङ्गीकारादिति न तेनैषा जातिः सिद्ध्यतीत्यर्थः । विशेषस्येति । क्रियाप्रयत्नयोः सामान्यतः कार्यकारणभावनिश्चये साध्याऽव्यापकत्वमावश्यकमिति भावः । यद्वा प्रयत्नवदात्मसंयोगजसंयोग एव साध्याव्यापकत्वमिति भावः । ननु परमाणवो न चेतनाधिष्ठिताः प्रवर्त्तन्ते शरीरेतरत्वादिति सत्प्रतिपक्षता स्यादित्यत आह—एतेनेति । शरीरेतरक्रियायाश्चेष्टात्वाभावाद्वोक्तृप्रयत्नजन्यत्वं निवर्त्तते, क्रियामात्रे तु प्रयत्न- जन्यत्वं स्यादेवेत्यर्थः । 'यदा स देव' इत्यादिपरकीयविचारे आगमविरोधप्रदर्शनम् । अध्यक्षेण प्रकाशिका । तत्साध्येऽन्तर्भावयतीति सामान्योपादानेनायमपि विशेषः संगृहीत इति द्योतयतीत्यर्थः । ६४ न्या० कु०

५०६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां धृतेः खल्वपि। क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यऽपतनधर्मकत्वाद् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवच्च। एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्या- ताः। सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः-आत्मैवेदं सर्वमिति। यथैक एव मायावी अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि। अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत्। तद्भावेऽपि प्रयत्नस्यान्वयव्य- तिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात्। कारणैकदेशस्य च कार- णान्तरं प्रत्यनुपाधित्वात्, उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात्। शरीरस्थिति- रेवं नत्वन्यस्थिति रितिचेत्। न। प्राणेन्द्रिययोः स्थितेर्व्यापनात्, प्राङ्न्यायेना- पास्तत्वाच्च। अत्राप्यागमः-'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ- विधृते तिष्ठतः' इति। प्रशासनं-दण्डभूतः प्रयत्नः। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः॥ इति स्मृतिः। अत्रोत्तमत्वमसं- सारित्वं सर्वज्ञत्वादि च। परत्वं सर्वोपास्यता। लोकत्रयमिति सर्वोपलक्षणम्। आवेशो ज्ञानचिकीर्षाप्रयत्नवतः संयोगः। भरणं धारणम्। अव्ययत्वमागन्तुक- विशेषगुणशून्यत्वम्। ऐश्वर्यं संकल्पाप्रतिघातः इति। एतेन कूर्मादिविषया अप्या- गमा व्याख्याताः। प्रकाशः। अधिष्ठात्रा प्रकृतिः परमाणुः। क्षित्यादीति। क्षित्यादिकं प्रयत्नप्रतिबद्धपतनं(१) गुरुत्वे सत्यपातित्वादित्यर्थः। विहंगादिसंयुक्तद्रव्यान्तरेण व्यभिचारनिरासाय तत् साध्येऽन्तर्भावयति साक्षात् परम्परया वेति। तत्र दृष्टान्तमाह तत्संयुक्तेति। एतेन धारकप्रयत्नधृतत्व- व्युत्पादनेन। व्याख्याताः, मुख्यार्थतयेति शेषः। नन्विन्द्रादिदेवताभेदप्रतिपादकागमस्य मुख्यार्थतायामभेदप्रतिपादकागमविरोध इत्यत आह सर्वावेशेति। आवेशो ज्ञानादिमत्संयोग- इति वक्ष्यते। तद्भावेऽपीति। पतनप्रतिबन्धकसंयोगभेदः स्थितिः। अत एव वायुसंयोगाद- प्रकाशिका। तत्र दृष्टान्तमिति। तद्विशेषपुरस्कारेण सामान्यदृष्टान्तमित्यर्थः। शेष इति। तल्लोक- धारकप्रयत्नाश्रयतया तेषां परस्परमन्त्राच्च भेदसिद्धावद्वैतनिरासे मुख्यार्था एवेन्द्रादिदेवताभेदप्रति- पादकागमा इत्यर्थः। आवेश इति। ज्ञानादिमत्ता ईश्वरेण संयोगः सम्बन्धः साक्षात्परम्परासाधारणः यथाश्रुते व्यापकेऽव्याप्तेः। अत एवेति। अन्वयव्यतिरेकाभ्यां स्थितिं प्रति प्रयत्नस्य हेतुत्वादेवेत्यर्थः। अदृष्टद्वाराऽस्मदादिनाश्रयत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति। स्वजनकप्रयत्नेन समानका- मकरन्दः। मुख्यार्थतयेति शेष इति। धारकप्रयत्नात्तदाश्रयाच्च भेदसिद्धावद्वैतनिरासे इन्द्रादिदेवतानां पर- स्परभेदप्रतिपादकागमा मुख्यार्था एवेत्यर्थः। आवेश इति। ज्ञानादिमता ईश्वरेण संयोगः सम्बन्धः साक्षात्परम्परासाधारण इत्यर्थः। वक्ष्यते इति। यो लोकत्रयमाविश्येत्यत्रावेशपदव्यख्यानावसरे मूल एव। अत एवेति। प्रयत्नान्वयव्यतिरेकानुविधानेन स्थितिं प्रति तद्धेतुत्वादेवेत्यर्थः। नन्वदृष्ट- द्वारा अस्मदादिनाश्रयत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति। स्वजनकप्रयत्नेन समानकालीनं (१) प्रयत्नप्रतिरुद्धेति प्रकाशिकाभिमतः पाठः।

संहरणात् खल्वपि । ब्रह्माण्डादिद्व्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विना- श्यत्वात् पाठ्यमानपटवत् । अत्राप्यागमः— एष सर्वाणि भूतानि समभिव्याप्य मूर्त्तिभिः । जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत् ॥ सर्वभूतानि कौन्तेय ! प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ इत्यादि । एतेन रौद्रमंशं प्रतिपादयन्तोऽप्यागमा व्याख्याताः । पदात् खल्वपि— कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः । विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत् ॥ ५ ॥ प्रकाशः। काशपत्रस्थितिवत् सा स्यादित्यपास्तम् । अनुपाधित्वादिति । साधनव्यापकत्वादित्यर्थः । प्राङ्न्यायेन, विशेषश्च विशेषवानिति न्यायेनेत्यर्थः । किमिदं शरीरत्वं यत्साक्षात् प्रयत्नाधिष्ठितत्वे परमाणूनां प्रसज्यते इत्यादिना वेत्यर्थः । धृत्यादेरित्यादिपदसंग्राह्यमाह संहरणादिति । ब्रह्माण्डादीति । ब्रह्माण्डादिकं स्वजनकप्रयत्नसमानकालीनचरमकारणनाशप्रतियोगीति साध्यार्थः । सर्वभूतानीति । परमाणुमात्रावशिष्टानीत्यर्थः । ननु नाशविशेष एव प्रयत्नपूर्वोकोऽन्यस्त्वन्यथाऽपि भविष्यतीत्याशङ्क्य वृत्तसमाधानं कुर्वाण एव ग्रन्थलाघवाय वर्त्तिष्यमाणेऽप्यऽतिदिशति— कार्यत्वादिति । यथा धृतिविनाशयोः कार्यकारणभावो विपक्षे बाधको निरुपाधित्वग्राहकः । तथा पदस्याऽपि स एव तद्ग्राहक इत्यर्थः । न चादिमत्त्वमुपाधिः । प्रलये विच्छेदादनादित्वाभावेन साधनव्यापकत्वादित्याह विच्छेदेनेति । प्रत्ययादिहेतुष्वपि पूर्ववत् कार्यकारणभाव एव विपक्षबाधक इत्यर्थः । प्रकाशिका । लीनं चरमकारणं यस्यैवंभूतो योः नाशः तत्प्रतियोगीत्यर्थः। स्वपदं ध्वंसपरं, साध्यप्रसिद्धिरूहास्मदा- दिप्रयत्ने, तन्नाशचरमकारणस्य तद्गोचरसाक्षात्कारस्य विषयीभूतप्रयत्नसमानकालत्वात् तस्य च प्रयत्नस्य प्रतियोगिता नाशकारणत्वात् संसारिप्रयत्नसमानकालीनं कालादिकमादायार्थान्तरं तत्प्र- यत्नस्यापि अदृष्टद्वारा नाशकत्वादिति । चरमेति । कालादिसमानकालीनं चरमकारणमादायार्थान्तर- मिति प्रयत्नेति । उदासीनप्रयत्नसिद्धावप्रयोजकत्वमिति जनकेति । पाठादिश्च पक्षसम एवेति मकरन्दः। चरमकारणं यस्य नाशस्य तत्प्रतियोगीत्यर्थः । अदृष्टद्वारकप्रयत्नस्यापि कालादिकारणसमानकाली- नतयाऽर्थान्तरतादवस्थ्यमत उक्तं चरमेति । कालीनादिसमानकालीनत्वमादायार्थान्तरत्वमत आ- ह प्रयत्नेति । उदासीनप्रयत्नसिद्धावर्थान्तरमत उक्तं स्वजनकेति । केचित्तु उदासीनसिद्धावप्र- योजकत्वमिति विपक्षबाधकसूचनाय तदित्याहुः । स्वपदं चरमकारणपरं ध्वंसपरं वा । न चैवं टिप्पणी ननु व्यवहारस्यानादित्वात्पूर्वपूर्वकुलालादिप्रयुक्त एव सर्वो व्यवहारः सेत्स्यतीति किमीश्वरेणेत्यत आह विच्छेदेनेति । प्रलये विच्छेदेन व्यवहारस्य नानादित्वम् । एवं वक्ष्यमाणवेदजन्यधीप्रामा- ण्य्यरूपप्रत्ययादिहेतोः आदिपदग्राह्यवक्ष्यमाणश्रुतिसंख्याविशेषयोरपि पूर्ववत् कार्यत्वादेव निरुपा- धित्वम्, अनुकूलतर्कवत्त्वं बोध्यम् ।

५०८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकान्याख्यायां पदशब्देनात्र पद्यते गम्यते व्यवहारोऽङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते। अतोऽपीश्वरसिद्धिः। तथाहि-यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दाऽऽदीनां, वाग्व्यवहारश्च व्यक्तवाचां, लिपिशक्तक्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरु- षविश्रान्तो व्यवहारत्वात्, निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्र- मैत्रादिपदवत्, पत्राक्षरवत्, पाणिनोयवर्णानिर्देशक्रमवच्चेति। आदिमान् व्यवहार एवम्, अनन्तवनादिरन्यथाऽपि भविष्यतीति चेन्न। तद- सिद्धेः। आदिमत्तामेव साधयितुमयमारम्भः। न चैवं संसारस्यानादित्वभङ्गप्र- सङ्गः। तथापि तस्याविरोधात्। न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्य- नादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोऽप्यादिमानिति। अस्मदवर्- गदर्शी कश्चिदेवात्र मूलमिति चेन्न। तेनाऽशक्यत्वात्, कल्पादावादर्शाभासस्या- प्यसिद्धेः। साधितौ च सर्गप्रलयौ। ननु व्यवहारयितुर्वृद्धः शरीरी समधिगतो, न च ईश्वरस्तथा, तत्कथमेवं स्यात्। न। शरीरान्वयव्यतिरेकाऽनुविधायिनि कार्ये तस्यापितद्वत्त्वात्। गृह्णाति हि ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति। अत्राप्यागमः- पिताऽहमस्य जगतो माता धाता पितामहः। तथा, यदि ह्यहं न वर्त्तेयं जातु कर्मण्यतन्द्रितः। मम वर्त्मानुवर्त्तन्ते मनुष्याः पार्थ सर्वशः॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्॥ इति॥ एतेन 'नमः कुलालेभ्यः कर्मारेभ्य' इत्यादि यजूंषि चोद्धव्यानि। प्रकाशः। व्यक्तवाचो मनुष्याः। स्वतन्त्रेति। तज्जातीयव्यवहारानुपजीवित्वं पुरुषस्य स्वातन्त्र्यम्। साध्येषु क्रमेण दृष्टान्ताः-निपुणेत्यादि। आदिमानिति। सादिव्यवहारत्वमुपाधिरित्यर्थः। अन्यथाऽपीति। स्वतन्त्रपुरुषं विनाऽपीत्यर्थः। तथापीति। पूर्वपूर्वसर्गेऽपि तज्जातीयव्यवहार- स्येश्वरपूर्वकत्वादित्यनादित्वं न विरुद्ध्यते इत्यर्थः। इदानीन्तनापूर्वव्यवहारस्य सादित्वेऽपि न भवस्यानादित्वं हीयते इत्याह न हीति। तदनादित्वे इत्यत्रापि न हीत्यनुषज्यते। आदर्शेति। यद्व्यवहारं दृष्ट्वा व्यवह्रियते, सोऽपि नास्तीत्यर्थः। शरीरान्वयेति। ईश्वरस्यादृष्टाभावेऽपि तच्छरीरसाध्यहेतुकास्मदादिभोगसम्पादकाऽदृष्टादेवेश्वरस्य शरीरोत्पत्तिरिति भावः। पिताऽहम- स्येति। अस्य जगतोऽहमेव पित्रादिरित्यर्थः। यदि ह्याहमिति। यदि ह्यहं न वर्त्तेयं तदा लोक्यन्ते इति लोकाः प्रामाणिकव्यवहारा उत्सीदेयुरिति व्यवहितेनान्वयः। अत्र हेतुः-मम वर्त्मेति। एतेन-घटादिव्यवहारस्य स्वतन्त्रपुरुषपूर्वकत्वव्युत्पादनेन। कुलालादिदेहवत ईश्नरस्य तथाभावादित्यर्थः। प्रकाशिका। न तेन व्यभिचारः। पित्रादिरिति। व्यवहारपितृत्वादिति भावः। मूले कारणपदं व्यर्थं अदृष्टादिजत्व- मकरन्दः। साध्याप्रसिद्धिः, अस्मदादिप्रयत्नस्यैव दृष्टान्तत्वात्। तन्नाशचरमकारणस्य स्वविषयकसाक्षात्कारस्य स्वजनकप्रयत्नेन विषयीभूतेन समानकालत्वात्। यत्ध्वंसकारणयत्नसमानकालीनस्वसाक्षात्कारहेतुक- नाशप्रतियोगित्वाच्च। घटादिश्च पक्षसम इति न तेषु व्यभिचारः। पित्रादिरिति। व्यवहारयितृत्वादिति भावः। ननु मूले कारणपदवैयर्थ्यं, अदृष्टादिजन्यत्वमा-

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५०९ प्रत्ययोऽपि । प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते । तथाच प्रयोगः-आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात्, प्रत्यक्षादिवत् । न हि प्रामाण्यप्रत्ययं विना कचित् समाश्वासः । न चाऽसिद्धस्य प्रामाण्यस्य प्रतीतिः । न च स्वतः प्रामाण्यमित्यावेदितम् । न च नेदं प्रमाणं, महाजनपरिग्रहा- दित्युक्तम् । न चासर्वज्ञो धर्माधर्मयोः स्वातन्त्र्येण प्रभवति । न चासर्वज्ञस्य गुण- वत्तेति निश्शङ्कमेतत् । श्रुतेः खल्वपि । तथाहि-सर्वज्ञप्रणीता वेदाः, वेदत्वात् । यत् पुनर्न सर्वज्ञप्र- णीतं, नाऽसौ वेदो यथेतरवाक्यम् । -प्रकाशः। प्रत्ययपदं समाश्वासशक्तं तत्सम्बन्धि तद्विषयं प्रामाण्यं लक्षयतीत्याह— प्रत्ययशब्देनेति। तथा चेति। आगमस्य सम्प्रदायः प्रवाहः प्रमात्वप्रयोजकवाक्यार्थ- प्रमाणरूपगुणजन्यो यथार्थचिख्यापयिषादिवक्तृगुणजन्यो वा प्रमाणशब्दत्वात् लौकिकप्रमा- णशब्दवदित्यर्थः । लक्षणाबीजं सम्बन्धमाह न हीति । न च प्रमाणत्वमसिद्धं, प्रामाण्याज्ञाने पारलौकिके कर्मणि वेदोद्बोधिते प्रेक्षावतां प्रवृत्त्यनुपपत्तेरित्याह । न चेति । तथापि तेन वक्तृगुण- पूर्वकेणैव भाव्यमित्यसिद्धमित्यत आह न च स्वत इति । तथापि वक्तुः सर्वज्ञत्वं कुतः सिद्धय- तीत्याह न चेति । तथाहीति । यद्यपि परैः सर्वज्ञानङ्गीकारात्तत्प्रणीतत्वं परं प्रत्यसिद्धं, तथाप्यात्मत्वमसंसारिवृत्ति जातित्वात् घटत्ववत् । स चासंसारी किञ्चिद्वाक्यप्रयोक्ता पुरुषत्वादिति साध्यप्रसिद्धौ, वेदा असंसारिपुरुषप्रणीता इति साध्यम् । न चास्मदाद्युच्चरिते वेदे व्यभिचारः। प्रकाशिका । मादायर्थान्तरं मनसि अभिचारश्चेत्यन्यथा माचष्टे प्रमात्वप्रयोजकेति । एतच्च विपक्षबाधक- सूचनाय न साध्यप्रविष्टमत एवाग्रिमसाध्ये तन्नोपात्तम् । अध्यापकादिप्रमामादायर्थान्तरमिति साध्या- न्तरमाह यथार्थेति। न चात्रापि तद्दोषतादवस्थ्यं वक्तृपदस्य स्वतन्त्रवक्तृपरत्वात् । तथाप्यात्मत्व- मिति । न च सुखसमवायिकारणतावच्छेदकजातौ व्यभिचारः । नित्यस्येत्यादिन्यायेनेरन्भ्युपगमेन तस्यात्रैव पक्षत्वात् । न चाप्रयोजकत्वमन्यथा सुखित्वमसंसारिवृत्तिसुखित्वव्यापकत्वादित्यपि स्यादिति वाच्यम् । ईश्वरप्रतिपादकागमस्यात्र विपक्षबाधकत्वात् तत्र च तदभावादिति भावः । न चास्मदा- दीति । तत्प्रणीतत्वं तत्कण्ठतलत्वाद्यभिघातजन्यत्वमित्याशयेन व्यभिचारोद्भावनमिदम् , अन्यथास्म- मकरन्दः । दायार्थान्तरं, मनसि व्यभिचारश्चेत्यन्यथा व्याचष्टे प्रमात्वप्रयोजकेति । एतच्च विपक्षबाधक- सूचनाय, न तु साध्ये प्रविष्टम् , अत एवाग्रिमसाध्ये नोपात्तम् । अध्यापकत्वमादायर्थान्तरमित्य- रुचेराह यथार्थेति । न चात्रापि दोषतादवस्थ्यम्, अस्मदादेरनुवक्तृतया वक्तृत्वाभावात् , स्वतन्त्रवक्तृपरत्वाद्वा । न चाप्रयोजकत्वम्, अन्यथा दुःखित्वमसंसारिवृत्ति धर्मत्वादित्यादिकमपि स्यादिति वाच्यम् । ईश्वरप्रतिपादकागमादेर्विपक्षबाधकस्य सत्त्वात्तत्र च तदभावात् । न चास्मदादीति । ननु तस्य पक्षत्वात् पक्षसमत्वाद्वा कथं तत्र व्यभिचारः, अन्यथा वेदज्ञानाजन्यत्यादिसिद्धान्ते का गतिः, यदि चाजन्यज्ञानमादाय तत्र साध्यसत्त्वमिति व्यतिरेकित्वमविकलं, तदाश्रयपुरुष- मादाय प्रकृतेऽपि तथेति तुल्यमिति चेत् । न । असंसारिपुरुषप्रणीतत्वं तत्कण्ठतालवाद्युच्चरितत्वम- भिप्रेत्य व्यभिचारदर्शनात् । एतदभिप्रायेणैव मूले मन्वादिवाक्ये व्यभिचारोद्भावनम् , अन्यथा

५१० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां ननु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् , अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः, मन्वादिवाक्ये गतत्वेन विरोधाच्चेति चेन्न । अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् । न ह्यस्मदादीनां प्रत्यक्षादि मूलम् । भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् । नापि परम्परैव मूलं, महाप्रलये विच्छेदादित्युक्तम् ।

प्रकाशः । वेदज्ञानाजन्यज्ञानजन्यत्वस्य साध्यत्वादिति भावः । विरुद्धत्वादिति । प्रतारकवाक्यस्याप्यदृष्ट- विषयत्वादित्यर्थः । मन्वादीति । मन्वादिवाक्यस्याप्यदृष्टविषयप्रमाणत्वादित्यर्थः । अनुपलभ्य- मानेति । मन्वादिवाक्ये च वेदस्यैव मूलान्तरस्योपलभ्यमानत्वादित्यर्थः ॥ ननु वाक्यत्वमसिद्धम् , समुदायस्याप्रतिपादकत्वात् । न च शाखासमुदायो वेदः ।

प्रकाशिका । दुच्चरितवेदस्य पक्षसमत्वेन तदनुपपत्तेः एतदभिप्रायेणैव मूले मन्वादिवाक्ये व्यभिचारोद्भावनं वेद- ज्ञानाजन्येति । वेदज्ञानेतिविशेषणमप्रसिद्धिवारणाय अन्यथा अस्मदाद्युच्चरितवेदस्यापि पक्षसमत्वान्न तेन व्यभिचार इति भावः । न चैवं वेदत्वघटकभूतशब्दत्वस्यैव हेतुत्वमिति व्यर्थविशेषणतेति वाच्यम् । व्यतिरेकव्याप्तावखण्डाभावतया तदभावात् । न चैवं व्यतिरेकव्याप्तौ नीलधूमादित्यपि हेतुः स्यादिति वाच्यम् । इष्टत्वात् अन्वयव्याप्तावेव तस्य हेत्वाभासत्वात् । विशिष्टैकार्थप्रतिपादकत्वं वाक्यत्वं पदधर्मः समुदाये नास्तीत्याशङ्कते ननु वाक्यत्वमिति । ननु समुदितानि पदान्येव समुदायः तत्र च प्रतिपादकत्वमस्त्येव, अन्यथा वाक्यत्वमप्रसिद्धमेव स्यात्, प्रत्येकपदस्य वाक्यत्वाभावात्, समुदायस्य चाप्रतिपादकत्वात् । किञ्चैवं प्रमाणत्वस्य प्रतिपाद- कत्वविशेषतया तद्गर्भसिद्धान्तलक्षणमपि वेदस्यायुक्तं स्यादित्यरुचेः पक्षतावच्छेदकविकल्पमाह

मकरन्दः । तस्यापि सर्वज्ञप्रणीतत्वेन तदभावात् । अन्यथा तु चिन्त्यम् । वेदज्ञानाजन्येति । अप्रसिद्धि- वारणाय वेदज्ञानेति विशेषणम् । अस्मदाद्युच्चरितवेदस्यापि पक्षत्वाज्जन्यज्ञानमादाय साध्यसत्त्वा- त्तन्न न व्यभिचारः । न चैवं वेदत्वहेतुविवेचने व्यर्थविशेषणत्वम् । अखण्डाभावतया व्याप्तिग्रहे तदभावात् । वस्तुतस्तथा सति व्यतिरेकिणि व्यर्थविशेषणत्वं नोद्भाव्येत । न चेष्टापत्तिः, कथक- सम्प्रदायविरोधात् । नीलधूमस्यापि व्यतिरेकतया गमकत्वापत्तेः । यदि च व्यतिरेकसहचारेणा- न्वयव्याप्तिरेव गृह्यते इति मतं, तदा प्रकृतेऽपि तुल्यमिति पूर्वास्वरसादेवान्वयतो वेति कल्पान्तर- मिति । समुदायस्येति । पदवाक्यसमुदायविशेषो वेदः पक्षः, तत्र विशिष्टैकार्थप्रतिपादकत्वरूपस्य वाक्यत्वस्य समुदाये विरहादसिद्धिरित्यर्थः । ननु समुदितानि पदान्येव समुदायः, अतिरिक्तस्या- नभ्युपगमात् । तत्र च प्रतिपादकत्वसत्त्वाद्वाक्यत्वमप्रत्यूहमेव । अन्यथा वाक्यत्वमप्रसिद्धमेव स्यात् । प्रत्येकपदे वाक्यत्वाभावात् । समुदायस्याप्रतिपादकत्वात् । यदि च नैवं, तदा प्रमाण- त्वस्यापि प्रतिपादकगर्भतया तद्गर्भसिद्धान्तलक्षणमपि भज्येतेति चिन्त्यम् । शब्दतदुपजीवीति शब्दप्रकाशे विपश्चितम् । स्मृत्यादाविति । आद्यस्मृत्यादावित्यर्थः । एतदपि तज्जातीयत्वस्याभेद-

टिप्पणी । महाप्रलय इति । अत्राखिलकार्यद्रव्यध्वंसाधारः कालो महाप्रलयो बोध्यः, अयमपि तत्तत्खण्ड- प्रलयापेक्षया महाप्रलय उच्यते, निखिलभावकार्यध्वंसाधारः कालो मुख्यो महाप्रलयस्तु नात्राभिप्रेतः तदनन्तरं सृष्टेरभावात् , स हि क्रमशः सर्वेषु जीवेषु मुक्तेषु भवति तदनन्तरं कस्यचिदप्यदृष्टादि- रूपकारणाभावान्न भवति सृष्टिरित्यवगन्तव्यम् ।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५२१

अन्वयतो वा। वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद्, अस्मदादिवाक्यवत् । अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न। असिद्धेः । अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःस्रुताः । प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते ॥ वेदान्तकृद्वेदविदेव चाहम्, इति स्मृतेः । तस्माद्, 'यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे' इत्यादिश्रुतिपाठकस्मृतेश्च ।

प्रकाशः । तस्य वेदनिरूप्यत्वात् । नापि महाजनानां वेदाकारानुगतव्यवहाराद्वेदत्वं जातिः । देवदत्तीयत्वानुमा- पकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात् । नापि स्वर्गकामादिशब्दः । स्मृत्यादौ तथात्वात् । उच्यते । शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दाजन्य- वाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम् । ईश्वरप्रमाया अजन्यत्वात् । वेदार्थस्यानुमानादिविषयत्वे- ऽप्यनुमानादेर्वेदोषजीवकत्वात् । स्मृत्यादीनां वेदसमानार्थत्वेऽपि शब्दजन्यधीजन्यत्वात् । वेदार्थं प्रतीत्य तत्प्रणयनात् । वाक्यादिति सङ्गृहीतं हेतुं व्याचष्टे । अन्वयतो वेति । ननु किं पौरुषेयत्वम् ? । न तदर्थ- धीजन्यत्वं, तदुच्चारणधीजन्यत्वं वा । अध्यापकतदुभयजन्यत्वेन सिद्धसाधनात् । नापि स्वतन्त्र- पुरुषप्रणीतत्वम् । इदानीं पठ्यमाने वेदे तदभावात् । न च स्वतन्त्रपुरुषप्रणीतजातीयत्वं साध्यम् । आद्यस्मृत्यादौ व्यभिचारात् । तज्जातीयस्य स्वतन्त्रपुरुषप्रणीतत्वाभावात् । नाप्यर्थं प्रतीत्य तदर्थ- परतया प्रतिसन्धीयमानपदत्वं पौरुषेयत्वम् । अर्थज्ञानवताऽध्यापकेन सिद्धसाधनात् । अत्राहुः—सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं पौरुषेयत्वम् । आद्यस्मृतावपि तज्जातीयत्वान्न व्यभिचारः । यद्वा वेदत्वं सजातीयोच्चारणानपेक्षोच्चरितवृत्ति प्रमाणत्वावच्छेदकवाक्यधर्म- त्वात् । स्मृतित्ववत् । यज्ञादिति । यज्ञो विष्णुः । ननु वेदे कर्तृस्मरणमर्थवादतया न मानम्, कार्यान्वितज्ञानज-

प्रकाशिका । न च शाखासमुदाय इति । स्मृत्यादाविति । आद्यस्मृत्यादावित्यर्थः । एतदपि तज्जातीय- त्वस्य भेदगर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यसङ्गतेः । वस्तुत उच्चारणानपेक्षोच्चारणकर्तृत्वमेव स्वात- न्त्र्यमिति पूर्वपक्षिणः तात्पर्यमिति स्मृतिमात्र एतदभाव इति यथाश्रुत एव ग्रन्थः । अत एव सजातीयपदप्रक्षेपेण सिद्धान्त इति बोध्यम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं यद्यनति- रिक्तवृत्तित्वं तदेदानीन्तनवेदत्वे व्यभिचारः, यदि चान्यूनतिरिक्तवृत्तित्वं तदासिद्धिरिति वाच्यम् ।

मकरन्दः । गर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यगतेरिति ध्येयम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं यद्यन्यूनतिरिक्तवृत्तित्वं तदाऽसिद्धिः, अनतिरिक्तवृत्तित्वमात्रञ्चेत्तदा पठ्यमानवेदत्वादौ व्यभिचार इति वाच्यम् । स्वसमानानुपूर्वीकसकलवाक्यवृत्तिधर्मत्वादित्यत्र तात्पर्यात् । न च विशेष्यभागस्यैव व्याप्यत्वं तावन्मात्रञ्च स्वरूपासिद्धमिति वाच्यम् । अखण्डाभाववदखण्डोपाधौ न व्यर्थत्वमिति मतेनोक्तत्वात् । यन्निष्ठा यन्निरूपितेति न्यायात् । अत एव प्रमेयत्वादेः शास्त्रे हेतुत्वेनाभिधानं प्रयोजनाभावान्नान्यत्र विशेषणप्रक्षेपः । अन्यथा अखण्डाभावे का गतिः । तत्रापि प्रतियोगिको- टावनेकविशेषणप्रक्षेपसंभवात् । अत एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्ति सकल- भोगाधिकरणवृत्तित्वादित्यत्र भोगाधिकरणपदं सार्थकम् । यत्तु व्याप्याश्रयसंकोचकविशेषणस्य व्यर्थत्वं यथा नीलधूमे, न तु विकासकस्य, यन्निष्ठा यन्निरूपिता इति न्यायेन तद्विशेषणं विना

५१२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां : अर्थवादमात्रमिदमिति चेन्न । कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् । तथा चास्म- रणे कालिदासादेरस्मरणात् । एवञ्च कुमारसम्भवादेरकत्तृकत्वप्रसङ्गः । अनैका- न्तिकत्वं वा हेतोः । प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेन्न । प्रणेतारं प्रत्यसिद्धेः ।

प्रकाशः । न कस्यैव पदस्य शक्तिग्रहादित्याह अर्थवादेति । 'आदित्यो वै यूप' इत्यादैरर्थवादस्य मुख्यार्थत्वे बाधकादप्रमाणत्वात् , स्तुतिपरत्वेऽपि प्रकृते बाधकानां निरासादविध्यर्थस्याऽपि मुख्यार्थत्वमेव । अन्यथा यन्न दुःखेन सम्भिन्नमित्यादेरपि स्वाऽर्थपरित्यागप्रसङ्गात् । कालिदासस्मरणेऽपि विध्य- भावात् तत्काव्यस्याप्यकत्तृकत्वप्रसङ्गात् । सकर्तृकत्वे वा तत्रैवायं हेतुरनैकान्त इत्याह कर्तृस्मरणस्येति । प्रमाणान्तरेति । वेदा न पौरुषेयाः प्रमाणान्तरागोचरार्थत्वात्, यन्नैवं तन्नैवम् , यथा मन्वादिवाक्यमित्यर्थः । यदि वेदप्रणोतृप्रमाणान्तरागोचरार्थत्वं हेतुः, तदा तत्प्रणेतुरीश्वरस्य प्रत्यक्षगोचरत्वादसिद्धिः । अथ यस्य कस्यापि प्रमाणान्तरागोचरार्थत्वं, तदाऽनैकान्तिकमित्याह

प्रकाशिका । समानानुपूर्वीकसकलवाक्यवृत्तिधर्म्मत्वस्य हेतुत्वात् । न च विशेषमात्रमेव व्याप्यमिति वाच्यम् । स्वसमानाधिकरणानुपूर्वीसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्याखण्डाभावस्य हेतुत्वात् । अत एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्तिसकलभोगाधिकरणवृत्तित्वादित्यत्रापि भोगसमा- नाधिकरणात्यन्ताभावाप्रतियोगित्वहेतुरित्यन्यत्र विस्तरः । आकस्मिकमहेतुकं न च तत्र बीजसम्भव

मकरन्दः । तन्निष्ठव्याप्तेरग्रहात् । प्रकृते च विशेष्यभागस्य न्यूनवृत्तित्वविशिष्टस्याधिकवृत्तित्वमिति तस्य विकाशकत्वमिति । तत् प्रमादविजृम्भितम् । व्याप्याश्रयस्यैवंविकाशेऽपि व्याप्याश्रयविकाशाभावात् तद्घटितोपाधेरेकत्वात् । न च व्याप्याश्रयविकाशस्यापि न व्यर्थत्वं, तत्र यन्निष्टेत्यादिन्यायस्याप्यसम्भवेन मानाभा- वादिति । अन्यथा धूमालोकान्यतरत्वादावपि व्यर्थविशेषणत्वं न स्यात् । आलोकादिपदस्या- योगोलकादिन्याप्याश्रयविकाशत्वात् । आकस्मिकञ्च तत्र बीजञ्चेति व्याहतमत आह दृष्टेति ।

टिप्पणी । अर्थवादमात्रमिति । अर्थवादस्त्रिधा भवति गुणवादोऽनुवादो भूतार्थवादश्च, तदुक्तम्-विरोधे- गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । तत्र प्रमाणान्तर- विरोधे गुणवादः, यथाऽऽदित्यो यूप इत्यादिः, प्रमाणान्तरावगतार्थबोधकोऽनुवादः, यथाऽग्निर्हिमस्य भेषजमित्यादिः, प्रमाणान्तरेण प्राप्तिविरोधयोरभावे भूतार्थवादः, यथा इन्द्रो वृत्राय वज्रमुदय- च्छदित्यादि । प्रणेतारमिति । प्रणेतृप्रमाणान्तरागोचरार्थकत्वस्य हेतुत्वं न संभवति अपौरुषेयत्वं साध्यतां भवतां मीमांसकानां मते वेदे पदे प्रणेतृघटितहेतोरभावादित्यर्थः । यत्किंचित्पुरुषीय- प्रमाणन्तरगोचरार्थकत्वस्य हेतुत्वं दूषयति अन्यं प्रतीति ।

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५१३ अन्यं प्रत्यनैकान्तिकत्वात् । आकस्मिकस्मितबीजसुखानुस्मृतेः कारणविशेषस्यान्यं प्रति प्रमाणान्तरगोचरस्यापि तेनैव चक्षुषा प्रतिपाद्यमानत्वात् । वक्तैव प्रकृते न सम्भवति । हेत्वभावे फलाभावात् । चक्षुरादीनां तत्रासाम- र्थ्यात् । अस्मदादीन्द्रियवत् । मनसो बहिरस्वातन्त्र्यात् । न । चेतनस्य ज्ञानस्ये- न्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् । नित्यनिराक- रणे चासामर्थ्यात् । परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेन्न । द्रष्टारं प्रत्यसिद्धेः । अन्यं प्रति सिद्धसाधनात् । तथापि वाक्यत्वं न प्रमाणम् । अप्रयोजकत्वात् । प्रमाणान्तरगोचरार्थत्व- प्रयुक्तं तत्र पौरुषेयत्वं, न तु वाक्यत्वप्रयुक्तम् । न । सुगताद्यागमा- नामपौरुषेयत्वप्रसङ्गात् । प्रमाणवाक्यस्य सत इति चेन्न । प्रयोतृप्रमाणान्तरगो- चरार्थत्वस्य साध्याऽनुप्रवेशात् । स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम् । अर्थप्र- तीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातन्त्र्यम् । सम्वादिवाक्यस्याऽपौरुषेयत्वप्र- प्रकाशः । प्रयोतारमिति । अनैकान्तिकत्वं स्पष्टयति आकस्मिकेति । दृष्टकारणोपहारं विना जातस्मि- तस्य यद्बीजं सुखानुस्मृतिरूपं कारणं तस्येत्यर्थः । सर्वज्ञो वेदवक्ता न सम्भावनाऽऽस्पदम् , वाक्यार्थज्ञानसामग्रीरहितत्वादित्याह वक्तैवेति । ईश्वरो नातीन्द्रियार्थदर्शी पुरुषत्वात् , तज्ज्ञानं वा नातीन्द्रियविषयं ज्ञानत्वात् , तदिन्द्रियं वा नातीन्द्रियार्थग्राहि इन्द्रियत्वात् , तन्मनो वा नाती- न्द्रिये प्रवर्त्तते मनस्त्वादित्यादयः प्रयोगाः प्रागेव निरस्ता इत्याह चेतनस्येति । अपि च सामग्र्यभावात् कार्यज्ञानाभावेऽपि अकार्यं ज्ञानं न निवर्त्तते इत्याह नित्येति । उपाधिं शङ्कते प्रमाणान्तरेति । अत्र साध्याव्यापकत्वमाह सुगतेति । पक्षधर्मावच्छिन्नसाध्यव्यापकत्वादुपाधित्वं स्यादित्याह प्रमाणेति । प्रयोत्रिति । साध्यादभिन्नत्वे साध्याव्यापकत्वाद् भेदनिबन्धनत्वाच्च व्याप्यव्यापकभावस्येत्यर्थः । प्रमाणान्तरगोचरार्थत्वेन शब्देतरप्रमाणगोचरार्थत्वं विवक्षितं, मानान्तरगोचरार्थत्वं वा, मूलभूतमानान्तरगोचरार्थत्वं वा ? । आद्ये सम्वादीति । द्वितीय- प्रकाशिका । इत्यत आह दृष्टकारणेति । साध्यादभिन्नत्व इति । यद्यपि नात्राभेद उपाधिभेदात् किञ्चापौर- षेयत्वस्य सुगतागमवृत्तित्वादुक्तोपाधेश्च तदवृत्तित्वात् सर्वथा भेद एव, तथापि साध्यसिद्धिपर्यवसित- सिद्धिकत्वाद् वह्न्यादिसामग्रीवदुत्सर्गंतोऽस्यानुपाधित्वमित्यत्र तात्पर्यम् । शब्देतरेति । शब्दतदुप- मकरन्दः । साध्यादभिन्नत्वे इति । यद्यप्यत्र नाभैदः, उपाधिभेदस्य स्फुटत्वात् , किञ्च पौरुषेयत्वस्य सुगतागमादावपि सत्त्वादन्धथा वाक्यत्वस्य तत्र व्यभिचारापत्तेरिदञ्च तद्याप्तमिति सर्वथा भेद एव, तथाप्येतदस्वरसादेव दोषान्तरदानमिति ब्रूमः । अन्यथा तु चिन्त्यम् । शब्देतरेति । शब्दतदुपजीविप्रमाणेतप्रमाणगोचरार्थत्वमित्यर्थः । टिप्पणी परमाण्वादय इत्यादि । अत्रास्मत्सिद्धान्ते परमाण्वादीनामपीश्वरादिप्रत्यक्षविषयतया सामान्यतः प्रत्यक्षविषयत्वाभावस्याप्रसिद्ध्या तेन रूपेण साध्यत्वे साध्याप्रसिद्धिः स्यादतो यत्किंचि- त्प्रत्यक्षविषयत्वाभावः साधनीयः, तथाच यत्किञ्चित्पदेनेश्वरग्रहणे परमाण्वादावीश्वरप्रत्यक्षविषयत्वा- भावो मास्तु प्रत्यक्षसामग्रीरहितत्वमस्त्विति व्यभिचारशंकानिवर्तकानुकूलतर्कशून्यत्वाद्व्याप्यत्वासिद्धिः, यदि च यत्किञ्चत्पदेन जीवो गृह्येत तदा सिद्धसाधनमित्यर्थः । ६५ न्या० कु०

५१४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां

सङ्गाच्च । तदर्थस्य शब्देतरप्रमाणागोचरत्वात् । प्रयुज्यमानवाक्येतरगोचरार्थ- त्वमात्रमिति चेन्न । तस्य वेदेऽपि सत्त्वात् , एकस्याप्यर्थस्य शाखाभेदेन बहुभि- र्वाक्यैः प्रतिपादनात् । अस्त्वेवं, न तु तेषां मिथो मूलमूलीभाव इति चेन्न । उक्तो- त्तरत्वात् । संख्याविशेषात् खल्वपि । द्व्यणुकत्र्यणुके तावत् परिमाणवती द्रव्यत्वात् । तच्च परिमाणं कार्यं कार्यगुणत्वात् । न च तस्य परमाणुपरिमाणं द्व्यणुकपरिमाणं वा कारणम् । नित्यपरिमाणत्वात् , अणुपरिमाणत्वाच्च, अन्यथा अनाश्रयकार्योत्प- त्तिप्रसङ्गात् । द्व्यणुकस्य महत्त्वप्रसङ्गाच्च त्र्यणुकवदण्वारभ्यत्वाविशेषात् । तत्र

प्रकाशः । माशङ्क्य निराकरोति प्रयुज्यमानेति । तृतीयं शङ्कते अस्त्वेवमिति । मूलमूलीभावः उपजीव्योपजीवकभावः । उक्तेति । प्रयोक्तृमूलभूतप्रमाणान्तरागोचरार्थत्वस्यासिद्धेरन्यं प्रत्यनैकान्ति- कत्वादित्यादिनेत्यर्थः । द्व्यणुकादिपरिमाणमनेकवृत्तिसङ्ख्याजन्यं, तस्याश्च द्वित्वादेरपेक्षाबुद्धित उत्पत्तिः, तदाश्रय ईश्वर इति साधयितुमाह— द्व्यणुकेति । कार्यगुणत्वादिति । कार्यवृत्तिगुणत्वादित्यर्थः । ननु द्व्यणुके परमाणुपरिमाणात् त्र्यणुके च द्व्यणुकपरिमाणादेव परिमाणोत्पादोपपत्तेः किं द्वित्वादिसङ्ख्ययेत्यतं आह न चेति । आकाशपरिमाणवदिति शेषः । यदि च परः परममहत्परिमाणमेव न स्वीकुर्यात् , तदा हेत्वन्त- रमाह अणुपरिमाणत्वादिति । यद्यपि नात्र मनःपरिमाणं दृष्टान्तः, परमतै मनसो विभुत्वात् , न चानारम्भकद्व्यणुकपर- माणुपरिमाणं दृष्टान्तः, तयोरपि कदाचिदारम्भकत्वात् , अचवयवाऽणुपरिमाणस्य जनकत्वा-

प्रकाशिका । जीविप्रमाणान्तरप्रमाणगोचारार्थत्वमित्यर्थः । साध्यसाधनेति । यद्यपि सुगतागमादाविव साधन- व्यापकत्वं तथापि तत्र साध्याव्यापकत्वमपीति प्रमाणत्वावच्छिन्नसाध्यव्यापकत्वं वाच्यं तथा सति तदव- च्छिन्नसाधनाव्यापकत्वमपीत्याशयेनेदमुक्तम् । हेत्वन्तरमाहेति । मनःपरिमाणदृष्टान्तावष्टम्भेनेति भावः। तथा च पूर्वहेतावपि तदेव दृष्टान्त इति तात्पर्यम् । वस्तुतो द्व्यणुकपरिमाणपक्षतायां प्रथमहे- तोरसिद्धिरित्याशयेनोभयसाधारणो हेतुरणुपरिमाणत्वादित्युक्त इति मूलस्य तात्पर्यम् । तयोरिति । अनारम्भके तत्र मानाभावेन तयोरपि कदाचिदारम्भकत्वादित्यर्थः । द्व्यणुकादीनामणारम्भकत्वे च तत्परिमाणस्याप्यवयवपरिमाणतया जनकत्वमिति न दृष्टान्तत्वमित्याह अवयवेति । यदि च

मकरन्दः । यदि चेति । अत्रेदं चिन्त्यम् । तदस्वीकारे दृष्टान्तान्तरं कर्तुमर्हति, न तु हेत्वन्तरम् । मनःपरिमाणदृष्टान्तत्वेन प्रथमहेतावप्युपपत्तेः । तस्मात् द्व्यणुकपरिमाणपक्षके प्रथमस्यासिद्धत्व- माशङ्क्य तदभिप्रायेण हेत्वन्तरम् । तत्र च प्रथमहेत्ववष्टम्भात् परमाणुपरिमाणमेव दृष्टान्तो मनः- परिमाणं वेति मूलतात्पर्यं प्रतिभातीति । तयोरपीति । स्वरूपयोग्यत्वादित्यर्थः । यद्वा अनारम्भके तत्र मानाभावात् तयोरपि कदाचिदारम्भकत्वादित्यर्थः । द्व्यणुकादीनामारम्भकत्वनियमे चावयवपरिमाणतया तत्परिमाणस्यापि जनकत्वमेवेति न दृष्टान्तत्वमित्याह अवयवेति ।

पञ्चमस्तबके ] ईश्‍वरसाधनम् । ५१५ कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितेः । अणुत्वमेव महदारम्भे विशेष इत्यपि न युक्तम् । महतो महदनारम्भप्रसङ्गात् । अणुत्वमहत्त्वयोर्विरुद्ध- तया एकजातीयकार्यानारम्भकत्वप्रसङ्गात् । बहुभिरपि परमाणुभिर्द्वाभ्यामपि द्व्यणुकाभ्यामारम्भप्रसङ्गाच्च । एवं सति को दोष इति चेत् । परमाणुकार्यस्य महत्त्वप्रसङ्गः । कारणबहु- प्रकाशः । ऽभ्युपगमाच्च, अन्यथा नित्यवृत्तिसङ्ख्याया अप्यजनकत्वापत्तेः । तथापि प्रमाणबलेन मनसोऽ- णुत्वं साधयिष्यामीति तत्परिमाणमेव दृष्टान्त इति भावः । अन्यथेति । कालादिमनसां परिमाणस्य परिमाणजनकत्वे तैर्द्रव्यैर्द्रव्यानारम्भादनाश्रय- परिमाणं जायेतेत्यर्थः । बाधकान्तरमाह द्व्यणुकस्येति । अणुपरिमाणं यदि त्र्यणुके महत्त्वा- रम्भकं, द्व्यणुकेऽपि स्यादविशेषादित्यर्थः । त्र्यणुकेऽपि वा द्व्यणुकवदणुत्वापत्तिरिति भावः । यदि न त्र्यणुकमहत्त्वारम्भकं बहुत्वं, तदा तत्रैवाणुत्वमनादृत्य बहुत्वसङ्ख्याया आरम्भकत्वसिद्धेर्द्व्यणुक- परिमाणस्यानारम्भकत्वं सिद्धमित्याह तत्रेति । ननु द्व्यणुकपरिमाणे काचिज्जातिरस्ति तद्विशिष्टाणुत्वं महत्त्वजनकमिति नोक्तदोष इत्यत आह अणुत्वमेवेति । एवं हि महत्त्वं महत्त्वारम्भकं न स्याद्व्यभिचारेण कारणत्वाभावादित्यर्थः । यद्वा किमणुत्वं महत्त्वमेव जनयति, क्वचिदणुत्व- मपि वा ? तत्राद्यमाशङ्क्य दूषयति अणुत्वमेवेति । अन्त्यं दूषयति अणुत्वमहत्त्वयोरिति । अणुत्वमहत्त्वयोर्विरुद्धजातीयतयाऽन्योन्यपरिहारेण स्थितेर्व्यभिचारान्नैकमप्यारम्भकं स्यादित्यर्थः । ननु कारणभेदात् कार्यभेदः स्यादित्यत आह बहुभिरपीति । यदि न संख्या कारणं, किन्त्वणु- परिमाणमिति शेषः । परमाणुकार्यस्येति । कारणबहुत्वस्याप्यन्यत्र महत्त्वहेतुत्वकल्पनाद् प्रकाशिका । तादृशस्यापि अणुपरिमाणत्वेनाजनक तया न दृष्टान्तत्वं तत्राह अन्यथेति । किमणुत्वमिति एवकारोऽत्र भिन्नक्रमः तया च किमणुत्वमेवेत्यर्थः । तेन महतो महदनारम्भप्रसङ्गादिति मूल- सङ्गतिः । क्वचिदणुत्वमपि वेति । क्वचिदणुत्वं क्वचिच्च महत्त्वं महत्त्वजनकत्वमिति विकल्पार्थः । न तु तृणारणिमणिवत् कार्यवैजात्यान्न व्यभिचारः, अन्यथा संख्याहेतुत्वेऽपि का गतिरित्याह नन्विति । यदि नेति । यद्यपि संख्याकारणत्वेऽप्ययं प्रसङ्गः सम्भवी, तथापि परमाणुभिर्द्व्यणुकस्य द्व्यणुकाभ्यां त्र्यणुकस्यारम्भप्रसङ्गो बोध्यः । न चाणुपरिमाणद्वयत्वेन द्व्यणुकाणुत्वजनकत्वमणुपरिमाणत्रयत्वेन च त्र्यणुकमहत्वजनकत्वं स्यादिति वाच्यम् । तथासत्यावश्यकतया द्वित्वत्रित्वयोरेव जनकत्वात् परमा- णुभिस्त्र्यणुकारम्भे बाधकं वक्ष्यतीति । ननु परमाणुपरिमाणं महत्त्वाजनकमेव संख्या तु तन्मते परि- माणाजनिकैवेति कथं परमाणुत्रयारब्धद्व्यणुके महत्त्वापत्तिरित्यत आह कारणबहुत्वस्यापीति । मकरन्दः । यदि च तादृशस्यापि नित्यपरिमाणत्वेनैवाजनकत्वमिति दृष्टान्तत्वं तत्राह अन्यथेति । यद्यप्येतद्दूषणं मनःपरिमाणदृष्टान्तत्वपक्षेऽपि, तथापि तदग्रे परिहरिष्यतीति ध्येयम् । किमणुत्वमिति । एवकारोऽत्र भिन्नक्रमः । तेन किमणुत्वमेव महत्त्वं जनयतीत्यर्थः । तथा च महता महदनारम्भप्रसङ्गादिति घटते । मूलस्वरसोऽप्येवमेवेति केचित् । तृणारणि- मणिवत् कार्यभेदान्न व्यभिचारः, अन्यथा सङ्ख्याहेतुत्वपक्षे का गतिरित्याह नन्विति । यदि नेति । यद्यपि सङ्ख्याकारणत्वपक्षेऽपि तत्र प्रसङ्गतुल्यः, तथापि परमाणुभिन्नार्थकस्य द्व्यणुकाभ्यां त्र्यणुकस्यारम्भप्रसङ्गो बोध्यः । परिमाणद्वयत्वादिना कारणत्वे द्वित्वादेरेवावश्यकस्य कारणत्वात् । परमाणुभिस्तु महदारम्भे बाधकं वक्ष्यतीति । ननु यथा नित्यपरिमाणत्वादिना

५१६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां ध्वस्य तद्धेतुत्वात् । अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैय- र्थ्यप्रसङ्गात् । अणुत्व एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् । अस्तु महदारम्भ एव त्रिभिरिति चेन्न । न, महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् । तथापि वा तारतम्ये संख्यैव प्रयोजिकेति । न च प्रचयोऽपेक्षणीयोऽवयवसंयोग- स्याभावात्। तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः। अतोऽनेकसंख्या प्रकाशः । द्व्यणुककार्यवत् परमाणुत्रयारब्धस्यापि बहुत्वहेतुकमहत्त्वोत्पादापत्तिरित्यर्थः । ननु परमाणुद्वया- रब्धस्येवाणुत्रयारब्धस्याप्यणुत्वमेव स्यादित्यत आह अन्यथेति । तथा सति त्रित्वादिसंख्या- वैयर्थ्यापत्तिरणुद्वयारब्धापेक्षया तद्विशिष्टारब्धे विशेषाभावादित्यर्थः । प्रत्येकं व्यभिचारादकारण- त्वं स्यादिति भावः । नन्वणूनां संख्यावैचित्र्यमणुपरिमाणतारतम्यभेदसम्पादनोपयोगि, परि- माणेऽवान्तरकारणभेदव्यङ्ग्यजातिभेदाच्च न व्यभिचार इत्यत आह द्वाणुण एवेति । तथापि तारतम्ये संख्यैव प्रयोजिका, संख्याभेदं विना समुदाये भेदकान्तराभावादित्यर्थः । परमाणु- कार्यस्य महत्त्वप्रसङ्ग इत्यत्रेष्टापत्तिमाह अस्त्विति । त्रिभिः परमाणुभिरित्यर्थः । महत इति । अनन्यथासिद्धान्वयव्यतिरेकाभ्यां तथैव कारणत्वनिर्णयादित्यर्थः । ननु द्यणुकादिपरिमाणस्य परिमाणजन्यत्वेऽपि प्रचयजन्यत्वं स्यात्, तस्यापि महत्त्वे कारणत्वादित्यत आह न चेति । अतोऽनेकेति । अत्रेदं तत्त्वम् । त्र्यणुकमहत्त्वं न परिमाणजन्यं संख्याप्रचयाजन्यमहत्त्वं प्रत्यवयवमहत्त्वेन कारणत्वात् । न त्ववयवपरिमाणत्वेन, परमाणुपरिमाणाद् द्यणुके महत्त्वापत्तेः । नापि जन्याऽवयवपरिमाणत्वेन, गौरवात् । नापि जन्याणुत्वेन, तथाऽदर्शनात् । महत्त्वविशेषे- प्रकाशिका । समानपरिमाणकपालद्वयारब्धघटापेक्षया समानपरिमाणकपालत्रयारब्धघटे महत्त्वप्रकर्षदर्शनात् संख्यापि कारणमित्यर्थः । न च तर्हीत एव बाधकात्रिभिः परमाणुभिर्द्वयणुक्यारम्भ इति वाच्यम् । परिमाणस्य स्वापेक्षयोत्कृष्टपरिमाणजनकत्या द्वयणुकत्र्यणुकयोरणुतमत्वापत्त्या नाणुपरिमाणं परिमाणजनकमित्यग्रे वक्ष्यमाणत्वात् । ननु परिमाणद्वयेति । महत्त्वसमानाधिकरणाया एव बहुत्वसंख्याया महत्त्वजनकत्वमिति भावः । ननु न वैयर्थ्यं द्वित्वत्रित्वादीनां कारणतावच्छेदकत्वा- दित्यत आह प्रत्येकमिति । संख्यैव प्रयोजिकेति । तथा च संख्यायां अणुपरिमाणजनकत्वे सिद्ध ईश्वर इति भावः । परमाणुकार्यस्येति । यद्यपि पूर्वं द्व्यणुके महत्त्वप्रसङ्गः कृतः, तथापि द्व्यणुकेऽपि परमाण्वारभ्यत्वं नियम्यमिति तत्रैव इष्टापादनाशङ्केति भावः । ननु यथा नित्यवृत्ति- परिमाणस्याणुपरिमाणस्य वाऽजनकत्वम् तथा नित्यवृत्तिईश्वरवृत्तिसंख्ययोरपि न जनकत्वमित्याश- येनाह अत्रेदमत्तत्त्वमिति । नन्विति । न च महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न द्व्यणुके महत्त्वमिति वाच्यम् । नित्यस्य स्वरूपयोग्यत्वात्फलावश्यम्भावनियमात् । गौरवादिति । जन्यत्वविशेषणप्रवेशेनेति भावः । महत्त्वविशेष इति । प्रचयशून्यावयवद्वयारब्धघटादिपरिमाणे मकरन्दः । तन्न जनकं, तथा नित्यवृत्तिसंख्यात्वादिना बहुत्वसंख्याऽपि जनिका न स्यात्, न च द्यणुकस्य महत्त्वप्रसङ्गः, कार्यस्य महतः कार्यद्रव्यारभ्यत्वनियमादित्याशयेनाह अत्रेदं तत्त्वमिति । न त्विति । यद्यपि महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न द्यणुके महत्त्वापत्तिः, तथापि नित्यस्य तस्य स्वरूपयोग्यत्वे फलावश्यम्भावापत्तिरित्यत्र तात्पर्यम् । महत्त्वविशेषे इति । प्रचयशून्यावयवद्वयारब्धघटादिमहत्त्वे व्यभिचारादित्यर्थः ।

Here is the line-by-line transcription of the Sanskrit text from the image:

पंचमस्तबके ] ईश्‍वरसाधनम्। ५१७ परिशिष्यते। सापेक्षाबुद्धिजन्या, अनेकसंख्यात्वात्। न चास्मदादीनामपेक्षा- प्रकाशः। ऽनियतहेतुकताऽऽपत्तेश्च। महत्त्वत्वान्तरजातिकल्पने गौरवम्। बहुत्वकल्पनञ्च प्रामाणिकम्। एवं द्व्यणुकपरिमाणं न महत्त्वजनकम् अणुपरिमाणत्वात् परमाणुपरिमाणवत्, अन्यथा तस्य महत्त्वजनकत्वे द्व्यणुकस्यापि महत्त्वप्रसङ्गः, किन्त्ववयवबहुत्वं, परिमाणप्रचयाजन्यमहत्त्वे अवयवबहुत्वेन कारणत्वकल्पनात्। एवं द्व्यणुकपरिमाणं नाणुपरिमाणजन्यं परिमाणत्वाद् , अणुपरिमाणत्वाद्वा। परमाणुपरिमाणं न परिमाणजनकम् अणुपरिमाणत्वाद् द्व्यणुकपरिमाणवत्। यत्तु नित्यपरिमाणत्वान्न तज्जनकं व्योममहत्त्ववदिति। तन्न, अवयवनित्यपरिमाणस्य जनक- त्वाभ्युपगमात्। अन्यथा नित्यवृत्तिसंख्याया अप्यजनकत्वापत्तेः। अतो द्व्यणुकपरिमाणं संख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वादित्यवयवबहुत्वाभावाद् द्वित्वमेव तज्ज- नकम्। यदि च द्व्यणुकत्र्यणुकपरिमाणं परिमाणजन्यं स्यात्, तदा कारणपरिमाणापेक्षया उत्कृष्टं स्यान्महज्जन्यमहत्तरमहत्तमवदित्यणुपरिमाणतरतमत्वापत्तिः। उत्कर्षश्च न कारणपरिमाणाऽपेक्षयाऽ- धिकदेशत्वं, येनेष्टापत्तिः स्यात्, किन्तु तरवन्तकारणपरिमाणवाचकवाच्यत्वं, तत्प्रवृत्तिनिमित्तजा- तिमत्त्वं वा। ननु परमाणुद्वित्वं न परिमाणजनकं नित्यवृत्तिसंख्यात्वाद्, अणुवृत्तिद्वित्वत्वाद्वो, व्योम- द्व्यणुकवृत्तिद्वित्ववत्। एवं द्व्यणुकवृत्तिबहुत्वं न परिमाणजनकम्, अवयववृत्तिबहुत्वात् , परमाणुबहुत्ववत्। यथा त्र्यणुकमहत्त्वस्याणुजन्यत्वे द्व्यणुकस्यापि महत्त्वप्रसङ्गः, तथाऽणुवृत्तिसं- ख्याजन्यत्वेऽपि द्व्यणुकस्य महत्त्वप्रसङ्गः। यथा च परिमाणस्य स्वोत्कृष्टपरिमाणजनकत्वादणु- तरत्वप्रसङ्गः तथा संख्याया अपि समानाधिकरणपरिमाणोत्कृष्टपरिमाणारम्भकत्वप्रसङ्गः। मैवम्। सर्गादौ परमाणुवृत्तिद्वित्वबहुत्वयोरसिद्धावाश्रयासिद्धेः, सिद्धौ वा धर्मिग्राहकमानवा- धात्। अथ द्व्यणुकपरिमाणं न द्वित्वजन्यं परिमाणत्वात्, त्र्यणुकमहत्त्वं नाणुवृत्तिबहुत्वजन्यं प्रकाशिका। व्यभिचारादित्यर्थः। परिमाणप्रचयजन्यमहत्त्वेति। परिमाणप्रचायाजन्यमहत्त्व इत्यर्थे यथाश्रुते कल्पनास्थलाभावात्। एवं द्व्यणुकपरिमाणमिति। विपक्षबाधकन्तु अणुतमत्वापत्तिः पूर्वमु- क्तैवेति द्रष्टव्यम्। अतो द्व्यणुकपरिमाणमिति। अत्र हेतौ प्रचयपदानन्तरं मात्रपदं पूरणीयम्, तेन कपालत्रयारब्धघटपरिमाणं दृष्टान्तः, अन्यथा दृष्टान्तालाभात्। यद्वा त्र्यणुकपरि- माणस्य परिमाणजन्यत्वे सिद्धे प्रयोगोयमिति तदेव दृष्टान्तमुपादाय यथाश्रुत एव तत्र हेतुः। विपक्षबाधकमाह यदि चेति। अणुवृत्तिद्वित्वत्वादिति। अत्राणुवृत्तिपदं स्पष्टार्थम्। अवयववृत्तीति। अवयवपदमणुपरं तेन कपालादिवहुत्वस्य घटादिपरिमाणारम्भकतया न व्यभिचारः। यदि च बहुत्वस्य क्वचिदपि न परिमाणजनकत्वमिति पूर्वपक्ष्युतराशय इति नोक्तव्य- भिचारः, तदावयवपदं स्पष्टार्थमेवेति मन्तव्यम्। उक्ताश्रयासिद्धिभिया परिमाणं पक्षयति अथेति। मकरन्दः। अणुवृत्तिद्वित्वत्वाद्वेति। अत्राणुवृत्तिपदं स्फुटार्थम्। अवयववृत्तिबहुत्वादिति। अत्रापि वृत्त्यन्तं स्फुटार्थम्। अन्यत्रापि बहुत्वस्य तज्जनकत्वा- नाभ्युपगमादित्येके। अवयवपदमणुपरं तुल्यपरिमाणाधिकसंख्यारब्धे महस्त्वोत्कर्षेण तस्य तज्जन- कत्वे व्यभिचारादित्यन्ये। आश्रयासिद्ध्यादिपरिहारार्थं परिमाणं पक्षयति अथेति।

५१८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां बुद्धिः परमाणुपु सम्भवति । तद् यस्यासौ सर्वज्ञः । अन्यथा अपेक्षाबुद्धेरभावात् संख्याऽनुत्पत्तौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् द्व्यणु- कानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः । अस्मदादीनामेवाऽनुमानिक्यपेक्षाबुद्धिरस्त्विति प्रकाशः । महत्त्वत्वात् परिमाणत्वाद्वेति चेत् । न । प्रसिद्धद्वित्वबहुत्वजन्यत्वे साध्ये सिद्धसाधनात्, अप्रसिद्ध- तन्निषेधे साध्याप्रसिद्धेरिति संख्यैव तज्जनिकेति वयम् । साम्प्रदायिकास्तु—द्व्यणुकपरिमाणसमवायिकारणताग्राहकं मानं यद्यणुपरिमाणं विषयी- कुर्यात् तदा परिमाणद्वयासमावायिकारणत्वे गौरवमिति द्वित्वमेकं विषयीकरोति । यद्वा एकत्वस्य परिमाणानारम्भकत्वे सजातीयनिरूपितोत्कर्षानाश्रयत्वं प्रयोजकम् , तच्च परमाणुपरिमाणेऽपि तुल्य- मित्याहुः । ऋजवस्तु—कारणपरिमाणवत् कारणानेकवृत्तिसंख्याऽप्यन्वयाथनुविधानात् परिमाणहेतुः । ग्रन्थस्तु संख्यानिरपेक्षपरिमाणकारणत्वनिषेधपर इति समादधुः ॥ तद् यस्यासाविति ॥ ईश्वरापेक्षाबुद्धेर्नित्यत्वेनाविनाशेऽपि तदुत्पादितद्वित्वादेर्निमित्तान्त- प्रकाशिका । प्रसिद्धेति । एतच्च सामान्यलक्षणानभ्युपगन्तृपरमतेन दूषणं स्वमतीतप्रयोजकत्वे तात्पर्यमिति । केचित्तु वस्तुतः सामान्यलक्षणानभ्युपगमेऽपि न तयालीकस्यापि सिद्धिरिति यथाश्रुतमेव सम्यगिति- प्रतिभाति । साम्प्रदायिकास्त्विति । अत्रेदमरुचीबीजम्-ईश्वरासिद्धिदशायां परमाणुवृत्तिद्वित्व- मसिद्धं परिमाणञ्च सिद्धमिति कॢप्तकल्पनालाघवेन परिमाणमेव कारणमुचितमिति मन्तव्यम् । यद्वेति । अत्रापि परमाणोरणुतमत्वात्परिमाणेऽपि सजातीयनिरूपितोत्कर्षाश्रयत्वमस्त्येवेत्यरुचि- बीजमिति केचित् । तदयुक्तम् उत्कर्षो ह्यत्राधिकदेशव्यापकत्वं न तु तारतम्यं द्वित्वादावभावात्, तदभावस्य च सजातीयापेक्षया परमाणुपरिमाणे एकत्वे च समानत्वादिति । इदन्त्वरुचिबीजं परिमाणजनकतावच्छेदकरूपाभाव एव एकत्वस्य परिमाणानारम्भप्रयोजकः, अन्यथा विभागादेरपि तदारम्भकतापत्तेः जनकतावच्छेदकञ्चावयववृत्त्यनेकवृत्तिसंख्यात्वमेवेति । ऋजवस्त्विति । अत्रोभ- यहेतुकल्पनेमानाभावः । न चावयवानेकवृत्तिसंख्यात्वमवयवपरिमाणत्वञ्च परिमाणजनकतावच्छेदक- मित्येव मानमिति वाच्यम् । तथा सत्यणुत्तमत्वापत्तेरुक्तादित्यरुचिबीजम् । त्वनिमित्तान्तरमदृष्टं वेदसमानविषयकत्यादितात्पर्यविषयकत्वं तात्पर्यविषयविषयकत्वं तावन्मात्रे च साध्ये अध्याप- कतात्पर्येणार्थान्तरमिति तात्पर्यापूर्वकत्वं तात्पर्यविशेषणम् तथाप्यस्मदादेरेव स्वतन्त्रं मकरन्दः । प्रसिद्धेति । एतच्च सामान्यलक्षणाभ्युपगन्तृमते दूषणम् । स्वमते त्वप्रयोजकत्वमित्यंत्र तात्पर्यम् । साम्प्रदायिकास्त्विति । न चेश्वरासिद्धिदशायां द्वित्वस्य कल्पनीयतया धर्मिकल्पनात् इति न्यायेन परिमाणमेव विषयीकरोतीति वाच्यम् । मानान्तरेणेश्वरस्य साधितत्वात् तदवष्टम्भे- नेदमित्येके । अत्र कल्पेऽस्वरस एवायमित्यन्ये । परमाणोरणुतरत्वात् तत्परिमाणेऽपि सजातीयनिरूपितोत्कर्षाश्रयत्वमस्त्येवेत्यस्वरसादाह इत्याहुरिति । उभयहेतुत्वे गौरवमित्यस्वरसमाविस्करोति ऋजवस्त्विति । निमित्तान्तरम्—अदृष्टादि । वेदसमानविषयकेत्यादि । अत्र वेदपदं स्वपरं, तेन लौकिकप्रशंसावाक्ये न व्यभिचारः ।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५१६ चेन्न । इतरेतराश्रयप्रसङ्गात् । जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानं, तस्मिन् सति द्यणुकादिक्रमेण स्थूलोत्पत्तिः । अस्मद्दृष्टादेव परिमाणं कृतमपेक्षाबुद्धयेति. चेत्। न। अस्तु तत एव सर्वं, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति ॥ ५ ॥ अथवा, कार्येत्यादिकमन्यथा व्याख्यायते— उद्देश एव तात्पर्यं व्याख्या विश्वदृशः सती । प्रकाशः । रनाशेन नाश इति भावः ॥ जाते.हीति ॥ महत्त्वोत्पत्तेः पूर्वं द्यणुकस्याप्रत्यक्षत्वेन लिङ्गा- भावादित्यर्थः ॥ अत्र कार्यमुद्देश्यत्वम्, उद्देशश्च तात्पर्यम् । तद्विषय. एव वेदस्य प्रामाण्यम् । तच्च परिशेषा- द्वक्तुरिच्छा । सा च वेदार्थे नास्मदादीनामिति तदाश्रयेश्वरसिद्धिरित्याह— उद्देश एवेति ॥ वेदस्यायोजनमासमन्ताद्भावेन योजनं व्याख्यानम् । तच्चास्मदादीनां सर्व- वेदादर्शिनां न निष्कम्पप्रवृत्तिहेतुरिति तद्व्याख्यातृतयेश्वरसिद्धिरित्याह । व्याख्येति ॥ ईश्वरादि- प्रकाशिका । पदार्थगोचरतात्पर्यमादायार्थान्तरमिति वेदसमानविषयकत्वं द्वितीयतात्पर्यविशेषणं, तच्च वैदिकवाक्यार्थगोचरत्वम् । न चैवं लौकिकवाक्ये व्यभिचारः, समभिव्याहृतवाक्यपर- त्वाद्द्वेदपदस्य हेतौ च सतात्पर्यकपद्ं बाधितार्थकशुकवाक्ये व्यभिचारवारणाय प्रमाणवाक्यस्य सर्वस्य पक्षसमत्वाच्चेति ध्येयम् । तादृशेति । तथा च धृत्यादेरित्यत्र धृतिपदेन वेदधा- रकत्वं युक्तमिति, तदाश्रयेश्वरसिद्धिरिति भावः । मकरन्दः । अध्यापकतात्पर्यविषयत्वेनार्थान्तरमत उक्तं तात्पर्यापूर्वकेति तात्पर्यविशेषणम् । तात्पर्यविषय- काणीत्यत्र तात्पर्यविषयो विषयो यस्येति मध्यमपदलोपी समास इत्याहुः । न च हेतौ सतात्पर्य- कपदं व्यर्थम्, ईश्वरतात्पर्यमादाय वाक्यमात्रस्य पक्षसमत्वेन व्यभिचाराभावादिति वाच्यम् । बाधितार्थके तत्तात्पर्याभावेन व्यभिचारसम्भवात् । सा चेतीति । तथा च धृत्यादेरित्यनेन वेदधारकत्वादिकमुक्तमिति तदाश्रयेश्वर- सिद्धिरिति भावः । टिप्पणी । मीमांसकमुद्दिश्य प्रकारान्तरमाह अथवेति । उद्देश एवेत्यादि । तथाच वेदे यस्य तात्पर्यं स एवेश्वरः सिध्यति । इदं तु तात्पर्यवतीश्रुतिः प्रत्यक्षाद्वलीयसी न श्रुतिमात्रम् , अन्यथार्थवादस्थले प्रमाणान्तरविरुद्धोऽप्यर्थः सिध्येदिति यजमानः प्रस्तर इत्यादिश्रुतिबलात् यजमानादेः प्रस्तरादिरूपताऽपि स्यात् , तात्पर्यवत्या एव श्रुतेः प्राबल्योपगमे तु यजमानादौ प्रस्तरार्थभेदबोधने श्रुतेस्तात्पर्याभावान्न प्राबल्यं किंतु प्रत्यक्षस्यैवेति न काचिदापत्तिरनुपपत्तिर्वेत्या- चार्यवाचस्पतिमिश्राणाम्मतमनुसरति । आयोजनपदं व्याख्याति व्याख्येति । नत्वेवं सर्वज्ञानाकारस्य प्रदीपवत्सर्वार्थत्वद्योतिनः ऋग्वे- दादेरल्पज्ञाज्जीवात् व्याख्या सती समीचीना भवितुमर्हतीत्यतस्तद्व्याख्यातृतया विश्वदृशः सर्वज्ञस्य ईश्वरस्य सिद्धिः । एवं तत्कारिकाघटकधृत्यादेरित्यत्र धृतिर्धारणम् अध्ययनम् वेदाध्ययनम् स्वतन्त्र- पुरुषप्रयोज्यम् शिष्टैरनुष्ठीयमानत्वात् इत्यनुमानेन साध्यघटकतयेश्वरः सिध्यति । धृत्यादेरित्यादिपदेनो- पासनं संगृह्यते, तथाच ईश्वरोपासनं सद्विषयकं शिष्टैरनुष्ठीयमानत्वादित्यनुमानेनेश्वरसिद्धिः । पदादीश्वरं

५२० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकान्याख्यायां ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः ॥ ६ ॥ आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती। भूतार्थस्य तु यद्यपि नाहत्य प्रवर्त्तकत्वं निवर्त्तकत्वं वा, तथापि तात्पर्य्यतस्तत्रैव प्रामाण्यम् । तथाहि विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते । प्रशस्ते हि सर्वः प्रवर्त्तते, निन्दि- ताच्च निवर्त्तते इति स्थितिः । तत्र पदशक्तिस्तावत्सिद्धा, तद्बलायातः पदार्थः। आकाङ्क्षादिमत्त्वे सति चाऽन्वयशक्तिः पदानां पदार्थानां वा वाक्यं, तद्बलायातो वाक्यार्थः । तात्पर्यार्थस्तु चिन्त्यते-तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य, तदिदं तत्परम्, तस्य भावस्तत्त्वम्, तद् यद्विषयं, स तात्पर्यार्थ इति स्यात् । तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणोऽसाध्यत्वात् । फलस्य च तत्प्रतिपत्तितोऽ- न्यस्याभावात् । प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं पर- मुच्यते इति चेन्न। गङ्गायां घोष इत्यत्र तीरस्याऽप्रवृत्तिनिवृत्तिरूपस्यासाध्य- स्यापि परत्वात् । तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति चेन्न। स्वरूपाख्यानमात्रेणापि पर्य्यवसानात्। न द्वितीयः । पदवाक्ययोः पदार्थतत्त्संसर्गौ विहाय प्रतिपाद्यान्तराभावात् । 'पदशक्तिसंसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते' इत्यपि न साम्प्रतम् । न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्यं शब्दस्य, अतिप्र- सङ्गात् । तदा हि गङ्गायां जलमित्याद्यपि तीरपरं स्यात् , अविनाभावस्य ताद- वस्थ्यात् । मुख्ये बाधके सति तत्तथा स्यादिति चेत् । न तस्मिन्नसत्यपि भावात् । तद् यथा- प्रकाशः। पदानां सर्वज्ञे नित्यज्ञाने वेदादेव शक्तिग्रहात् ततोऽपि तत्सिद्धिरित्याह ईश्वरादीति ॥ लोक- वृत्तेति ॥ लौकिकदृष्टान्ते व्याप्तिग्रहादित्यर्थः ॥ वृद्धव्यवहारेण कार्यान्विते पदार्थे पदानां शक्तिः कार्यान्वयश्च विधिसमभिव्याहृतस्य साक्षात्, तदसमभिव्याहृतस्य च परम्परयेति मतमाश्रित्याह आम्नायस्येति ॥ भाव्यार्थस्य-साध्यार्थस्य ॥ यथा पथ्यं भुञ्जीत अपथ्यं न भुञ्जीत इत्यस्य साक्षात् कार्यान्वयज्ञानात् प्रवर्त्तकत्वनिवर्त्तकत्वे ॥ भूतार्थस्य-सिद्धार्थस्य ॥ यथा परिणतिसुरसमाम्रफलं परिणतिचिरसं पनसमिति वाक्यस्य तद्- भावाद् भक्षणाऽभक्षणकार्यत्वे तात्पर्यग्रहात् परम्परया तथात्वमित्यर्थः । तदुपपादयति विधि- शक्तिरिति ॥ कार्यत्वज्ञानजननेऽपि प्रवृत्त्योपयिकं प्रवृत्तिविषयस्यान्यापेक्षया प्राशस्त्यज्ञानं, तद्रूप- सहकार्यलाभो विधिशक्तेरवसादः, तल्लाभश्चोत्तम्भनम्। तत्सहकारित्वे मानमाह प्रशस्ते हीति ॥ पदार्थवाक्यार्थाभ्यां तात्पर्यं भेदयितुं प्रतौति तत्रेति ॥ तदेव परं यस्य स्तुत्यादिवाक्यस्येत्यत्र परपदार्थं विकल्पयति साध्यमिति ॥ तदिदमिति ॥ वाक्यमित्यर्थः ॥ ननु वाक्यार्थस्य वाक्यरूपप्रमाणासाध्यत्वेऽपि तन्निष्टफलसाध्यतयैव तत्साध्यता स्यादित्यत आह फलस्य चेति ॥ तस्य च द्वितीयविकल्प एव प्रवेशादिति भावः ॥ तीरस्यापीति ॥ साध्यफलभागितया तीरस्यापि साध्यत्वमित्यर्थः ॥ स्वरूपेति ॥ प्रवृत्त्यादौ तात्पर्याभावेऽपि तीरस्य तात्पर्यविषयत्वादित्यर्थः ॥ पदवाक्ययोरिति ॥ स्तुत्यादिवाक्यस्य पदार्थवाक्यार्थभिन्ने टिप्पणी। साधयति ईश्वरादेरिति । आहत्य साक्षात् । सा च प्रवृत्तिश्च, इच्छात्तः-चिकीर्षातः।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५२१ 'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥' इति, मुख्यार्थाबाधनेऽपि वारणे तात्पर्यम् । न च परं व्यापकमेव, अव्या- पकेऽपि तात्पर्यदर्शनात् । तद् यथा-मञ्चाः क्रोशन्तीति पुरुषे तात्पर्यम् । न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः । नापि तृतीयः । तद्धि प्रतिपाद्यापेक्षितं, प्रतिपादकापेक्षितं वा स्यात् । नाद्यः शब्दप्रामाण्यस्यातदधीनत्वात् , तथात्वे वाऽतिप्रसङ्गात् । यस्य यदपेक्षितं, तं प्रति तस्य परत्वप्रसङ्गात् । तदर्थसाध्यत्वेनाऽपेक्षानियम इति चेत् । न, कार्यज्ञा- प्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात् । धूमस्य हि प्रदेशश्यामलतमशकनिवृत्त्याद्यनेकं कार्यम् । आर्द्रेन्धनदहनाद्यनेकं ज्ञाप्यम् । तथा चेह प्रदेशे धूमोऽय इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्, चेतना- पेक्षाया नियन्तुमशक्यत्वात् । नाऽपि प्रतिपादकापेक्षितं, वेदे तदभावात् । चतुर्थस्तु स्यात् । यदुद्देशेन यः शब्दः प्रवृत्तः स तत्परः, तथैव लोकव्यु- त्पत्तेः । तथाहि-प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते, तदुपादानपरम् । निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते, तद्धानपरम्, एवमन्यत्रापि स्वयमूहनीयम् । तस्माल्लोकानुसारेण वेदेऽप्येवं स्वीकरणीयम् , अन्यथा अर्थवादानां सर्वथै- वानर्थक्यप्रसङ्गात् । स चोद्देशो व्यवसायोऽधिकारोऽभिप्रायो भाव आशय इत्य- नर्थान्तरमिति तदाधारप्रणोतृपुरुषधौरेयसिद्धिः । तथा च प्रयोगः-वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि प्रशंस- प्रकाशः । प्रवृत्त्यादावपि तात्पर्यात्तद्व्यापकत्वादित्यर्थः । न च यदर्थज्ञानजनकत्वं यस्य, तस्य तत्र तात्पर्य- मिति वाच्यम् । धूमोऽस्तीति वाक्यस्याग्निज्ञानजनकत्वेऽप्यग्नौ तात्पर्यात्तद्व्यापकत्वादिति भावः ॥ तद्धीति । प्रयोजनं न वक्तुः श्रोतुर्वेत्यर्थः । यत्र वक्तुस्तात्पर्यं तत्र शब्दस्य प्रामाण्यमिति स्थितेराह शब्देति । अतिप्रसङ्गमेवाह यस्येति । तथाच तात्पर्यभेदेन वाक्यभेदः स्यादिति भावः । तदर्थेति । शब्दस्य योऽर्थस्तस्य यत्साध्यं प्रतिपाद्यस्य चापेक्षितं तत्परं, न तु तद्- साध्यमपीत्यर्थः । कार्येति । साध्यं जन्यं ज्ञाप्यं वा ? उभयस्याप्यनेकत्वात् । तथापि तात्पर्यभेदाद्वाक्यभेद एव स्यादित्यर्थः । न च प्रकरणादिना तात्पर्यनियमान्न वाक्यभेदापत्तिः । प्रकरणं हि न साध्यं नियमयति, अशक्यत्वात् । न हि धूमं जिज्ञासमानस्य प्रतीयमान- धुमाद्धूमकेतुप्रतीतिवन्मशकादिनिवृत्तिर्न भवति, प्रतिपादकाभिप्रायनियमे च सिद्धं वेदस्य सकर्तृकत्वमिति भावः । चेतनेति । एक एवार्थः सर्वेषां चेतनानामपेक्षित इत्यत्र नियामकाभावाद्भिन्नभिन्नार्थापेक्षायां तात्पर्यभेदाद्वाक्यभेदः स्यादिति भावः । वेदे इति । तव दर्शने इति शेषः । अर्थवेति । लोके हि पदानां स्वतन्त्राभिप्रायपूर्वकतया स्वार्थप्रतिपाद- कत्वदर्शनाद्वेदेऽपि तथात्वं तत्पूर्वकतयैव युज्यते । न च लौकिकशब्देभ्यो वैदिकाः शब्दा अन्ये एवेति लोकमर्यादाऽतिक्रमः स्यात् । यतोऽनेनैव न्यायेन लौकिकानामेव शब्दानामर्र्थविशेषे शक्ति- ग्रहाद् वैदिकानां तद्भिन्नत्वादगृहीतशक्तिकत्वादर्थाप्रतिपादकत्वप्रसङ्गः । अत एव य एव लौकिकास्त एव वैदिकास्त एव चामीपामर्था इत्याहुरित्यर्थः । ननूद्देश्यत्वं नेच्छाविषयत्वं, किन्तु वस्त्वन्तरमेवे- त्यत आह स चेति । लोके तथैव निधयादित्यर्थः । वैदिकानीति । ननु सर्गाद्यकालीनवैदिकवाक्यपक्षतायामाश्रयासिद्धिः, इदानीन्तनस्य तस्य ६६ न्या० कु०

५२२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां

सावाक्यत्वात् परिणतिसुरसमास्रफलमित्यादिलोकवाक्यवदिति । एवं निन्दा- वाक्यानि हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् परिणतिचिरसं पनसफलमित्या- दिवाक्यवत् , अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम् । अपि च नो चेदेवं, श्रुतार्थापत्तिरपि हीयेत । सिद्धो ह्यर्थः प्रमाणविषयो, न तु तेनैव कर्त्तव्यः। न च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र रात्रौ भुङ्क्त इति वाक्यशेषोऽस्ति , अनुपलब्धबाधितत्वात्-उत्पत्त्यभिव्यक्तिसामग्रीतालवा- दिव्यापारविरहात् , अयोग्यस्याशङ्कितुमप्यशक्यत्वात् । तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात् । स चैद्वेदे नास्ति, नास्ति श्रुतार्थापत्तिरिति तद्- व्युत्पादनानर्थक्यप्रसङ्गः। तस्मात् कार्यात्तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति । आयोजनात् खल्वपि । न हि वेदाद्व्याख्यातात् कश्चिदर्थमधिगच्छति । न चैकदेशदर्शिनो व्याख्यानमादरणीयम् । पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम् । इति न्यायानाश्वासात् । त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणोऽन्यथा- र्थप्रत्ययः स्यात् , किमुतातीन्द्रियानन्तरवाक्यसम्मेलदुरधिगमात् । ततः सकलवेदवेदार्थदर्शी कश्चिदेवाभ्युपेयोऽन्यथाऽन्धपरम्पराप्रसङ्गात् । स च श्रुताऽधीतावधृतस्मृतसाङ्गोपाङ्गवेदवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति । को ह्यप्रत्यक्षीकृतविश्वस्तदनुष्ठान एतावानेवायमाम्नाय इति निश्चिनु- यात् । कश्चाऽर्वाग्दृग् निःशेषाः श्रुतीर्ग्रन्थतोऽर्थतो वाऽधीयीत, अध्यापयेद्वा । अत्रापि प्रयोगः - वेदाः कदाचित् सर्ववेदार्थविद्व्याख्याताः अनुष्ठातृमति-

प्रकाशः।

पक्षत्वेऽप्येत्राऽस्मदादिनाऽर्थान्तरत्वं, स्वरूपाख्यानपरपुत्रस्तुतिवाक्ये चानैकान्तिकम् । अत्राहूः- वैदिकप्रशंसावाक्यानि वेदसमानविषयकतात्पर्यपूर्वकतात्पर्यविषयकाणि सतात्पर्यवाक्यत्वात् लौकि- कप्रशंसावाक्यवत् । यदि च वेदे न स्वतन्त्रपुरुषाभिप्रायपूर्वकता, तदा भट्ठानां श्रुतार्थापत्त्या शब्दः कल्प्यते इति राद्धान्तव्याघात इत्याह - अपि चेति । ननु मा भूच्छ्रुतार्थापत्त्या शब्दकल्पनं, योग्यार्थकल्पनयैवो- पपत्तेः । मैवम् । क्रियाकारकपदानामन्योन्योपस्थापिताऽर्थान्वयबोधकत्वनियमव्युत्पत्तेः । अन्यथा गौः कर्मत्वमानयनं कृतिरित्यतोऽपि गामानयेत्यस्मादिवान्वयबोधापत्तेः, पुष्पेभ्य इत्यादौ स्पृहय- तीत्यादिशब्दसमभिव्याहारं विना चतुर्थ्यनुपपत्तेश्च । न च स्पृहयतिशब्दार्थयोग एव चतुर्थी साधुः । पुष्पमिच्छतीत्यत्रापि चतुर्थ्यापत्तेः । तथापि स्वयं स्मृतानामेव योग्यासन्नसाकाङ्क्षपदानां श्रुतपदैः सहैकार्थप्रतिपादने तात्पर्यकल्पनं श्रुतार्थापत्तिविषयः स्यादिति चेन्न । वेदे परस्परसमभिव्याहृतपदानामेकार्थप्रतिपादने तात्पर्येप- लब्धेः । तस्य चोच्चारणाभिप्रायान्यतरनियतविषयत्वेनोभयथाऽपि ईश्वरसिद्धिरित्याशयेनाह गत्यन्तराभावादिति । कार्येत्यादिकारिकायां धृत्यादेरित्यापि व्याचष्टे स चेति । श्रुतः-श्रोत्रेण साक्षात्कृतः । अधीतो-ज्ञानविषयार्थः । धृतः-सतताभ्यासेन दृढसंस्कारः । तद्विपरीतो विनैवाध्ययनं ज्ञातसकलाङ्गो- पाङ्गवेदार्थः, अध्यापितधारितादिवेदार्थो वा । कदाचिदिति बाधनिरासाय । एकदेशदर्शि-

प्रकाशिका ।

एकदेशदर्शीति । पक्षसमेऽपि व्यभिचार इति मतेनेदम् । वस्तुत इदं विशेषणं त्याज्यमेव

मकरन्दः।

एकदेशदर्शीति । नन्दीश्वरव्याख्यानमादाय तस्यापि पक्षसमतया कथमनेकान्तिकम्,

चलनेऽपि निश्चलार्थानुष्ठानत्वात् , यदेवं तत्सर्वं तदर्थविद्भिर्व्याख्यातं, यथा मन्वा- दिसंहितेति । अन्यथा त्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदना- देशिकत्वात् । अनुष्ठातार एवादेष्टार इति चेत् । न तेषामनियतबोधत्वात् । वेद- च्छेदानुष्ठानमप्यनादीति चेत् । न । तद्धि स्वतन्त्रं वा, वेदार्थबोधतन्त्रं वा ? । आद्ये निर्मूलत्वप्रसङ्गः । द्वितीये त्वनियमापत्तिः । न ह्यसर्वज्ञाविशेषे पूर्वेषां तदवबोधः प्रमाणं, न त्विदानीन्तनानामिति नियामकम्स्ति । पदात् खल्वपि । श्रूयते हि प्रणवेश्वरेशानादिपदम् , तच्च सार्थकम् , अवि- गानेन श्रुतिस्मृतीतिहासेषु प्रयुज्यमानत्वात् घटादिपदवदिति सामान्यतः सिद्धे कोऽस्यार्थः ? इति व्युत्पित्सोर्विमर्शे सति निर्णयः, स्वर्गादिपदवत् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ इत्यर्थवादात् , यववराहादिवाक्यशेषाद्वा । तद् यथा ईश्वरप्रणिधानमुप- क्रम्य श्रूयते— प्रकाशः । व्याख्यातवेदात् , शिष्याणां श्रद्धया प्रवर्त्तमानानां निश्चलानुष्ठानमस्तीत्यनैकान्तिकमित्यत उक्तम् अनुष्ठात्रिति । तत्राऽनुष्ठातृणामव्यवस्थितमतिस्वाभावादित्यर्थः ॥ अननुष्ठानहेतुमाह अव्यव- स्थानादिति । अर्थनिश्चयस्येति शेषः । अन्यथा त्वनियतानुष्ठानं स्यादित्याह अव्यवस्था वेति । अर्थनिश्चयाव्यवस्थानादित्यर्थः । अनादेशिकत्वात्-अनौपदेशिकत्वादित्यर्थः । ननु पूर्वेषामेव स्वतन्त्रवेदार्थज्ञानं प्रमाणमाधुनिकानान्त्वप्रमाणं स्यादित्यत आह न हीति । न च कश्चित् वेदार्थोऽस्तीत्यनेन रूपेणास्मदादिभिरेव व्याख्यानादनुमाने सिद्धसाधनं, येन रूपेण वेदार्थो व्याख्यात इति लोके व्यवहारः, ताद्रूप्येण व्याख्यानस्य विवक्षितत्वात् । यद्वा वेदा व्याख्यानानुकूल- तद्विषयानित्यज्ञानभिन्नज्ञानसमानविषया वाक्यत्वाद्, वेदा एतद्विषयाऽनित्यज्ञानान्यज्ञानविधृता धृतवाक्यत्वादिति भावः । अविगानेनेति । निरर्थकतया प्रसिद्धभावेनेत्यर्थः । अत एव स्तोभैर्न व्यभिचारः, निरर्थकत्वेनैव तेषां प्रसिद्धेरिति भावः । यथा स्वर्गपदे विधिशेषीभूतार्थवादाच्छक्ति- ग्रहस्तथा प्रकृतेऽपीत्याह निर्णय इति । अर्थवादमाह उत्तम इति । यववराहादिवदिति । 'यवमयश्चरुर्भवति' 'वाराही चोपानहू' 'वैतसे कटे प्रजापत्यं घिनोती'त्यत्र यववराहवेतसशब्दाः किं कङ्गुवायसजम्बूनां वाचकाः, उत दीर्घशूकशूकरवञ्जुलानामिति म्लेच्छार्य- व्यवहारदर्शनाद्विप्रतिपत्तौ मुख्यार्थानिश्चयसायेऽननुष्ठानापत्त्या तत्पदवच्छेदप्रामाण्यसंशये, पूर्वपक्षः— व्युत्पत्तिग्राहकव्यवहाराविशेषात् कङ्गवादावपि शक्तिरेव, पिकनेमतामरसपदेषु म्लेच्छप्रसिद्धेरादर- णाच्चेति । राद्धान्तस्तु-वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः प्रकाशिका । पक्षसमे च न व्यभिचार इति मतेनैवायं हेतुः, तद्विशेषणपि व्यभिचारापत्तेरिति ध्येयम् । धृत्यादे- रित्यभिप्रायेणाह वेदा एतद्विपयेति । सर्वज्ञतेत्यादिमूलस्थकारिकायां स्वतन्त्रता-नित्येच्छा, अनन्तशक्तिः,-कार्यमात्रकारणत्वम् । ननूपदेशादिरेव विधिरस्तीत्यतो मूलं विधिः प्रेरणेत्यादि । मकरन्दः । अन्यथा तादृशस्थले कदाचिदनुष्ठातृमतिचलनस्यापि सम्भवेन तत्पदोपादानेऽपि व्यभिचारा- पत्तेरिति चिन्त्यम् । धृत्यादेरित्यभिप्रायेणाह वेदा इति ।