न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 536, कुल 608 में से
संदर्भ में पढ़ें५०४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
त्वावधारणात्। क्रियाविशेषविश्रान्तोऽयमर्थो, न तु तन्मात्रगोचरः। चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत्। अथ केयं चेष्टा नाम?। यदि प्रयत्नवदात्मसंयोगाऽ- समवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम्। तन्न। तस्यैव तत्रानुपाधित्वात्। अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम्। तन्न। विषभक्षणो- द्वन्धनाद्युद्वापनाद् इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत्। कर्त्तारं प्रत्यन्यं वा?। उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः। भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च। शरीरसमवायिक्रियात्वं तदिति चेन्न। मृतशरीर- क्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः। जीवत इति चेन्न। नेत्रस्पन्दादेश्चेतनाधिष्ठा-
·प्रकाशः। निराकार्यं चेष्टात्वमुपाधिमाह क्रियाविशेषेति। तस्यैवेति। प्रयत्नवदात्मसंयोगाऽसमवायि- कारणकत्वे हि परमाणुक्रियायां चेतनायोजितत्वमिति साध्यम्, तच्च नोपाधिः, साधनव्यापक- त्वादित्यर्थः। विषेति। विषभक्षणादिक्रियाया अहितमरणादिप्रापकत्वादित्यर्थः। इष्टेति। विष- भक्षणानुकूलक्रियाया अपि इच्छाविषयविषभक्षणादिप्रापकत्वमस्त्येव, इच्छां विना तत्र प्रवृत्त्य- भावादित्यर्थः। उभयथाऽपीति। परमाण्वादिक्रियायास्तत्कर्तुरीश्वरस्याऽस्मदादेश्चेच्छाविषयार्थ- हेतुत्वादित्यर्थः। तथाच साधनव्यापकत्वादद्यनुपाधित्वमिति भावः। साध्याव्यापकत्वमप्याह भ्रान्तेति। भ्रमप्रवृत्तस्पन्दस्येष्टरजता प्रापकत्वादनिष्टशुक्त्यपरी- हारकत्वाच्च तत्र साध्याव्यापकत्वादित्यर्थः। न च रजतत्वेनेच्छाविषयस्य शुक्तेः प्रापकत्वमस्त्येवे- ति वाच्यम्। येन रूपेणेष्टं तद्रूपेण प्राप्तेर्विवक्षितत्वादिति भावः। मृतेति। वाय्वाऽऽदिना।
प्रकाशिका। लीनेति। अत एवाह विशेषणीभूतेति। अत एव चेष्टात्वस्योपाधित्वशङ्कापीति भावः। साधनव्यापकत्वादीति। प्रयत्न जन्यत्वञ्चेत्, तत् कर्ममात्रे -तदा तदाश्रयसंयोगासमवायि- कारणकत्वमपि तत्र यः स्पन्द इत्यादिप्रव्याप्तेरिति भावः। साध्याव्याप्तेरिति। तन्मत इति शेषः। इदमपीत्युपलक्षणम् त्वन्मतेनेत्यपि द्रष्टव्यम् मन्मते तत्र साध्यसत्त्वात्। त्वन्मत इति। स्पर्शव- दद्रव्यान्र्तराप्रयुक्तक्रियार्थवत्त्वमेवोपाधिरित्यत्र दूषणमिदम्। यदि तु शरीरसमवायित्वस्य विशे- षणमिदं तदा मूलोक्तान्योन्याश्रय एव दूषणम्। ननु साक्षात्परम्परया वेति। न समुच्चयः एक त्र्रोभयाधिष्ठानाभावात्। प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति।
मकरन्दः। णोभूतेति। अत एवं चेष्टात्वस्योपाधित्वशङ्काऽपीति भावः। साधनव्यापकत्वादिति। न च कर्म्ममात्रस्य तत्प्रयत्नजन्यत्वेऽपि तत्संयोगसमवायिकारणत्वे मानाभाव इति वाच्यम्। यः स्पन्द इत्यादिप्रागुक्तन्यासेस्तथात्वादिति भावः। मृतशरीरे क्रियैव कथमित्यत आह वाय्वादिनेति। तन्नोदनादिनेति भावः। इदमपीत्युपलक्षणं, त्वन्मतेनेत्यपि द्रष्टव्यम्। मन्मते तत एव साध्यापत्तेरि- ष्टत्वात् त्वन्मत इति। यद्यपि सत्यन्तं शरीरगर्भमुपाधिविशेषणमिति ज्वलनक्रियायां तदभावादन्नो- क्तिसम्भवाभावस्तथापि तद्गर्भतायामिदं, तद्गर्भत्वेऽन्योन्याश्रय इति विकल्प्य दूषणे तात्पर्य्यम्। ननु साक्षात् परम्परया वेति न समुच्चयः, एकत्रोभयथाऽधिष्ठानाभावात्, प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिवद्धपतनमिति। एतेन मूले व्यर्थविशेषणमपि सूचितम्।
टिप्पणी। व्यवहारवदित्यनेनाप्यनुमानेनेश्वरः सिध्यति, अत्रापि कार्यत्वादेव निरूपाधित्वम्।